________________
३३
तृतीयः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । लुलन्त्य: समलक्ष्यन्त कबर्यो वरयोषिताम्। मीना मीनध्वजेनेवध्वजार्थं प्रगुणीकृताः॥६०॥ जलकेलिपरिश्रान्ता विश्राम्यन्त्य: पयस्तटे। गौराङ्ग्य: समलक्ष्यन्त जलदेव्य इव स्थिताः ॥६१॥ सपत्नाम्भोजसङ्घर्षेणेव नेत्राणि सुभ्रुवाम्। वारिच्छटाच्छोटनेन ताम्रतां प्रतिपेदिरे॥६२॥ मृगीदृशामङ्गरागैर्मार्गाभैरभूत् पयः। सुगन्धिगन्धेभमदैरिव वन्यनदीजलम्॥६३॥ इत्थंच निर्भर वारिक्रीडया व्यग्रमानस:। वज्रायुधकुमारोऽस्थादस्थानमेसुहृद्रियाम्॥६४॥ पाप्राग्जन्मारेर्दमितारेर्जीवोभ्रान्त्वा भवे चिरम्। देवत्वं प्राप्तवानागा विद्युदंष्ट्राभिधस्तदा॥६५॥ दृष्ट्वा वज्रायुधं विद्युदंष्ट्रो दंष्ट्रा: कषन् मिथः। आ: क्व यास्यत्यसौ जीवनिति सञ्चिन्तयन्षा॥६६॥ कुमारं सपरिवार पेष्टुं चणकमुष्टिवत्। वाप्यास्तस्या उपरिष्टाच्चिक्षेपोत्क्षिप्य पर्वतम् ॥६७॥[युग्मम् पाशिपाशोपमैर्नागपाशै: सोऽसुरपांसनः । वज्रायुधं बबन्धाऽध: पंदोर्मेण्ठ इव द्विपम्॥६८॥ गिरिं वज्रीव वज्रेण मुष्ट्या वज्रायुधोऽपि तम्। पिपेषाऽत्रोटयच्चाऽथ तान् पाशान् बिसतन्तुवत्॥६९।। शेषाहिरिव पातालादक्षताङ्गो महाभुजः। तस्या: सान्त:पुरो वाप्या: कुमारो निर्ययौ ततः॥७०॥ तदा नन्दीश्वरे यात्रां कर्तुं शक्रो विदेहेजान् । जिनान् नत्वा व्रजन् वाप्या निर्गच्छन्तं ददर्श तम्॥७१॥ भवेऽत्रचत्र्यसौभाविन्यर्हन्निति पुरन्दरः । तमान!पचारः स्याद्भाविन्यपि हि भूतवत्॥७२॥ धन्योऽसि जम्बूद्वीपस्य क्षेत्रे भरतसञके। तीर्थकृत् षोडश: शान्तिर्भावीत्युक्त्वा ययौ हरिः॥७३॥ वज्रायुधोऽपि विविधा: क्रीडा: कृत्वा यदृच्छया। सान्त:पुरपरीवार: प्रविवेश निजंपुरम् ॥७४॥ पाअथक्षेमकरो लोकान्तिकदेवैः प्रबोधित:। विव्रजिषुरात्मीये राज्ये वज्रायुधं न्यधात्॥७५॥ प्रदाय वार्षिकं दानं प्रव्रज्यामाददे प्रभुः। विविधाभिग्रहपरस्तपस्तेपेचदुस्तपम्॥७६।। कर्मणांघातिनां घाताद्भर्तुर्जज्ञेच केवलम्। केवलज्ञानमहिमा विदधे चाऽमरेश्वरैः॥७७॥ यथास्थानं निषण्णेषु वज्रि-वज्रायुधादिषु। स्थित: समवसरणे सर्वज्ञो देशनां व्यधात्॥७८॥ श्रुत्वा तां देशनां लोका: प्राज्या: पर्यव्रजन्नथ।स्वंस्वं स्थानं ययुर्वज्रधर-वज्रायुधादयः॥७९॥
