________________
कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं
1
शुक्लदन्तोऽभवत्तत्र विद्याधरनरेश्वरः । पत्नी यशोधरा 'तस्य कुलद्वययशोधरा ॥ ९३ || तयोरभूवं पवनवेगो नामाऽहमात्मजः । क्रमात् कलाकलापं च यौवनं च प्रपन्नवान् ॥९४॥ तत्रैव वैताढ्य गिरावुत्तरश्रेणिमण्डने । पुरे किन्नरपुरेऽभूद् दीप्तचूलो महीपतिः ॥९५॥
३४
T
तस्य पत्न्यां चन्द्रकीर्तौ सुकान्ता नाम पुत्र्यभूत् । सर्वलक्षणसम्पूर्णा सा मया पर्यणीयत ॥ ९६ ॥ अथाऽऽवयोः समभवद् रूपशीलविराजिनी । पुत्री शान्तिमती नाम पुरस्तादस्ति या तव ॥९७॥ इयं हि साधयन्त्यासीन्महाविद्यां यथाविधि । प्रज्ञप्तिकां भगवतीं पर्वते मणिसागरे ॥ ९८ ॥ विद्याधरेणाऽमुनेयं विद्यासाधनतत्परा । व्योमन्युच्चिक्षेपेऽथाऽस्या विद्याऽसिध्यत् तदैव च ॥९९॥ अस्याः पलायितः सद्यः शरणं क्वाऽप्यनाप्नुवन् । त्वत्पादमूलं प्राप्तोऽयं दुरात्मा खेचराधमः ॥१००॥ प्रज्ञप्तिविद्यापूजार्थं गृहीत्वा बलिमागमम्। न चाऽपश्यमहं तत्र गिरौ दुहितरं निजम् ॥ १०१ ॥ आभोगिन्या ततो ज्ञात्वा स्वामिन्नहमिहाऽऽगतः। दोषाणामाकरः सोऽयं त्यज्यतां दुष्टशासक! ॥१०२॥ नालिकेरीफलमिव यथैनं गदयाऽनया । दलयित्वा प्रापयामि प्रेतराजनिकेतनम् ॥१०३॥ अथ ज्ञात्वाऽवधिज्ञानाच्चक्री वज्रायुधोऽवदत् । भो! भोः ! प्राग्भवसम्बन्ध एतेषां श्रूयतामयम् ॥१०४॥ अस्यैव जम्बूद्वीपस्य क्षेत्र ऐरावताभिधे । पुरे विन्ध्यपुरे विन्ध्यदत्तो नामाऽभवन्नृपः ॥१०५॥ पत्न्यां सुलक्षणाख्यायां सम्पूर्णनरलक्षणः । बभूव तस्य नलिनके तु रित्याख्यया सुतः ॥ १०६ ॥ आसीत् तत्रैव नगरे सार्थवाहशिरोमणिः । मित्राब्जानां मित्र इव धर्ममित्रोऽभिधानतः ॥ १०७॥ श्रीदत्तायां तस्य पत्न्यां दत्तो नामाऽभवत् सुतः । दत्तस्याऽप्यभवत् पत्नी दिव्यरूपा प्रभङ्करा ॥ १०८ ॥ एकदा स वसन्तर्ती समं दयितया तया । जगाम रन्तुमुद्याने रत्येव मकरध्वजः ॥ १०९ ॥ राज्ञश्च सूनुर्ननिकेतुः सोऽपि तदाऽऽगतः । प्रभङ्करामपश्यत् तां जघ्ने च स्मरपत्रिभिः ॥११०॥ श्लाघ्यमस्या अहो! रूपं श्लाघ्यः सोऽपि च योऽनया । रमेतेति विचिन्त्याऽन्तस्तां सोऽहार्षीत् स्मरातुरः ॥ १११ ॥ क्रीडोद्यान-सरिद्वाप्यादिषु नित्यं तया सह । स्वच्छन्दं नलिनकेतुरक्रीडन् मीनकेतुवत्॥११२॥ ॥ उन्मत्त इव दत्तोऽपि तद्वियोगानलार्दितः । उद्याने तत्र बभ्राम ध्यायन् विष्वक् प्रभङ्कराम् ॥ ११३॥ तत्र पर्यटता तेन 'हैक्सुधाञ्जनदर्शनः । ईक्षाञ्चक्रे वरमुनिः सुमना इति नामतः ॥ ११४ ॥ मुनेः सुमनसस्तस्य घातिकर्मक्षयात्तदा । उत्पेदे केवलज्ञान मैज्ञानध्वान्तवासरः ॥११५॥
