________________
३२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व संसारे निपतन्नेष उद्धृतोऽस्मि कृपालुना। किमुच्यतेऽथवा यस्य साक्षात् तीर्थकर: पिता॥३०॥ चिरं मिथ्यात्ववानस्मि दृष्टो दिष्ट्येीयाऽप्यसि। सम्यक्त्वरत्नं मे देहि नवन्ध्यं दर्शनं सताम् ॥३१॥ वज्रायुधोऽपि तद्भावं ज्ञात्वा मतिमतां वरः । दिदेश तस्मै सम्यक्त्वं सवीर्यस्य सुतः स हि॥३२॥ भूयोऽप्यूचे चित्रचूल: कुमाराऽद्यप्रभृत्यहम् ।आदेशकार्यस्मि तव याचस्वाऽद्यैव किञ्चन॥३३॥ कुमारोऽपि जगादैवं त्वत्तोऽदो याचितं मया। अत: परं त्वया भाव्यं दृढसम्यक्त्वशालिना॥३४॥ देवोऽप्यवोचत् केयं ते प्रार्थना ? स्वार्थ एष मे। तद् ब्रूहि किञ्चित् कार्यं त्वं यथा स्यामनृणस्तव॥३५।। मत्कार्यमिदमेवेति वेक्त्रे वज्रायुधाय सः । देवायेव निरीहाय दिव्यालङ्करणान्यदात्॥३६।। ईशानेन्द्रसभां गत्वा चित्रचूलोऽभ्यधादिति।स्थाने वज्रायुधोऽश्लाघि दृढसम्यक्त्ववांस्त्वया॥३७॥ अयं महात्मा भगवानर्हन् भावीति संगृणन्। ईशानपतिरस्तावीद्वज्रायुधमनायुधः॥३८॥ एवं विचित्रगोष्ठीभिः क्रीडाभिरपि चारुभिः । वज्रायुधः सौख्यमग्नस्तस्थौ सुर इवर्द्धिमान् ॥३९।। गवसन्तसमयेऽन्येद्युस्तत्पुष्पपटलीधरा । वेश्या सुदर्शनावज्रायुधमेवं व्यजिज्ञपत् ॥४०॥ यूनां क्रीडासखो मीनकेतोर्जयसख: पर: । स्वामिन्नद्य वसन्तोऽयमेकच्छत्रो विजृम्भते॥४१॥ दोलान्दोलनसंसक्ता योषितोऽत्राऽर्द्धयौवना: । पतिनामानि पृच्छ्यन्ते सखीभिर्यष्टिपाणिभिः॥४२॥ स्वयं चिन्वन्ति पुष्पाणि ग्रंथ्नन्ति स्वयमेव च । स्वयमर्चन्ति पुष्पास्त्रं स्वयं मानं त्यजन्ति च॥४३॥ स्वयं दूतीभवन्तीह मनस्विन्योऽपि सम्प्रति। अनुभावो विजयते ऋतुराजस्य कोऽप्ययम्॥४४॥युग्मम्।। पिकीना कूजितैरत्र भृङ्गीणां विरुतैरपि। सुप्तस्मरनृपोद्बोधबन्दिकोलाहलायितम्॥४५॥ पुष्पोत्तंसा: पुष्पहारा: पुष्पकेयूरकङ्कणाः। पाखण्डमिव पुष्पेषोर्युवान इह बिभ्रति॥४६॥ वसन्तसखसङ्काशवसन्तेऽस्मिन्नुपस्थिते। विज्ञापयति देव! त्वां देवी लक्ष्मीवती मया॥४७॥ अद्य सूरनिपाताख्यमुद्यानं नन्दनोपमम् । गत्वा मधुश्रियं नव्यां द्रष्टुं न: कौतुकं प्रभो! ॥४८॥ अस्तुङ्कारस्तद्वचस: कुमार: सपरिच्छदः । तदैव हि तदुद्यानं जगामाऽनङ्गधाम सः॥४९॥ लक्ष्मीवतीप्रभृतीनि सप्त देवीशतानि च। कुमारमनुयान्ति स्म तारा इव निशाकरम् ॥