SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व श्रीदत्ताऽपि नमस्कृत्य पुरः सुव्रतपादयोः । सर्वज्ञोक्तं प्रत्यपादि धर्मं सम्यक्त्वपूर्वकम् ॥२८३।। वन्दित्वा सुव्रतमुनिं पौरलोकोऽखिलोऽपि सः । श्रीदत्ता च प्रमुदिता ययौ निजनिकेतनम् ।।२८४॥ कियन्तमपि कालं सा तं धर्मं प्रत्यपालयत् । तस्याः कर्मपरीणामाद्विकल्पश्चेत्यजायत ।।२८५।। यदिदं जिनधर्मस्य परमं कीर्त्यते फलम् । तत् किं भविष्यति न वा ममेति न हि वेम्यहम् ।।२८६।। तादृग्गुरूपदेशेऽपि विचिकित्सां यदीदृशीम् । श्रीदत्ताऽकल्पयत तद् दुर्वारा भवितव्यता ॥२८७।। अन्यदा सत्ययशसं वन्दितुं प्रेस्थिताऽन्तरे । सा विद्याधरयुगलं विमानस्थितमैक्षत ॥२८८।। तद्रूपमोहिता सा तु समेत्य निजवेश्मनि । विचिकित्सामनालोच्याऽप्रतिक्रम्य व्यपद्यत ।।२८९।। "इतश्च जम्बूद्वीपेऽस्मिन् प्राग्विदेहस्य मण्डने। विजये रमणीयेऽस्ति वैताढ्यो नाम पर्वतः ॥२९०।। तत्राऽस्ति नगरं शक्रनगर्या इव सोदरम्। शिवानां मन्दिरीभूतं नामत: शिवमन्दिरम् ॥२९१।। तत्र चाऽऽसीन्महर्डीनां विद्याधरमहीभुजाम् । पूँज्यांहिः कनकपूज्य इति नाम्ना महीपतिः ॥२९२।। वायुवेगाभिधानायां तस्य पत्न्यामसावहम् । अभूवं तनय: कीर्तिधर इत्यभिधानतः ॥२९३॥ अभूदनिलवेगेति पत्नी मेऽन्तःपुराग्रणी: । तयैकदा सुप्तया तु त्रिस्वप्नी ददृशे निशि ॥२९४॥ कैलासधवलो हस्ती गर्जन् मेघ इवोक्षराट् । निधिकुम्भोपमः कुम्भः स्वप्नास्तेऽमी त्रयः क्रमात् ।।२९५।। तत्कालोत्फुल्लवदना पद्मिनीव निशात्यये। महादेवी महास्वप्नानाख्याति स्म ममाऽग्रतः॥२९६।। त्रिखण्डविजयस्वामी चक्रवर्त्यर्द्धवैभव: । भावी भवत्यास्तनय इति व्याख्यातवानहम् ।।२९७।। काले च सुषुवे सूनुं सा देवी देवसन्निभम् । सर्वलक्षणसम्पूर्ण रत्नाकरभूरिव ॥२९८॥ गर्भस्थेऽस्मिन् विशेषेण दमिता विद्विषो मया। तेन तस्य दमितारिरित्यभिख्यामहं व्यधात् ।।२९९।। क्रमेण ववृधे सोऽथ जग्राह च कला: क्रमात् । क्रमेण च प्रत्यपादि यौवनं रूपपावनम् ॥३००॥ अन्यदाऽन्यत्र विजये विजयी विहरन् विभुः। महात्मा समवासार्षीच्छान्ति: शान्तिकरो जिनः ।।३०१॥ तं वन्दित्वा निषण्णोऽहमश्रौषं धर्मदेशनाम् । सद्यो विरक्तो राज्ये च दमितारिं न्यवीविशम् ।।३०२।। श्रीशान्तिपादमूले च प्रावाजिषमहं तत: । ग्रहणाऽऽसेवनारूपे शिक्षेचाऽग्राहिषं तदा ॥३०३।। अकार्षं वार्षिकीमत्र पर्वते प्रतिमामहम। घातिकर्मक्षयादस्मि चाऽद्यैवोत्पन्नकेवलः ॥३०४॥ उत्पन्नचक्रो विजितत्रिखण्डविजय: स च । दमितारिरभूद्राजा प्रतिविष्णुर्महाबलः ॥३०५।। प्रियायां मदिरानाम्न्यां दमितारेर्महीभुजः । श्रीदत्ताजीव एंव त्वं कनकेश्री: सुताऽभवः ॥३०६॥ विचिकित्सामनालोच्या प्रतिक्रम्य च यन्मृता। तदोषाद्वन्धुविरह: ईदृक् पितृवधश्च ते॥३०७॥ कलङ्कः खलु धर्मस्य स्तोकोऽप्यत्यन्तदुःखदः। विषमल्पमपि प्सांतं प्राणनाशाय जायते ॥३०८॥ ईदृग्भूयो न तत्कार्यमीदृग्भूयो यथा भवेत् । किन्तु सम्यक्त्वमादेयं पञ्चदोषीविवर्जितम् ॥३०९॥ कनकश्रीस्तत: सद्यो वैराग्यावेगधारिणी। इत्थं विज्ञपयामास चक्र-लाङ्गलधारिणौ ॥३१०॥ दुष्कृतेनाऽल्पकेनाऽपि यद्येवं दुःखमाप्यते। तदलं कामभोगैर्मे दुष्कृतोत्पत्तिखानिभिः ॥३११।। स्तोकेनाऽपि हि रन्ध्रेण यथा मज्जति नौ ले। दुष्कर्मणाऽल्पकेनाऽपि तथा दुःखेषु ही जनः ॥३१२॥ तदा दारिद्यभीतायाः कुर्वत्यास्तादृशं तपः। विचिकित्सा कुतोऽप्यासीदहो! मे मन्दभाग्यता! ।।३१३।। सम्प्रत्यैश्वर्यमत्ताया मम भोगेजुषः खलु । कियती विचिकित्सैका यत् स्युर्दोषान्तराण्यपि ॥३१४।। १. श्रीदत्ताऽथ खंता. पाता. वा.१-२॥२. कर्मपरिणामाद् विकल्पः स्वमनस्यभूत् मु.।। ३. सन्देहम् ।। ४. श्रीदत्ताकल्पयत् तदा दुर्वारा ता. दे. मु.॥ ५. प्रस्थिताम्बरे दे. छा. मु.॥६. कल्याणानाम् ।। ७. पूज्याङ्घ्रिपद्य: कनकपूज्य इति महीपतिः पा. ॥८. वृषभः ॥९. चाऽऽख्यातवानहम् मु.॥१०. खने मिरिव । ११. महार्य: पा. ॥ १२. एष त्वं० वा.१-२॥ १३. कनकश्रीसुताऽभव: खंता. विना ॥ १४. भक्षितम् ॥ १५. कल्पते वा.१-२॥ १६. पञ्चदोषैवि० पा. वा.१-२ । शङ्का-काङ्क्षा-विचिकित्सा-कुलिङ्गप्रशंसा-मिथ्यादृष्टिसंस्तवरूपदोषपञ्चकविवर्जितम् ।। १७. अनन्तवीया-ऽपराजितौ ।। १८. सम्प्रत्यैश्वर्यमग्नाया ला. ॥१९.भोगान् सेवमानायाः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy