________________
४० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व पाराज्ञा सुरेन्द्रदत्तेन दत्तशिक्षोऽभ्युपेत्य तम् । ऊचे मेघरथं दूत: 'सावष्टम्भमिदं वचः ॥३०॥ सुरेन्द्रदत्तो न: स्वामी सुरेन्द्र इव विक्रमी। अस्मद्देशस्य मध्येन मा गास्त्वमिति वक्ति सः॥३१॥ अस्मत्सीमानमुत्सृज्य गच्छ त्वमन्येन वर्त्मना । समृगेन्द्रे गतिर्मार्गे मृगस्य कुशलाय न ॥३२।। स्मित्वा मेघरथोऽप्येवमैवादीद् वदतां वरः। अस्माकमयमेवाऽध्वा ऋजः सत्यज्यतां कथम्? ॥३३॥ पूरयन्त्यवेटान् वृक्षानुत्खनन्ति खनन्ति च । स्थलीस्तुङ्गा न चाऽध्वानं त्यजन्ति सरितोऽपि हि॥३४॥ एते वयमनेनैव यास्यामो वर्त्मनर्जुना। अनृजुः स तु ते स्वामी स्वशक्तिं दर्शयत्वहो! ॥३५॥ इति मेघरथेनोक्तमशेषमपि तत्क्षणात् । गत्वा सुरेन्द्रदत्ताय राज्ञे दूतो न्यवेदयत् ।।३६॥
श्रुत्वा सुरेन्द्रदत्तस्तच्छूतहक्क इव द्विपः। आध्मातताम्रताम्रास्यो रणभम्भामवीवदत् ।।३७।। निष/दिनां सादिनां च पत्तीनां रथिनामपि । तस्याऽऽपेतुः सेमीका न्यथाऽनीकान्यनेकश: ॥३८॥ भटोद्भटकरास्फोटैर्धनुष्टङ्कारडम्बरैः। अश्व-स्यन्दन-मातङ्ग-हेषा-चीत्कार-बृंहितैः ॥३९॥ उष्टाङ्काररावैश्च वेसराणां खुरस्वनैः । नादैश्च रणतूर्याणां जगदधिरयन् क्षणात् ॥४०॥ सुरेन्द्रदत्तनृपतिः सद्य: सर्वाभिसारतः । उपतस्थे मेघरथं रणातिथ्यविधित्सया॥४१||त्रिभिर्विशेषकम्।। जैत्रं रथं मेघरथोऽप्यथो दृढरथश्च सः । आरुरोह युधे ध्वान्तध्वंसायेव दिवाकरः ॥४२॥ शङ्कन् शल्यानि चक्राणि प्रासान् दण्डान् गदा अपि । तीरी-तद्बल-नाराचप्रभृतीन् विशिखानपि ॥४३॥ पाषाण-लोहगोलांश्च करैर्यन्त्रैश्च सैनिकाः । अस्त्रमेघा इवोन्नम्य सैन्ययोर्ववृषुर्द्वयोः ॥४४॥ नीरन्ध्र: शस्त्रसम्पात: सैन्ययोरुभयोरपि । तदाऽभूत् खेचरस्त्रीणां युद्धदर्शनविघ्नकृत् ॥४५।। अस्त्रैरस्त्राण्यखण्ड्यन्ताऽभज्यन्त च रथै रथाः । समरे तत्र यादांसि यादोभिरिव वारिधौ ॥४६॥ अस्खल्यमानप्रेसरैः क्षणादपि 'परैरथ । प्रभञ्जनैर्वनमिवाऽभञ्जि सैन्यं कुमारयोः॥४७॥ क्रुद्धावथ कुमारौ तावद्वैतभुजविक्रमौ। परसैन्यं जगाहाते महासर इव द्विपौ॥४८॥ उद्भ्रान्तयोरिवाऽम्भोध्योस्तयोरस्त्रोर्मिमालिनो: । स्खलनाय न केऽप्यग्रे तस्थुः प्रत्यर्थिसैनिकाः ॥४९।। मथ्यमाने बले ताभ्यां किरिभ्यामिक्षुवाटवत् । सुरेन्द्रदत्तोऽधाविष्ट युवराजान्वितो युधे ॥