________________
द्वितीयः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । कनकश्रीविपद्याऽहं 'सौधर्मस्वर्गशासितुः । अभूवमग्रमहिषी नाम्ना नवमिका स्वस:! ॥३७९।। विपद्य च धनश्रीस्त्वं धनदस्य महिष्यभूः । च्युत्वा ततोऽत्र सुमति: सीरिणस्त्वं सुताऽभवः ॥३८०॥ आसीत् तदा नौ सङ्केतश्च्यवते प्रथमं हि या। साऽर्हद्धर्मं बोधनीया समुपेत्य द्वितीयया ॥३८१॥ त्वां बोधयितुमेषाऽहमागताऽस्मि तव स्वसा। जैनं बुध्यस्व धर्मं त्वं संसारोदधितारणम् ।।३८२।। नन्दीश्वरमहाद्वीपेऽष्टाहिका: शाश्वतार्हताम् । यथास्थानं जन्म-स्नात्राद्युत्सवान् जङ्गमार्हताम् ॥३८३।। ताश्च तद्देशनावाच: स्वानुभूताः पुरा भवे । स्मराऽनया विस्मरसि किं जन्मान्तरनिद्रया? ॥३८४॥युग्मम्।। देवानामप्यसुलभां मर्त्यजन्मतरो: फलम् । तदादत्स्व परिव्रज्यां सिद्धेः प्रियसखीमिव ॥३८५।। इत्युक्त्वा शक्रमहिषी विमानमधिरुह्य सा । द्युतिभिर्योतयन्ती द्यां ययौ विद्युदिवोपरि ॥३८६।। पासञ्जातजातिस्मरणा तगिरा समतिस्ततः । पपात मूर्छिता भूमौ सद्यो भवभयादिव ॥३८७।। संसिक्ता चन्दनाम्भोभिर्वीजिता व्यजनानिलैः । लब्धसञ्ज्ञा समुत्तस्थौ निशात्यय इवाऽथ सा॥३८८।। सा कृताञ्जलिरित्यूचे भो भो: सर्वे कुलोद्भवा:! । प्रार्थये पृथिवीनाथा! जातिस्मरणवत्यहम् ॥३८९॥ मदर्थं यूयमाहूता अनुजानीत तेन माम् । उपादास्ये परिव्रज्यां भवभ्रमिरुगोषधिम् ।।३९०॥युग्मम्।। अभ्यधुर्भूभुजोऽप्येवमेवमस्तु तवाऽनघे! । अनुज्ञाता त्वमस्माभिर्निर्विघ्नं स्तात्तवेप्सितम् ।।३९१॥ सर्वोत्सवशिरोरत्नं तस्या निष्क्रमणोत्सवम् । चक्रतुः परया ऋद्धया मुदितौ सीरि-शाङ्गिणौ ॥३९२।। महिष्यो देवराजस्य यक्षराजस्य चैत्य ताम् । आनर्चुः पूजनीया हि वासवस्याऽपि तादृशः ॥३९३।। सुव्रतायाहिपद्यान्ते कन्यानां सप्तभिः शतैः । सहाऽऽददे सा प्रव्रज्यां मोक्षपादपसारणिम् ।।३९४।। साऽग्रहीद द्विविधां शिक्षा तेपे च विविधं तपः । संवेगभाविता तस्थावात्माब्जध्यानषट्पदी ॥३९५।। कालान्तरेण क्षपकश्रेणिमारूढवत्यसौ । केवलज्ञानमुत्पेदे मोक्षश्रीदूतसन्निभम् ॥३९६।। प्रबोध्य भव्यभविनो भवोपग्राहिकर्मणाम् । क्षयं कृत्वा च सुमति: प्रपेदे पदमव्ययम् ॥३९७।। पातौ चाऽपराजिता-ऽनन्तवीर्यो सम्यक्त्वशालिनौ। पर्यपालयतां राज्यं सम्पृक्तावश्विनाविव ॥३९८॥ पूर्वलक्षचतुरशीत्यायुरन्ते जनार्दनः । निकाचितैः कर्मभिस्तैर्ययौ नरकमादिमम् ।।३९९।। द्विचत्वारिंशत्सहस्रवर्षायुस्तत्र नारकः । विविधा वेदना लेभे नाशो नार्जितकर्मणाम् ॥४००॥ आगत्य चमरस्तत्र पिता प्राग्विष्णुजन्मनि । वेदनोपशमं चक्रेऽपत्यस्नेहो बली खलु ॥४०१।। अनन्तवीर्यजीवोऽपि संविग्न: सम्यगेव ताः । वेदना: समधिसेहे स्वं कर्माऽवधिना स्मरन् ॥४०२।। भ्रातृशोकाद्बलभद्रोऽप्यात्मजे न्यस्य मेदिनीम् । जयन्धरगणधरपादान्ते व्रतमाददे ॥४०३॥ तमनुप्राव्रजन् राज्ञां सहस्राणि च षोडश । महतामनुलग्नैर्हि महदासाद्यते फलम् ।।४०४।। सुचिरं स तपस्तेपे सहमानः परीषहान् । अन्ते चाऽनशनं कृत्वा विपद्येन्द्रोऽच्युतेऽभवत् ॥४०५॥ पाअनन्तवीर्यजीवोऽपि भुक्त्वा दुषकर्मणां फलम् । निर्ययौ नरकाच्छुद्धः स्वर्णधातुरिवाऽनलात्॥४०६॥ सोऽस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि । वैताट्यस्योत्तरश्रेण्यां पुरे गगनवल्लभे ॥४०७॥ विद्याधरपतेर्मेघवाहनस्य महात्मनः । जायायां मेघमालिन्यां मेघनादः सुतोऽभवत् ॥४०८॥युग्मम्।। क्रमेण यौवनं प्राप्तं तं राज्ये मेघवाहनः । निवेश्य परलोकाय निजकार्यमसाधयत् ॥४०९।। उभयोरपि वैतादयश्रेण्योरधिपतिः क्रमात । स बभवैकतेजस्वी द्यावाभम्योरिवाऽर्यमा॥४१०॥ १. इन्द्रस्य ॥२. जैनं बुध्यस्व बुध्यस्व धर्म संसारतारणम् ता. पा. छा. खंता. वा.१-२॥३. तांश्च तद्देशना० मु.॥४. न खंता. पाता. वा.१-२ प्रतिषु ।। ५. गृहाण ॥ ६. भवे संसारे भ्रमिः भ्रमणं तदेव रुग् रोगः, तस्यौषधम् ।। ७. इन्द्रस्य ।। ८. कुबेरस्य ।। ९.आनर्च मु. ॥ १०.०परिव्रज्याम्० पा. ॥ ११. मोक्षवृक्षस्य कुल्यातुल्याम् ॥ १२. संवेगेन वैराग्येण भाविता युक्ता ॥ १३. आत्मा एव अब्जे कमलं तस्य ध्याने षट्पदी भ्रमरी तया तुल्या;
वात्माब्जाध्यान० खंता., ०वात्माब्जव्योमषट्पदी० ता. ॥१४.केवलज्ञानमापेदे दे. विना ॥१५. मिलितौ अश्विनीकुमारौ ॥१६. कर्मभिः स्वैर्ययो पा. ।। १७. स्तिमितसागरः ॥१८. जयधर० खंता. पाता. ॥१९. तदनु० खंता. ॥ २०. खंता. पाता. वा.१-२ प्रतिषु नास्ति ।। २१. यौवनप्राप्तं० खंता. पाता. ॥ २२. आकाश-पृथिव्योः सूर्य इव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org