५०॥ एकच्छत्रमिव च्छायापादपैरतिविस्तृतैः। अद्वैतामोदसाम्राज्यमिव पुष्पितशाखिभिः॥५१॥ गैलत्परागकणिकापङ्किलाबालमण्डलम्। फलभारनमच्छाखिशाखानुस्पृष्टभूतलम्॥५२॥ क्वाऽप्युन्नमन्नमन् क्वाऽपि योगीव विवरं विशन्। सान्त:पुरस्तदुद्यानं कुमारो विजहार सः॥५३||त्रिभिर्विशेषकम्।। पातेनोद्यानविहारेण श्रान्त: श्रान्तवधूजनः । जलक्रीडाकृते वापी स ययौ प्रियदर्शनाम् ॥५४॥ नन्दीश्वरद्वीपवापीमिव वापी मनोरमाम्। कुमार: श्रमनाशाय सप्रियः प्रविवेश ताम्॥५५॥ प्रेयसीभिः समं तत्र गिरिणद्यामिव द्विप: । प्रावर्तिष्ट जलक्रीडां कर्तुं वज्रायुधस्ततः॥५६॥ जलक्रीडाकराघातैरुत्क्षिप्तानामलक्ष्यत। हारमुक्ताकणानां च शीकराणां च नाऽन्तरम्॥५७॥ अन्त:पुरस्त्रीमुखानां हैमानांचाऽम्बुजन्मनाम्। वयस्यानामिव चिरादभूदन्योन्यसङ्गमः॥५८॥ अञ्जलिभिः शृङ्गिकाभिर्गण्डूषैश्च मृगीदृशाम्। वारिपहरणो जज्ञे मन्येपुष्पायुधस्तदा ॥५९॥ १. दिष्ट्येय॑यापि हि सं. ता. पा. ला.॥२. निष्फलम् ।। ३. जिनस्य ‘सवीर्य इत्यपि जिने' [हैम. शिलोञ्छ. प्र. का. श्लो. २] ॥४. आदेशवर्ती ।। ५. वदते, वक्तृशब्दस्य चतुर्येकवचनम्।। ६.स गृणन् मु., कथयन् ।। ७. वसन्तपुष्पगुच्छधरा ।। ८. नाम वज्रायुधमजिज्ञपत् दे. मु.॥९. मीनकेतो: कामस्य ।। १०. उत्राऽऽर्द्रयौवनाः इति मु. पाठः। अन्यास्वप्युपयुक्तासु प्रतिष्वयं पाठः सम्भाव्यते। तत्र आर्द्र - नवीनं यौवनं यासां ताः' इत्यर्थः ।। ११. जिघ्रन्ति ला.।। १२. कामदेवम् ।। १३. प्रभावः ।।१४. वसन्तस्य॥१५. पिकानाम् ला. पा. ॥१६. सुप्तो य: कामनृपस्तस्योद्बोधे कोलाहलमिवाऽऽचरितम् ॥१७. कामदेवस्य॥१८. कामदेवसदृशवसन्ते ॥ १९. 'अस्तु' इति कारक: - तद्वचसोऽनुमोदकः ॥ २०. आमोदाद्वैतस्य साम्राज्यमिव, आमोदः सुरभिगन्धः ॥ २१. गलन्त्यो याः परागकणिकास्ताभिः पङ्किलानि अबालानि-महान्ति मण्डलानि ॥ २२. उच्चर्नीचैर्भवन् ।। २३. खंता. पाता. वा.१-२ प्रतिषु न॥२४. प्रियदर्शन: छा. ला.॥२५. स विवेश ताम् मु.॥ २६. गिरिनद्यामिव छा. मु.॥ २७. सीकराणां मु.। जलकणानाम् ।। २८. स्त्रीमुखाणां खंता. पाता. वा.१-२॥२९. कमलानाम् ।। ३०. वारियन्त्रैः, पिचकारी' इतिभाषायाम् ।। ३१. कोगळो' इति भाषायाम् ।। ३२. वार्येव प्रहरणमायुधं यस्य सः॥३३. कामदेवः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org