________________
॥चतुर्थः सर्गः॥
अथाऽस्य जम्बूद्वीपस्य प्राग्विदेहेषु विस्तृते। विजये पुष्कलावत्यां सीतायाः सरितोऽन्तिके ॥१॥ मध्यखण्डस्य मध्येऽस्ति नगरी पुण्डरीकिणी। श्रियो निधानमद्वैतं सरोऽन्तःपुण्डरीकवत् ॥२॥युग्मम्॥ तस्यां घनरथो राजा खण्डितारिमनोरथः । अभून महारथप्रष्ठो भूमिष्ठ इव वासवः ॥३॥ तस्याऽभूतामुभे पत्न्यौ गङ्गा-सिन्धू इवाऽम्बुधेः । एका प्रियमतिर्नाम द्वितीया तु मनोरमा ॥४॥
वज्रायुधस्य जीवोऽपि च्युत्वा ग्रैवेयकादथ । प्रियमत्या महादेव्या उदरे समवातरत् ॥५॥ तदा च रजनीशेषे स्वप्नान्तर्ददृशे तया। वर्षन् गर्जस्तडिन्माली मेघोऽन्तर्वदनं विशन् ॥६॥ तया तं प्रातराख्यातं स्वप्नं व्याख्यन् महीपतिः । पृथ्वीसन्तापहृन् मेघ इव भावी तवाऽऽत्मजः ॥७॥
सहस्रायुधजीवोऽपि च्युत्वा ग्रैवेयकात् ततः । मनोरमामहादेव्याः कुक्षौ समवतीर्णवान् ॥८॥ तयाऽपि ददृशे स्वप्ने स्वमुखान्तर्विशन् रथः। सौवर्णकिङ्किणीमाली पताकी लौहनेमिकः ।।९।। तयाऽपि स्वप्नमाख्यातं व्याचख्याविति भूपतिः । सूनुर्महारथप्रष्ठस्तव देवि! भविष्यति ॥१०॥ समये सुषुवाते ते क्रमेण तनयावुभौ । मूर्त्यन्तरमिव प्राप्तौ दिवाकर-निशाकरौ॥११॥
अथ प्रियमतिसूनो: शुभेऽहनि महीपतिः। स्वप्नानुसारतो मेघरथ इत्यभिधां व्यधात् ।।१२।। राज्ञीस्वप्नानुसारेण द्वितीयस्याऽपि भूपति: । सूनोईढरथ इति नामधेयमकल्पयत् ।।१३।। मेघरथ-दृढरथौ दृढसौभ्रात्रशालिनौ । क्रमेण ववृधाते तो सीरि-शार्ङ्गधराविव ॥१४॥ राज्यस्थानमनङ्गस्य कामिनीजनकार्मणम् । तौ रूपोत्कर्षजनकं यौवनं प्रापतुः क्षणात् ।।१५।। पराज्ञोऽथ निहतशत्रोः सुमन्दिरपुरेशितुः । एत्याऽमात्यो घनरथं प्रणम्यैवं व्यजिज्ञपत् ।।१६।। तैस्तैर्गुणैरुद्यता व: कीर्ति: कुन्दोज्ज्वला प्रभो! । प्रभेव हरिणाङ्कस्य प्रमोदयति कं नहि? ॥१७।। दूरस्थितोऽपि निहतशत्रुर्युष्मासु 'सौहृदी। सम्बन्धात् सन्निधीभूय विशेषस्नेहमिच्छति॥१८॥ तिष्ठन्ति कन्या निहतशत्रोस्तस्य महीपतेः । पृथग् जगत्त्रयस्त्रीणां स्वामितायामिव स्थिताः ॥१९॥ तत्र मेघरथस्य द्वे एका दृढरथस्य च । दित्सते निहतशत्रुर्भूयास्तं सुहृदौ युवाम् ॥२०॥ राजा घनरथोऽप्यूचे घेनध्वनितधीरवाक् । घनीभवतु नौ स्नेहः सम्बन्धेनाऽमुनाऽधुना ॥२१॥ प्रवाहैरिव सम्बन्धेराँपतद्भिः पुर: पुरः। सतां स्नेहा: प्रवर्धन्ते नद्यः सानुमतामिव ॥२२॥ सोऽप्यमात्यो जगादेवं देव! दैवज्ञपुङ्गवम् । आहूयाऽऽदिश लग्नं मे कल्यं कल्याणकर्मसु॥२३॥ प्रस्थापय कुमारौ तन्मौरतुल्यौ वपुःश्रिया । कन्योद्वाहमिषात् स्वामिन्नस्मत्स्वाम्यनुगृह्यताम् ॥२४॥ ज्ञानिना लग्नमासूत्र्याऽऽगमनं च कुमारयोः । प्रतिपद्य नरेन्द्रोऽथ सचिवं विससर्ज तम् ॥२५॥ से हृष्टः सचिव: शीघ्रं सुमन्दिरपुरं ययौ । नृपं निहतशत्रु च तदाख्यानादहर्षयत् ॥२६॥ प्रैषी घनरथो मेघरथं दृढरथान्वितम् । संवसन्तं स्मरमिव सुमन्दिरपुरं प्रति ॥२७॥ सामन्ता-ऽमात्य-सेनानी-सेनापरिवृतौ ततः । सरिदोघाविवाऽविघ्नं कुमारौ तौ प्रचेलतुः ॥२८।। गत्वा प्रयाणैरव्यग्रैर्मर्यादापालनार्णवौ। सुरेन्द्रदत्तनृपतेर्देशसीमन्यथोषतुः॥२९॥ १. श्रेयो० पाता. वा.१-२॥२. अन्त:-मध्ये पुण्डरीकाणि यस्य तत् , तस्येव ।। ३. खंता. पाता. वा.१-२ प्रतिषु न । ४. अग्रणी ।। ५. ०१शेऽनया ता. खंता. ॥६. विद्युतां माला सन्त्यस्य ॥७. ध्वजयुक्तः ।।८. लोह० मु. खंता. पाता. वा.१-२ । नेमिः-चक्रधारा ॥९. सुभ्रातुर्भाव: सौभ्रात्रम् ।। १०. बलदेववासुदेवाविव ॥११. तैस्तैर्गुणैरुच्यता व: दे.; तैस्तैर्गुणैरुपेता मु.॥ १२. कीर्तिलॊकम्पृणा सं. ता. ला. पा. खंता. पाता. वा.१-२॥१३. चन्द्रस्य ।। १४. सुहृदो भाव: सौहृदं, तदस्ति यस्य सः; सम्प्रति ता.खंता.॥१५.दातुमिच्छति ॥१६. मेघगर्जितगम्भीरवाक् ।। १७. आगच्छद्भिः ।। १८. पर्वतानाम् ।। १९. ज्यौतिषिकम् ॥ २०. शुभम् । कल्यकल्याण खंता.पाता. वा.१-२ ॥ २१. मङ्गलकार्येषु ।। २२. कामदेवसमानौ ॥ २३. सुहृष्टः दे. मु. ॥ २४. सवसन्तस्मर० खंता. वा.१ ॥ २५. रव्यग्रं० पाता. वा.१-२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org