५०॥ सुरेन्द्रदत्त: श्रीमेघरथेन युयुधे समम् । युवराजो युवा तस्य समं दृढरथेन तु ॥५१॥ अन्योऽन्यं चिच्छिदुः शस्त्राण्यस्त्राणि च बबाधिरे । रेणाजिरे रेजिरे ते चत्वारो लोकपालवत् ॥५२॥ ते कुर्वाणा: करास्फोटं तर्जयन्त: परस्परम् । दोर्युद्धेनाऽभ्ययुध्यन्त बन्धज्ञा इव पन्नगाः ॥५३।। ते चत्वारः क्षणं रेजुयुद्धे तस्मिन् महौजसः । तिर्यगुत्क्षिप्तदो:शृङ्गा गजदन्ता इवाऽद्रयः ॥५४॥ मेघरथ-दृढरथकुमाराभ्यामथ क्षणात् । खेदयित्वा बबन्धाते वन्येभाविव तावुभौ ॥५५॥ देशे तस्मिन्निजामाज्ञां भ्रमयित्वा स्वदेशवत् । कुमारावीयतुः प्रीतौ सुमन्दिरपुरं ततः॥५६॥ पाअभ्याजगाम निहतशत्रू राजकुमारयोः । अन्यत्राऽप्यतिथावभ्युत्थेयं तादृक्षुः किं पुन: ? ॥५७।। तावालिलिङ्ग नृपतिश्चचुम्ब च शिरस्तले। सुखाद्वैतमनुभवन्नहमिन्द्र इवाऽमरः ॥५८॥ सुलग्ने मेघरथेन प्रियमित्रा-मनोरमे । ज्यायस्यौ कन्यके राजा विधिना पर्यणाययत् ॥५९॥ कन्यां सुमतिनामानं तृतीयां तु कनीयसीम् । उपयेमे दृढरथो राज्ञा धौतपदाम्बुजः ॥६०॥ १. सगर्वम् ।। २. सिंहसहिते मार्गे ॥ ३. प्येवमवदद् पा. दे. छा.मु., खंता. पाता. वा.१-२॥४. संत्यज्यताम् दे. छा. ॥५. गर्तान् ।। ६. वर्त्मना ऋजुनासरलमार्गेण ।। ७. कुटिलः ॥ ८. गजाह्वानशब्दः ॥९. तप्तताम्रवद् रक्तमुखः ।। १०. हस्त्यारोहिणाम् ॥११. अश्वारोहिणाम् ॥ १२. युद्धार्थीनि ।। १३. अश्वानां हेषारवः, स्यन्दनानां(रथानां) चीत्कारः, गजानां बृंहितम् ।।१४. ग्राङ्कारः उष्ट्राणां शब्दः ।।१५. अश्वतराणां खच्चर' इति भाषायाम् ॥१६. खरस्वनैः मु.।। १७. युधि सं. छा. ला. पाता. । युद्धाय॥१८. सर्वाणि शस्त्रविशेषाणि, शङ्क:-बाणविशेषः, शल्यं-बाणप्रकारः, प्रास:-कुन्त: (भालो), तीरी-बाणप्रकार:, तलं-मूषकपुच्छाकारो बाणविशेषः, नाराच:-बाणः ॥१९. सैन्यका: दे. मु.॥२०. अवं मेघा छा. ॥२१. जलजन्तवः ।। २२. वेगैः ।। २३. शत्रुभिः॥ २४. पवनैः ॥२५. क्षुब्धयोरिव ॥२६. शत्रुसैनिकाः। ०र्थिसैन्यका: दे. मु.॥ २७. करिभ्या० मु.॥२८.० युधि पाता. वा.१-२॥२९. रणाङ्गणे ॥३०. तिर्यक् उत्क्षिप्ता दोषो-बाहव एव शृङ्गाणि यैस्तैः ॥ ३१. निहतशत्रुराज० ता. छा. ला.,निहतशत्रुराजा पा. दे. ॥ ३२. राजधौतपदाम्बुजः दे. मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org