________________
चतुर्थः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
ऋद्ध्या महत्या 'वीवाहे यथावद्विहितेऽथ तौ । विसृष्टौ गौरवाद् राज्ञा चेलतुः स्वां पुरीं प्रति ॥ ६१ ॥ "सुरेन्द्रदत्तं स्वे राज्ये युवराजसमन्वितम् । तथैव स्थापयित्वा तौ जग्मतुर्नगरीं निजाम् ॥६२॥ सह प्रियाभिस्तौ भोगान् बुभुजाते महाभुजौ । इन्द्रोपेन्द्राविवैकत्र मिलितौ प्रीतियोगतः ||६३|| प्रियमित्रा नन्दिषेणं मेघसेनं मनोरमा । सुषुवाते मेघरथपत्न्यौ पुत्रद्वयं क्रमात् ॥ ६४॥ पत्नी दृढरथस्याऽपि प्रासूत सुमतिः सुतम् । रथसेनाभिधं चारुगुणरत्नैकरोहणम् ॥ ६५ ॥ राजा घनरथोऽन्येद्युरैन्तरन्तःपुरं सुखम् । कलत्रैः पुत्र-पौत्रैश्च यूथद्विप इवाऽऽवृतः ॥६६॥ विनोदैर्विविधैरस्थाद् यावत् तावत् सुसेनया । व्यज्ञप्येवं गणिकया चरणायुधहस्तया ||६७||युग्मम्|| देवाऽयं ताम्रचूडो मे चूडारत्नं स्वजातिषु । कस्याऽपि ताम्रचूडेन जीयते जातुचिन्न हि ॥६८॥ जीयते यदि कस्याऽपि कुक्कुटेनैष कुक्कुटः । दीनाराणां तदा लक्षं पणे तस्य ददाम्यहम् ॥६९॥ अपरस्याऽपि कस्याऽपि यद्यस्ति चरणायुधः । मत्प्रतिज्ञापणममुं स उत्क्षिपतु तत् प्रभो! ॥७०॥ देवी मनोरमाऽथोचे पणितेनाऽमुनैव मे । ताम्रचूडस्ताम्रचूडेनाऽमुना युध्यतामिह ॥ ७१ ॥ एवमस्त्विति राज्ञोक्ते राज्ञी सद्यो मनोरमा । आनाययच्चेटिकया वज्रतुण्डाख्यकुक्कुटम् ॥७२॥ द्वावप्युत्तारितौ भूमावङ्केपत्ती इवाऽथ तौ । विचित्रपादगतिकौ प्रनृत्यन्तौ प्रजहतुः ॥७३॥ उत्पेततुः पेततुश्च सम्रतुश्चाऽपसम्रतुः । ददतुः प्रतीषतुश्च तौ प्रहारान् परस्परम् ॥७४॥ प्रचण्डचञ्चु-चरणप्रहारोद्भूतशोणितैः । ताम्राऽपि ताम्राऽभूच्चूडा ताम्रचूडाग्र्ययोस्तयोः ॥७५॥ पक्षिरूपाविव 'नैरौ सायुधौ चरणायुधौ । नखान् परस्परस्याऽङ्गे तीक्ष्णांश्चिक्षिपतुर्मुहुः ॥७६॥ जयत्ययं महादेव्याः सुसेनाया जयत्ययम् । इति क्षणं जयभ्रान्तिरभून्नो कस्यचिज्जयः ॥७७॥ आयुध्यमानयोरित्थं तयोर्धनरथोऽवदत् । द्वयोरप्यनयोर्मध्यान्नैकोऽप्येकेर्ने जेष्यते ॥७८॥ ऊचे मेघरथोऽप्येवमनयोर्युध्यमानयोः । किमित्येकस्य न जयो नैकस्य च पराजयः ? ॥७९॥ ततो ज्ञानत्रयधरो राजा घनरथोऽब्रवीत् । श्रूयतामनयोः पूर्वभववृत्तमशेषतः ॥८०॥ अस्मिन्नेव जम्बूद्वीपे क्षेत्रें ऐरावताभिधे । अस्ति रत्नपुरं नाम नानारत्नोत्करं पुरम् ॥ ८१ ॥ अभूतां वणिजौ तत्र द्वौ मिथो मैत्र्यशालिनौ । एको धनवसुर्नाम दत्तो नामाऽपरः पुनः ॥८२॥ अनिवृत्तधनाशौ तौ तृषितौ चातकाविव । भाण्डैर्नानाविधैर्भृत्वा शकटी शकटादिकम् ॥८३॥ ग्रामा-ऽऽकर-पुर-द्रोर्णैमुखादिषु सदा युतौ । भ्रमतुर्व्यवहाराय दारिद्यपितराविव ॥ ४॥ [ युग्मम्]॥ तृषितान् क्षुधितान् श्रान्तान् मैन्दान् व्यङ्गान् कृशानपि । शीतार्लेष्णालु-तृष्णालूनतिभाराधिरोपणैः ॥८५॥ प्रेतोदैर्यष्टिघातैश्च लाङ्गूलोन्मोटनैरपि । वाहयामासतुर्गेस्तौ परमाधार्मिकाविव ॥८६॥[युग्मम्] क्षुरैस्तैतक्षतुः पृष्ठायु॑च्छूनानि च तौ गवाम् । प्राग्वेधे त्रुटिते नासात्वचं विविधतुः पुनः || ८७|| कालेऽप्यमुञ्चतां नोक्ष्णो मैङ्क्ष्वीप्सितयियासया । बुभुजाते च गच्छन्तौ विलम्बस्याऽसहौ स्वयम् ॥८८॥ कूटतुला- कूटमान-कूटनाणककर्मभिः । कूटार्घकथनैश्चाऽपि तावमोहयतां जनम् ॥ ८९ ॥ अवञ्चयेतां तौ विश्वं गोमयू इव मायिनौ । एकद्रव्याभिलाषाच्च युध्येते स्म परस्परम् ॥९०॥ मिथ्यात्वमोहितमती निर्दयौ परुषौ सदा । लोभाघ्रातौ न धर्मस्य तौ वार्त्तामपि चक्रतुः ॥ ९१ ॥
४१
१. ० विवाहे मु. ॥ २. इन्द्र- कृष्णाविव ॥ ३. चारुगुणा एव रत्नानि तेषामेकरोहणाचलम् ॥ ४. अन्तः पुरस्य मध्ये ॥ ५. कुक्कुटः हस्ते यस्याः सा तया ॥ ६. कुक्कुटः ॥ ७. लक्षमेकम् ता ॥ ८. कुक्कुटः ॥ ९ अङ्कश्चित्रयुद्धं तस्मिन् पत्तिसमौ ॥। १०. ०प्रभीषतु० खंता. वा. १ २, जगृहतुः ॥ ११. नाम्नाऽपि खंता. ॥ १२. श्रेष्ठकुर्कुटयोः ॥ १३. नखायुधौ तौ सं. ता. दे. पा. खंता. पाता. वा. १-२ ॥ १४. अन्येन ॥ १५. जेष्यति खंता. ।। १६. क्षेत्र ऐरवताभिधे सं. ॥। १७. धनुवसुर्नाम ला. पा. ॥ १८. अनिर्वृत्तधनाशौ ला । न निवृत्ता धनाशा ययोस्तौ ॥ १९. जल-स्थलपथौ । २०. अयं श्लोकः वा. १ - २ प्रत्योर्न विद्यते ॥२१. रोगिणः ।। २२. विकलाङ्गान् ॥ २३. शीतोष्णतृष्णार्त्तान् ॥ २४.०लूष्णालुतृप्रालूनतिभारा० सं. ता. ला. छा. खंता.; ०तृप्तालू० पाता. वा.१-२ ॥ २५. ‘चाबूक’ ॥ २६. वृषभान् ॥ २७. तनूचक्रतुः ।। २८. सशोफानि ॥ २९. पहेलांनो वींध ॥ ३०. चिच्छिदतुः ॥ ३१. वृषभान् ॥ ३२. मङ्क्षु-शीघ्रं ईप्सिते-अभीष्टे (स्थाने) यियासया - गन्तुमिच्छया ।। ३३. कूटार्थ० वा. १-२ मु. ॥ ३४. शृगाली ।। ३५. पुरुषौ दे. छा; निष्ठुरौ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org