________________
तृतीयः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
1
तस्य केवलमहिमामुपेत्य विदधुः सुराः । हिमचूलस्तु तद्दृष्ट्वा भीतस्तं शरणं ययौ ॥१९१॥ वज्रायुधोऽपि तस्यर्षेर्यथावन्महिमां व्यधात्। श्रुत्वा च देशनां तस्माज्जगाम स्वपुरीं पुनः॥१९२॥ • अन्यदा समवासार्षीत् तत्र क्षेमङ्करः प्रभुः । कोटिसङ्ख्यैः सेव्यमानः सुरा - ऽसुर-नरेश्वरैः ।।१९३।। वज्रायुधाय चाऽऽचख्युरुपेत्याऽऽयुक्तपूरुषाः । स्वामिनं समवसृतं क्षेमङ्करजिनेश्वरम् ॥१९४॥ स्वर्णस्य द्वादश सार्धा: कोटीस्तेभ्यः प्रदाय सः । क्षेमङ्करं तीर्थकरं जगाम सपरिच्छदः ॥ १९५॥ तं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । उपविश्याऽनुशक्रं च सोऽश्रौषीद् धर्मदेशनाम् ॥१९६॥ देशनान्ते प्रभुं नत्वा चक्री वज्रायुधोऽवदत् । स्वामिन् ! भीतोऽस्मि संसारार्णवादस्माद् दुरुत्तरात् ॥ १९७॥ स्वे सहस्रायुधं राज्ये यावन्न्यस्याऽऽपैताम्यहम् । तावदागमयस्वेह दीक्षां दातुं मम प्रभो! ॥। १९८।। न प्रमादो विधातव्य इत्युक्तः स्वामिना नृपः । गत्वा पुरीं निजे राज्ये सहस्रायुधमादधौ ॥ १९९॥ स सहस्रायुधे नाऽथ कृतनिष्क्रमणोत्सवः । आरुह्य शिबिकां गत्वा क्षेमङ्करजिनान्तिके ॥ २००॥ चतुः सहस्रया राज्ञीनां भूभुजां च किरीटिनाम्। सुतानां सप्तशत्या च सहितो व्रतमाददे ॥ २०९ ॥ युग्मम् ॥ विविधाभिग्रहपर: सहमान: परीषहान् । वज्रायुधर्षिर्विहरन्नगमत् सिद्धिपर्वतम् ॥ २०२॥ उपसर्गान् सहिष्येऽहमिति बुद्धया स शुद्धधीः । स्तम्भे वैरोचने तत्र प्रतिमां वार्षिकीं दधौ ॥ २०३ ॥ इतश्चाऽश्वग्रीवसुतौ चिरं भ्रान्त्वा भवाटवीम् । मणिकुम्भो मणिकेतुः कृत्वा बालतपोऽन्यदा ॥ २०४ ॥ उत्पन्नावसुरत्वेन प्रारब्धस्वैरचर्यया । तदा तत्र समायातौ तं महर्षिमपश्यताम् ।।२०५।। ततस्तावमिततेजोभववैरेण तं मुनिम् । प्रारेभाते उपद्रोतुं महाद्रु महिषाविव ॥ २०६॥ सिंहीभूयोभयोस्तस्य पार्श्वयोस्तावुभावपि । नखरैश्चख्नतुर्देहं खरैर्वज्राङ्कुरैरिव ॥२०७॥ अथ तं कुञ्जरीभूयाऽन्तर्वेदिमिव जघ्नतुः । करघातैर्दन्तघातैः पादघातैश्च दुःसहैः ॥२०८॥ भूयश्च भुजगीभूय तस्यर्षेः पार्श्वयोर्द्वयोः । दृढबन्धं ललम्बाते योक्त्रपाशाविवाऽनसः ॥ २०९॥ धान कर्तिका तीक्ष्णां निजदंष्ट्रासहोदराम्। उपदुद्रुवतुरथ राक्षसीभूय तं मुनिम् ॥ २१०॥ इत्थं च नाना तौ यावत् तमुपाद्रवतां मुनिम् । तावद् वन्दितुमर्हन्तं 'चेलुः पत्न्यौ बिडौजैस: ॥ २११ ॥ रम्भा-तिलोत्तमाद्यास्तास्ततस्त्रिदशयोषितः । मुनौ तत्रोपसर्गांस्तौ कुर्वाणौ ददृशुः सुरौ ॥२१२॥ आः! पापौ! किमिहाऽऽरब्धं युवाभ्यां मुनिपुङ्गवे ? । इति ब्रुवाणा वेगात् ता अवतेरुर्नभस्तलात् ॥ २१३॥ तत्र चाऽवतरन्तीस्ताः प्रेक्ष्य तौ क्षुभितौ सुरौ । त्रेसतुः सूर्यभालोके कियत् तिष्ठन्ति कौशिर्के : ? ॥ २१४ ॥ इन्द्रस्येव मुनीन्द्रस्य पुरस्तात् तस्य भक्तितः । नाट्यं प्रपञ्चयामासू रम्भाद्याः सुरयोषितः ॥ २१५ ॥ ततः पैवित्रमानिन्यस्तं वन्दित्वा महामुनिम् । देव्यस्ताः सपरीवाराः स्वं स्वं स्थानं पुनर्ययुः ॥ २१६ ॥ प्रतिमां पारयित्वा तां महर्षिः सोऽपि वार्षिकीम्। अतुल्ययम-नियमो विजहार वसुन्धराम् ॥ २१७॥ सहस्रायुधराजोऽपि राजश्रेणिविराजितः । राजपुत्रीमिवोर्दूढां राज्यश्रियमभुक्त सः ।।२१८।। एकदा समवासार्षीन्नानामुनिगणावृतः । तस्य पुर्यां गणधरो नामतः पिहितास्रवः ॥ २१९॥ तं सहस्रायुधोऽभ्येत्य ववन्दे भक्तिभावितः । अश्रौषीत् कर्णपीयूषवृष्टिं तस्य च देशनाम् ॥ २२०॥ इन्द्रजालमिवाऽसारं संसारं तत्क्षणाद्विदन् । सद्यः स राजा स्वे राज्ये पुत्रं शतबलिं न्यधात् ॥ २२९॥ पिहिताम्रवपादान्ते प्रव्रज्यां स्वयमाददे । आदाय द्विविधां शिक्षां विजहार वसुन्धराम् ॥ २२२॥ विहरन्नपरेद्युश्च स सहस्रायुधो मुनिः । वज्रायुधस्य राजर्षेः 'सोमस्येव बुधोऽमिलत्॥२२३॥
I
१. ०महिम खंता. पाता. ।। २. आगच्छामि ॥ ३. प्रतीक्षस्व ॥ ४. मुकुटबद्धानाम् ॥ ५. विरोचने पा. ला. मु. । वैरोचननामके शिखरे ।। ६. प्रारब्धा या स्वैरचर्या स्वेच्छागमनं तया ।। ७. योक्त्रम् ' जोतर' इति भाषायाम् ॥ ८. शकटस्य ॥ ९. तन्वानौ ला. ॥ १०. कर्त्रिकाम् मु. ॥। ११. विविधप्रकारेण ॥ १२. चेयुः खंता. ॥ १३. इन्द्रस्य ।। १४. घूकाः ॥ १५. आत्मानं पवित्रं मन्यन्ते ताः ॥ १६. परिणीताम् ॥ १७. राजश्रियः खंता. पाता. वा. १-२ ॥ १८. व्यधात् दे. मु. विना ॥। १९. चन्द्रस्येव ॥
Jain Education International
३७
For Private Personal Use Only
www.jainelibrary.org