________________
३६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
पिता च जयनादेवीदृष्टस्वप्नानुसारतः । तस्य बालस्य कनकशक्तिरित्यभिधां व्यधात् ॥ १५९ ॥ स क्रमात् समतिक्रान्तशैशवो नवयौवनः । सुमन्दिरपुरेशस्य तनयां मेरुमालिनः ॥ १६०॥ मल्लादेवीकुक्षिभवां रूपलावण्यशालिनीम् । नामतः कनकमालामुपयेमे यथाविधि ॥ १६१ ॥ युग्मम्॥ ||इतश्च मशक्यसारे श्रीसारे प्रवरे पुरे । समभूदजितसेन इति नाम्ना महीपतिः॥१६२॥ तस्य चाऽसीत् प्रियसेना देवीकुक्षिभवा सुता । वसन्तसेना कनकमालायाः सा सखी वरा ॥ १६३ ॥ पिता वसन्तसेनाया अपश्यन्नुचितं वरम् । प्रैषीत् स्वयंवरां तां तु पुत्रीं कनकशक्तये ।। १६४॥ ततः कनकशक्तिस्तामुपायंस्त यथाविधि । तस्याश्च पैतृष्वस्रीयो रुरोषोद्वाहतस्ततः ॥ १६५॥ उद्याने कनकशक्तिर्विहरन्नेकदैककम् । उत्पतन्तं पतन्तं चाऽपश्यत् कुर्कुटवन्नरम् ॥ १६६॥ ऊचे कनकशक्तिस्तं किं त्वमुत्पात-पातकृत् ? । पतङ्ग इव भोः! शंस रहस्यं भवतो न चेत् ।। १६७।। सोऽप्युवाच पुमानेवं त्वादृशानां महात्मनाम्। रहस्यमप्याख्यातव्यं तदाख्यातं गुणाय हि ॥ १६८ ॥ विद्याधरोऽस्मि वैताढ्यशैलादर्थेन केनचित् । अग्रतोऽगां वैलितः सन्निहोद्याने समापतम् ॥१६९ ॥ क्षणमस्थामहमिह पश्यन्नुद्यानरम्यताम् । अस्मार्षं यावदुत्पित्सुर्विद्यामाकाशगामिनीम् ॥ १७० ॥ विद्याया: पदमेकं मे विस्मृतं तावदेव मे । आबद्धपक्ष: पक्षीवोत्पतामि निपतामि च ॥ १७१ ॥ युग्मम्।। व्याजहार कुमारोऽपि पुरस्तादपरस्य चेत् । युज्यते पठितुं विद्या महापुरुष ! तत् पठ ॥ १७२॥ सोऽप्यूचे सामान्यपुंसां पुरो विद्या न पठ्यते। महात्मनां त्वादृशां सा देया पाठे तु का कथा ? ॥ १७३ ॥ सोऽथ विद्याधरो विद्यां पदहीनां पपाठ ताम् । पैदानुसारिधीराख्यत् कुमारोऽपि हि तत्पदम् ॥१७४॥ विद्याधरः पुनर्भूतविद्याशक्तिस्ततश्च सः । कुमाराय ददौ विद्याः कृतज्ञा हि विवेकिनः ॥ १७५ ॥ ययौ विद्याधरः सोऽथ कुमारोऽपि यथाविधि । विद्यास्ताः साधयित्वा च महाविद्याधरोऽभवत् ॥१७६॥ ||पैतृष्वसेयो र्वैसन्तसेनायाः स च रोषभाक् । अक्षमः कनकशक्ते रपकर्तुं मनागपि ॥१७७॥ लज्जया भक्तपानादि परिहृत्य विपद्य च। हिमचूल इति नाम्ना त्रिदशः समजायत ॥१७८॥ युग्मम्॥ वसन्तसेना - कनकमालाभ्यां सहितो महीम् । बभ्राम कनकशक्तिर्विद्याशक्त्या समीरवत् ॥ १७९ ॥ स जगामैकदा स्वैरी हिमवन्तं महागिरिम् । तत्राऽपश्यच्च विपुलमत्याख्यं चारणं मुनिम् ॥ १८० ॥ उत्तप्तस्वर्णवर्णं तं तपस्तेज इवाऽङ्गैवत् । कृशाङ्गं विजितनङ्गमवन्दिष्ट स भक्तितः ॥ १८९॥ धर्मलाभं ततः प्राप्य देवीभ्यां सममेव सः । अश्रौषीद् भवदावाग्निप्रावृषं धर्मदेशनाम् ॥ १८२॥ ततः प्रबुद्धः कनकशक्तिर्देव्यावुभे अपि । राज्यश्रीवद् गृहे मुक्त्वा प्रवव्राज महामतिः ॥१८३॥ देव्यौ ते अपि संविग्ने विवेकिन्यौ शुभाशये । आर्याया विमलमतेः पार्श्वे जगृहतुर्व्रतम् ॥ १८४ ॥ | विहरन् कनकशक्तिर्गत्वा सिद्धिपदे गिरौ । शिलायामेकरात्रिक्या तस्थौ प्रतिमया स्थिरः ॥ १८५ ॥ तथा च तं स्तम्भमिव स्थिरं दृष्ट्वा दुराशयः । हिमचूलसुरः कर्तुमुपसर्गान् प्रचक्रमे ॥ १८६॥ तस्योपसर्गान् कुर्वाणं तं च गीर्वाणपांसनम् । क्रुधा न्यत्रासयन् विद्याधराः पक्षे सतां जनः ॥ १८७॥ प्रतिमां पारयित्वा तां विहरन्नगमत् ततः । स तपः सञ्चयगिरिर्नगरीं रत्नसञ्चयाम् ॥१८८॥ अथ सूरनिपाताख्ये तत्रैवोपवने मुनिः । चक्रे गिरिरिवाऽकम्प्रः प्रतिमामेकरात्रिकीम् ॥ १८९॥ तस्य च क्षपकश्रेणिमारूढस्य क्षणादपि । घातिकर्मक्षयाज्जज्ञे केवलज्ञानमुज्ज्वलम् ॥१९०॥
१. सुमन्दिरपुरे तस्य मु. ॥ २. मशकासारे मु.; मशक्यसार इति विशेषनाम (नगरस्य ) स्यात् । यद्वा मशकिन् - उदुम्बरवृक्षः तद्वदसारे - मशक्यसारे ॥। ३. प्रौषीत् मु. ॥ ४. पितुः स्वसा ('फोई' इति भाषायाम् ) तस्या अपत्यम् ॥ ५. कुक्कुटवन्नरम् ता. दे. पा. खंता. वा. १-२ ॥ ६. पक्षी ॥ ७. अग्रतोऽगा मु. ॥ ८. चलितः ला. ।। ९. समापदम् मु. ॥ १०. उत्पतितुमिच्छुः ॥ ११. ईषद्बद्धौ पक्षौ यस्य सः ॥ १२. पदस्याऽनुसारिणी बुद्धिर्यस्य सः ॥ १३. पैतृष्वस्रेयो दे. मु. ला. छा. पा. ॥। १४. वसन्तसेनायां मु. ॥ १५. मूर्तिमत् ।। १६. विजितः अनङ्गः कामो येन ॥ १७. अधमदेवम् ॥ १८. तपसां सञ्चयस्य समूहस्य गिरिरिव गिरि: स मुनिरित्यर्थः ॥
Jain Education International
(पञ्चमं पर्व
For Private Personal Use Only
www.jainelibrary.org