· चक्रिरे केवलज्ञानमहिमानं दिवौकसः । मुनेस्तस्य पदाम्भोजद्वन्द्वं दत्तोऽप्यवन्दत ॥ ११६॥ पीत्वा तस्मान्मुनेर्धर्मदेर्शेनारूपिणीं सुधाम् । दत्तः प्राक्तापवैधुर्यमुज्झति स्म क्षणादपि ॥११७॥ उपशान्तो दानधर्मरतोऽनारतमेव सः । अतिवाह्य शुभध्यानी प्रकृष्टं पुरुषायुषम् ॥ ११८ ॥ जम्बूद्वीपे प्राग्विदेहे सुकच्छे विजयोत्तमे । वैताढ्यपर्वते स्वर्णतिलके प्रवरे पुरे ॥ ११९॥ महेन्द्रविक्रमाख्यस्य विद्याधरमहीपतेः । पत्न्यामनिलवेगायां सुतत्वेनोदपद्यत ॥ १२० ॥ त्रिभिर्विशेषकम् || तस्याऽजितसेन इति नामधेयं पिता व्यधात् । ददौ विद्याश्च विधिवत् तेषां मूलधनं हि ताः ॥ १२१ ॥ उद्यौवन: पर्यणैषीत् स विद्याधरकन्यकाः । रेमे च ताभिर्विहरन् व्योम्ना गिरि-वनादिषु ॥ १२२ ॥ ||विन्ध्यदत्ते विपन्ने तु पुरे विन्ध्यपुरेऽभवत् । राजा नलिनकेतुः सः तार्क्ष्यकेतुरिवोद्भटः ॥ १२३॥ स प्रभक्ङ्करया सार्धं दैत्तपत्न्याऽर्पंनीतया । कान्दर्पिकः सुर इँवाऽभुङ्क्त वैषयिकं सुखम्॥१२४॥ प्रासादमन्यदाऽऽरोहत् स प्रभङ्करया समम् । वैमानिकः समं देव्या विमानमिव भासुरम् ॥ १२५ ॥
(पञ्चमं पर्व
१. चाऽस्य ता. पा. ला. ॥। २. विद्या सिद्धा तदैव च सं. पा. ता. ला. छा. ॥ ३. खेचरोऽधुना पा. ॥। ४. तन्नाम्न्या विद्यया ॥ ५. ० हमिहागमः ता. ।। ६. दुष्टशासक: मु. विना । दुष्टान् शास्तीति दुष्टशासकः, तस्य सम्बोधनम् ॥ ७. यमराजगृहम् ॥ ८. ऐरवताभिधे ता. खंता ।। ९. मित्राण्येव कमलानि तेषां विकाशे मित्रः सूर्य इव ॥ १०. कामबाणैः । ११. कामदेववत् ॥ १२. दृशो : नेत्रयोः सुधाञ्जनमिव दर्शनं यस्य सः ॥ १३. अज्ञानमेव ध्वान्तं तमस्तस्य नाशने दिवसतुल्यम् ॥ १४.० देशनां रूपिणीं मु.; रूपिणीं मूर्तिमतीं सुधामित्यत्राऽर्थः ॥ १५.० विक्रमार्कस्य मु. ॥ १६. विष्णुरिव ॥ १७. दत्तपत्न्योपनीतया ता ॥ १८. अपहृतया ॥ १९. व्यन्तरनिकायिकः ।। २०. इवाऽभुक्त सं. ला. पा. खंता. पाता. वा. १-२ ।। २१. सदेवीको सं. ता. ला. पा. ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org