________________
चतुर्थः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
अपरेद्युर्वसन्तर्तौ 'वसन्तसुमनोधरा । काऽप्यागाच्चेटिका राज्ञोऽभयघोषस्य सन्निधौ ॥ १२४ ॥ तां प्रेक्ष्य स्वर्णतिलका देव्येवं नृपमभ्यधात्। अमण्ड्यत वसन्तेनोद्यानं षडृतुकाभिधम् ॥१२५॥ इदानीमनुभवितुं मेधुलक्ष्मीं नवागमाम् । यथोचितपरीवारा गच्छामः प्राणवल्लभ ! ॥ १२६॥ अत्रान्तरे च पृथिवीसेना नृपमुपास्थित । दधाना कोटिमूल्यानि युक्तिपुष्पाणि पाणिना ॥१२७॥ वीक्ष्याऽऽदाय च तान्याशु स्मेराक्षः स क्षितीश्वरः । यथोचितपरीवारो ययौ चिक्रीड तत्र च ॥१२८॥ युग्मम् ।। | पृथ्वीसेना त्वनुज्ञाता भ्रमन्ती तत्र चैकतः । ददर्श दन्तमथनं विशिष्टज्ञानिनं मुनिम् ॥ १२९ ॥ ववन्दे मुदिता तं च मुनिं निर्भरभक्तिभाक् । भवनिर्वेदजननीं देशनां चाऽशृणोत् ततः ॥ १३० ॥ तत्कालमपि राजानमापृच्छ्य भवकातरा । प्रव्रज्यां साऽऽददे दन्तमथनस्य मुनेः पुरः ॥ १३१ ॥ प्रशंसन् पृथिवीसेनादेव्याश्चारित्रमद्भुतम् । स्वं धामाऽभयघोषोऽपि जगाम जगतीपतिः ॥१३२॥ ||अन्येद्युरभयघोषः स्वमन्दिरशिरोभुवि । रत्नसिंहासनासीनो विश्रान्त इव भास्करः ॥१३३॥ ददर्श तीर्थकृल्लिङ्गं छद्मस्थत्वविहारिणम् । द्वारदेशे प्रविशन्तमनन्तं जिनपुङ्गवम् ॥१३४॥ युग्मम्|| ससम्भ्रमं समुत्थाय भोज्यमादाय चोचितम् । उपतस्थे भगवन्तं स प्रणामपुर : सरम् ॥ १३५॥ पारयामास भगवानपि तद्दत्तभिक्षया । देवैश्च विदधे तत्र वसुधारादिपञ्चकम् ॥ १३६ ॥ कृतपारणकोऽन्यत्र जगाम भगवानपि । छद्मस्था हि जिना नाऽन्यमुनिवत् क्वचिदासते ॥१३७॥ विहरन्नन्यदोत्पन्नकेवलोऽनन्ततीर्थकृत् । एत्य वज्रपुरे तत्र नगरे समवासरत् ॥ १३८॥ एत्य भक्त्याऽभयघोषः कृत्वा त्रिश्च प्रदक्षिणाम् । तं ववन्देऽशृणोद् धर्मदेशनां च भवच्छिदम् ॥१३९॥ देशनान्ते भगवन्तं नत्वा राजैवमब्रवीत् । त्वमत्र भविनां पुण्यैः कल्पद्रुम इवाऽऽगमः ॥१४०॥ प्रवृत्तिस्ते परार्थैव स्वामिन्! विज्ञप्यसे ततः । प्रतीक्षस्व क्षणं विश्वप्रतीक्ष्य! करुणानिधे! ॥१४९॥ विश्व विश्वम्भराभारं निधाय तनये निजे । यावदायामि दीक्षायै त्वत्पादकमलान्तिके ॥ १४२ ॥ युग्मम् ॥ नैव प्रमादिना भाव्यमित्युक्तः स्वामिना नृपः । गत्वा सुतावेवमभाषिष्ट पृथक् पृथक् ।। १४३।। || हे वत्स! विजयाऽऽदत्स्व राज्यमेतत् क्रमागतम् || यौवराज्यं वैजयन्त! त्वमस्य परिपालय ॥१४४॥ अहं तु प्रव्रजिष्यामि व्रजिष्यामि जिनान्तिके । आव्रजेयं न हि यथा भूयोऽपि भवगह्वरे ॥१४५॥ तावपीत्यूचतुस्तात! भवभीतो यथा भवान् । भवभीतौ तथैवाऽऽवां त्वदीयौ ननु नन्दनौ ॥१४६॥ अप्यावां प्रव्रजिष्यावः प्रव्रज्याया ह्युभे फले । इह त्वत्पादशुश्रूषा मोक्षप्राप्तिः परत्र च ॥ १४७॥ साधु वत्साविति वदन् वदान्यो मेदिनीपतिः । ददौ कस्मैचिदन्यस्मै राज्यं प्राज्यमपि स्वयम् ॥१४८॥ ताभ्यां सह तनूजाभ्यां गत्वाऽनन्तजिनान्तिके । प्राव्राजीदभयघोषः श्रीमत्सङ्घस्य पश्यतः || १४९ ॥ योऽपि तेपिरेऽत्युग्रं ते तपो भूपतिस्तु सः । विंशत्या स्थानकैरर्हन्नामगोत्रमुपाजयेत् ॥ १५० ॥ त्रयोऽपि काले ते कालं कृत्वा प्रययुरच्युते । देवा बभूवुर्द्वाविंशत्यर्णवोपमजीविताः ॥ १५१ ॥ ||इतश्च जम्बूद्वीपेऽस्मिन् प्रागिविदेहविभूषणे । विजये पुष्कलावत्यामस्ति पूँ: पुण्डरीकिणी ॥१५२॥ तस्यां हेमाङ्गदो नाम बभूव वसुधाधवः । शैचीव 'वैज्रिणो वज्रमालिनी तस्य च प्रिया ॥१५३॥ च्युत्वा ततोऽभयघोषस्तस्याः कुक्षाववातरत् । चतुर्दशमहास्वप्नसूचितार्हतवैभवः ॥ १५४॥ पूर्णे च समये सूनुं सुषुवे वज्रमालिनी । 'वैज्रिप्रभृतयो जन्माभिषेकं तस्य च व्यधुः ॥ १५५॥
१.वसन्तपुष्पधरा ।। २. वसन्तलक्ष्मीम् ॥ ३. कृत्रिमपुष्पाणि, यतस्तान्येव रत्नादिघटितत्वादिकारणै: कोटिमूल्यानि स्युरिति ज्ञायते । 'यूथिपुष्पाणि' वा स्यात् ॥ ४. ससम्भ्रमः खंता. पाता. वा. १ - २, मु. विना ॥ ५. विश्वपूज्य ! ।। ६. समग्रम् ।। ७. पृथ्वीभारम् ॥ ८. आगच्छेयम् ॥ ९. प्रव्रज्यायाम् मु. विना, पाता. ।। १०. द्वाविंशतिसागरोपमायुषः ।। ११. नगरी ।। १२. इन्द्राणीव ॥ १३. इन्द्रस्य ॥ १४. इन्द्रादयः ॥
Jain Education International
४३
For Private Personal Use Only
www.jainelibrary.org