________________
२८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व सभागृहमिवेन्द्रस्योपेन्द्रायुक्तास्ततो व्यधात् । रत्नस्तम्भसहस्राकं मण्डपं क्षितिमण्डनम् ॥३४६॥ फणीन्द्रफणमाणिक्यश्रेणिभ्रान्तिप्रदान्यथ । तत्र प्रकल्पयामासू रत्नसिंहासनानि ते ॥३४७।। वासुदेवाज्ञया तेषूपाविक्षन्नवनीभुजः । विद्याधरकुमाराश्च मारतुल्या वपुःश्रिया ॥३४८॥ संवीतदिव्यवसना रत्नालङ्कारधारिणी। विचित्रकल्पिताकल्पाऽनल्पामोदविलेपना ॥३४९।। मूर्ध्नि श्वेतातपत्रेण शशिबिम्बानुकारिणा। शोभमाना सवयोभि: सखीभिः परिवारिता ॥३५०॥ प्रतीहार्या दर्श्यमानपथा काञ्चनदण्डया। वरमालामुद्वहन्ती बलभद्रस्य कन्यका ॥३५१॥ सुरेष्विवोपस्थितेषु विद्याधरनृपेष्वथ । तं मण्डपमलञ्चक्रे सुमति: श्रीरिवोदधिम् ।।३५२॥ चतुर्भिः कलापकम्।। नीलोत्पलम्रजमिव सृजन्ती मुग्धया दृशा। ईक्षाञ्चक्रे कुरङ्गाक्षी सा स्वयंवरमण्डपम् ।।३५३॥ पाअत्रान्तरे रत्नमयं माणिक्यस्तम्भशोभितम् । लम्बमानं नभोमध्ये मार्तण्डस्येव मण्डलम् ।।३५४।। अधिष्ठितं देवतया रत्नसिंहासनस्थया। अकस्मादाविरभवद्विमानमधिमण्डपम् ॥३५५।।युग्मम्।। सा कन्या ते च राजानस्ते च विद्याधरेश्वराः । तदीक्षाञ्चक्रिरेऽत्यन्तविस्मयस्मेरचक्षुषः ॥३५६॥ तेषां सम्पश्यमानानां विमानादवतीर्य सा। अधिसिंहासनं देवी मण्डपान्तरुपाविशत् ।।३५७।। सोत्क्षिप्य दक्षिणं पाणिमूचे सुमतिकन्यकाम् । मुग्धे! धनश्रीर्बुध्यस्व बुध्यस्व प्राग्भवं स्मर ॥३५८।। पुष्करवरद्वीपार्धेऽस्ति पूर्वभरतस्य च । मध्यखण्डे विशालर्द्धि श्रीनन्दनपुरं पुरम् ।।३५९।। शरणार्थिजनत्राणेष्वतन्द्रालुर्दिवानिशम् । महेन्द्र इव तत्राऽऽसीन् महेन्द्र इति भूपतिः ।।३६०॥ राज्ञस्तस्य महादेवी प्राणेभ्योऽप्यतिवल्लभा । अनन्तमतिरित्यासीदनन्तगुणभाजनम् ॥३६१॥ एकदा सा निशाशेषे सुषुप्ता स्वप्नमैक्षत । निजोत्सङ्गस्थिते पुष्पमाले सुरभिनिर्मले ॥३६२।। आख्याते च तया स्वप्ने राजा व्याख्यातवानिति। भविष्यत्यनवद्यं ते निश्चितं दुहितद्वयम् ॥३६३।। जज्ञाते समये तस्या: पुत्र्यौ तत्राऽहमादिमा । कनकश्रीरिति त्वं तु धनश्रीरिति नामतः ॥३६४।। समं परस्परप्रीत्या ववृधाते उभे अपि । समं कलाकलापेन प्रापतुर्यौवनं च ते ॥३६५॥ पाइतस्ततश्च क्रीडन्त्यौ स्वेच्छयाऽन्येधुरीयतुः । सुपर्वविश्रामभुवं पर्वतं गिरिपर्वतम् ॥३६६।। फलानि तत्र स्वादूनि पुष्पाणि सुरभीणि च । विचिन्वन्त्यौ भ्रमतुस्ते वैनाद्रयोरिव देवते ॥३६७।। रह:प्रदेशे चैकस्मिन्नेकान्तशमशालिनम् । ते नन्दनगिरि नामाऽऽलोकयामासतुर्मुनिम् ॥३६८॥ विलोक्य मुदिते ते च तं मुनि त्रि: प्रदक्षिणम् । कृत्वा भक्त्या ववन्दाते अवदाते उभे अपि ॥३६९॥ धर्मलाभाशिषं दत्वा स नन्दनमहामुनिः । हृदयानन्दनीं (नां) धर्मदेशनां विदधे तयोः ॥३७०॥ तां धर्मदेशनां श्रुत्वेत्यूचतुः प्राञ्जली उभे । यदि नौ योग्यता काचिद्धर्मादेशं प्रयच्छ तत् ।।३७१।। विचार्य योग्यतां सोऽपि भगवानुभयोरपि। दिदेश द्वादशविधं धर्मं जगृहतुश्च ते ॥३७२।। तं वन्दित्वा मुनीन्द्रं ते जग्मतुर्निजवेश्मनि । सदाऽप्यवहिते धर्मं पर्यपालयतां च तम् ॥३७३॥ पक्रीडागिरि-सरिद्वापी-विविधद्रुमसङ्कुलाम् । एकदाऽशोकवनिकां जग्मतुस्ते कुतूहलात् ।।३७४।। विविधक्रीडया तत्र क्रीडन्त्यौ ते नदीतटे। अहार्षीत् खेचरयुवा वीराङ्गस्त्रिपुराधिपः ॥३७५॥ वज्रश्यामलिका नाम तस्य भार्या शुभाशया। त्याजयामास ते तस्मान्मृग्याविव मृगाधिपात् ।।३७६॥ भीमाटव्यां नदीतीरे वंशजालोपरि क्षणात् । व्योम्नस्ते पेततुर्बाले शापभ्रष्टामरीनिभे ॥३७७॥ आपदं मरणान्तां तां ज्ञात्वा ते शुभभावने। विदधाते अनशनं नमस्कारपरायणे ॥३७८॥ १. वासुदेवसेवकाः॥२. रचयामासुः ।। ३.०मास रत्न० मु. ॥ ४. कामसदृशाः ॥५. संवीतानि धृतानि दिव्यवस्त्राणि यया सा ।। ६. विचित्राणि कल्पितानि आकल्पानि भूषणानि यया सा ।। ७. खंता. पाता. न ।। ८.०रत्नमयमाणिक्य० मुप्र. ॥ ९. अकस्मादाविरभूद् खंता. पाता. वा.१-२ ॥१०. 'समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यर्तिदृशः' (सि.हे. ३/३/८४) इति आत्मनेपदम् ।। ११. देवानां विश्रान्तिस्थानम् ।। १२. बनान्योरिव खंता., खंता.प्रतौ अत्र स्थाने टिप्पितमेवं तत्र वनदेवतेव'॥१३. श्वेतवर्णे ॥ १४. अशोकवाटिकाम् ॥१५. धनश्री-कनकप्रियौ ॥१६. मनोरमे ता. ॥ १७.ज्ञात्वा च मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org