________________
तृतीयः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । गिरीन्द्रशिखराकारानञ्जन द्युतितस्करान्। गर्जितर्जितदिक्चक्रानुभ्रान्तानिव दिग्गजान्॥१२६॥ विद्युदुद्योतितव्योम्न ऋजुरोहितधारिणः । अकस्मादुन्नतान् मेघान् ददर्श मुमुदे चसः॥१२७॥युग्मम्।। तांश्च प्रचण्डवातेन पोतानिव दिशोदिशम्। अद्राक्षीन्नीयमानांश्च कुहकोत्पादितानिव॥१२८॥ इत्युत्पत्तिं विपत्तिं चक्षणार्धेऽपि पयोमुचाम् । निरीक्ष्य नलिनकेतुर्वैराग्यादित्यचिन्तयत्॥१२९॥ यथाऽमी वारिदा व्योम्नि क्षणादुदयमासदन्।क्षणादस्तमपि तथा संसारे सर्वमीदृशम्॥१३०॥ युवा वृद्धो धनी रोरें: पति: पत्तिर्विरुक् सरुक्। एकजन्मन्यपि जनो धिक् सर्वं क्षणिकं भवे॥१३१॥ एवं विमृश्य पुत्रं स्वं राज्ये न्यस्य च तत्क्षणात्। प्रव्रज्यामाददे क्षेमकरतीर्थङ्करान्तिके॥१३२।। उग्रैस्तपोभिर्ध्यानेन घाततो घातिकर्मणाम्। केवलज्ञानमुत्पेदे तस्य कालक्रमेण तु॥१३३॥ भवोपग्राहिकर्माणि हत्वा चत्वार्यपि क्षणात्। जगाम नलिनकेतुर्महर्षिः पदमव्ययम् ॥१३४॥
ऋजु-भद्रस्वभावा चसाऽपि राज्ञी प्रभङ्करा।सुव्रतागणिनीपार्श्वेऽचरच्चान्द्रायणं तपः॥१३५।। फलेन तपसस्तस्य सम्यक्त्वादि विनाऽपि हि। विपद्य दुहिता जज्ञे सेयंशान्तिमती तव॥१३६।। दत्तजीवोऽजितसेनस्त्वेष विद्याधरोऽभवत्। पूर्वस्नेहादनेनेयमुत्क्षिप्ता तेन मा कुपः॥१३७॥ ऐनं क्षमयतं त्यक्त्वाऽर्नुबन्धं बन्धुवत् परम्। कषाया नरकायैव यतोऽनन्तानुबन्धिनः ॥१३८॥ एवं वज्रायुधगिरा मुक्तवैरास्त्रयोऽपि हि। अन्योन्यं क्षमयामासुः 'संवेगावेगभाजिनः॥१३९।। चक्रभृत् पुनराचख्यौ क्षेमकरजिनान्तिके। त्रयोऽपि यूयमचिरात् परिव्रज्यां ग्रहीष्यथ॥१४०॥ करिष्यति तपोरत्नावली शान्तिमती पुन: । मृत्वा चाऽनशनेनाऽसावीशानेन्द्रो भविष्यति॥१४१॥ तदैव केवलज्ञानं घातिकर्मपरिक्षयात्। युवयो: पवनवेगाऽजितसेनौ! भविष्यति॥१४२॥ युवयो: केवलज्ञानमहिमानं महोत्सवात्। एत्य स्वदेहपूजांच स ईशानः करिष्यति॥१४३॥ कालेन च ततश्च्युत्वेशानेन्द्रः प्राप्य मर्त्यताम् । उत्पन्नकेवलज्ञान: सिद्धिमासादयिष्यति॥१४४॥ त्रिकालज्ञानविषयं तच्छ्रुत्वा चक्रिणो वचः। व्यस्मयन्त स्मेरदृश: सर्वे तत्र सभासदः॥१४५॥ पराजा पवनवेगस्तत्सुता शान्तिमती चसा। विद्याधरोऽजितसेनस्तं प्रणम्यैवमूचिरे॥१४६॥ पिता स्वामी गुरुर्देवस्त्वमस्माकं जगत्पते! । मिथोऽपायप्रसक्तानां को नस्त्राताऽपरोभवेत्॥१४७॥ आहत्याऽन्योन्यमद्यैवाऽयास्याम नरके वयम् । अस्माकं नाऽभविष्यच्चेत्तद्द्वारे त्वद्वचोऽर्गला॥१४८॥ तत् स्वामिन्ननुमन्यस्वाऽद्यैव संसारभीरवः । शरणाय व्रजिष्याम: क्षेमकरजिनेश्वरम्॥१४९॥ इति विज्ञपयन्तस्तेऽनुज्ञाताश्चक्रवर्तिना। उपेत्य प्राव्रजन् क्षेमकरतीर्थङ्करान्तिके॥१५०॥ ते तपस्तेपिरेऽत्युग्रमनुग्रमनसश्चिरम्। कृशीभवद्भिः शरीरैः परिहारभयादिव॥१५१॥ तत्र शान्तिमती मृत्वेशानकल्पाधिपोऽभवत् । तदैव केवलज्ञानमभूददितरयो: पुनः॥१५२॥ तयोश्च केवलज्ञानमहिमानमुपेत्य सः। ईशानेन्द्रोऽकरोत् तस्य निजदेहस्य चाऽर्चनम् ॥१५३॥ ततश्च्युत्वा स ईशानो जन्मन्यन्यत्र सिद्धवान् । आयु:क्षयेऽपरौ तौ च तद्भवेऽपीयतुः शिवम्॥१५४॥ पास तु वज्रायुधश्चक्री ससहस्रायुधो भुवम्। सहस्राक्ष: सजयन्त इव द्यां पर्यपालयत्॥१५५।। सहस्रायुधपत्नी तुजयनेत्यन्यदा निशि। स्वप्ने ददर्श केनकशक्तिं किरणदन्तुराम्॥१५६॥ तया च प्रातराख्याते पतिर्व्याख्यातवानिति। तव पत्रो महाशक्तिर्ननं देवि! भविष्यति॥१५७॥ तदैव देवी सा गर्भमुदुवाह सुदुर्वहम् । कालेऽजनिष्ट तनयरत्नं सस्यमिवोर्वरा॥१५८॥ १.द्युतिभास्करान् पा. ॥२. व्योम्नि पाता. वा.१-२॥३. इन्द्रधनुः ।। ४. नाव इव ॥५. माययोत्पादितानिव ।। ६. नाशम् ।। ७. मेघानाम् ।। ८. सुखमीदृशम् दे. मु.॥९. निर्धनः ।।१०. नाशात् ।।११. क्रमात् सं. दे. ला. छा. ॥१२. एतं खंता. पाता. वा.१-२॥१३. आग्रहम् ।।१४. वैराग्यावेशवन्तः ।। १५. स्वमृतदेहसंस्कारम् ।। १६. प्रफुल्लदृष्टयः ॥ १७. धातकरणे आसक्तानाम् ॥ १८. नरकद्वारे ॥ १९. अनुग्रं कोमलं मनो येषां ते ॥ २०. नाशभयात् ॥ २१. जयन्ताभिधनिजपुत्रसहित इन्द्रः ।। २२. कनकवर्णां किरणैर्भासुरां शक्तिम् ॥ २३. पृथ्वी धान्यमिव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org