अस्त्रागारे चक्ररत्नमुत्पन्नमिति तारवाक्। तदाऽस्त्रागारिको वज्रायुधस्याऽकथयन् मुदा॥८॥ वज्रायुधस्ततश्चक्रे चक्रपूजां महीयसीम्। अन्यान्यपि महारत्नान्यस्याऽभूवंस्त्रयोदश।।८१॥ चक्ररत्नानुग: सोऽथ सवैताढ्यमहीधरम्। अपिव्यजेष्ट षट्खण्डं विजयं मङ्गलावतीम् ॥८२॥ सहस्रायुधकुमारं यौवराज्ये न्यधत्त च। धरित्रीधरणसहं मूर्त्यन्तरमिवाऽऽत्मनः ॥८३॥ पाएकदा राज-सामन्ता-ऽमात्य-सेनाधिपैर्वृतः।सामानिकैरिव हरि: सोऽध्यास्ताऽऽस्थानमण्डपम्॥८४॥ तदानींचाऽम्बरतलादापत्तन्नवनीतलम् । वेपमानाखिलवपुर्द्विपाहत इव द्रुमः॥८५॥ एको विद्याधरयुवा वज्रायुधमहीभुजम्। शरण्यं शरणायाऽऽगान् मैनीक इव सागरम्॥८६॥युग्मम्।। तत्पृष्ठे खड्ग-फलकधरा विद्याधराङ्गना। आगात्सुरेखा चार्वङ्गी विद्यादेवीव मूर्तिभाक् ॥८७।। साऽप्यूचे चक्रिणं देव! दुरात्माऽयं विसृज्यताम्। यथाऽस्य दुर्नयफलं दर्शयाम्यचिरादहम्॥८८॥ तत्पृष्ठतश्चोरुंगदापाणिभृकुटिभीषणः। यमदूत इवैक: कोऽप्यागाद् विद्याधरः क्रुधा॥८९॥ वैज्रायुधं सोऽप्यवोचत् श्रूयतामस्य दुर्नयः । येनेहेयमहं चाऽऽगामेतद्वधविधिसया॥९०॥ पाअस्त्यस्य जम्बूद्वीपस्य विदेहक्षेत्रभूषणे।सुकच्छनाम्नि विजये वैताढ्यो नाम पर्वतः ॥९१॥ तस्योपरि पुरश्रेणिशिरोमणितया स्थितम् । पुरंशुल्कपुरं नाम शुल्कं कल्पश्रिया इव ॥१२॥ १. केशपाशाः ।। २. कन्दर्पणेव।। ३. सापत्नाम्भोजसं० सं. छा. दे. मु.; सपत्न्याम्भोजसं० ला., सापल्याम्भोजसं० पा.; शत्रुभूतानां पङ्कजानां स्पर्धया ।। ४. कस्तूरीसम्बन्धिभिः॥५. शत्रुभयानामस्थानम् ॥ ६.क्रोधेन ॥७. वरुणपाशोपमैः॥८. असुराधमः ॥९. पदोर्मेण्ड इव ला. मु.॥१०. हस्तिपकः॥११. त्रोटयित्वा ला. दे. ॥१२. महाविदेहजातान् ॥१३. इन्द्रः॥१४. प्रव्रज्यामादित्सुः ॥१५.०स्थाननि० खंता. पाता. ॥१६. प्रभूताः ।। १७. इन्द्रः॥१८. उच्चैर्वाक्॥१९. इन्द्रः ॥२०. सभामण्डपम्॥२१. पर्वतः ।। २२. महती गदा पाणौ यस्य सः॥२३. विद्याधरं मु.॥२४. विधातुमिच्छया॥२५. जम्बद्रीपेऽस्य मु.॥२६. मूल्यम् ॥२७. देवलोकश्रियाः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org