________________
द्वितीयः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । देशनान्ते कनकश्रीनत्वा प्रपच्छ तं मुनिम् । कुतः पितृवधो बन्धुविरहश्च ममेदृश:? ॥२५१॥
आख्यन मुनिरिति द्वीपे धातकीखण्डनामनि। अस्ति प्राग्भरते शङ्खपुरग्रामो महर्द्धिकः ॥२५२॥ श्रीदत्तानाम तत्राऽऽसीन्नारी दारिद्रयविद्रुता । परौकःकर्मकरणजीविकाधृतजीविता ।।२५३।। कण्डनं पेषणं वारिवहनं गृहमार्जनम् । गृहलेपनमित्यादि सकलं दिवसं व्यधात् ॥२५४।। लचिते सकलेऽप्यहि समपद्यत भोजनम् । आलोकनमिवोलूक्यास्तस्या ही मन्दभाग्यता ।।२५५।। अपरेधुर्धमन्ती साऽऽसादयामास पर्वतम् । सुपर्वपर्वतमिव श्रिया श्रीपर्वताभिधम् ॥२५६॥ तत्राऽमलशिलासीनं गुप्तित्रयपवित्रितम् । दु:सहैरपराभूतं भूतैरिव परीषहैः ।।२५७।। अखण्डपञ्चसमितिं मितेतरतप:श्रियम् । नि:सङ्ग निर्ममं शान्तं समकाञनलेष्टुकम् ।।२५८।। शुक्लध्याने वर्तमानं शैलशृङ्गमिव स्थिरम् । नामत: सत्ययशसं सेक्षाञ्चक्रे महामुनिम् ॥२५९।।त्रिभिर्विशेषकम्।। कल्पद्रुममिव प्रेक्ष्य सा प्रीता प्रणनाम तम् । धर्मलाभं ददौ तस्यै सोऽपि श्रेयोद्रुदोहदम् ॥२६०॥ श्रीदत्ताऽप्यभ्यधत्तैवमीहग्दौःस्थ्यानुमानतः । पूर्वजन्मन्यहं धर्मं न ह्यकाष मनागपि ।।२६१।। नित्यं दुष्कर्मदग्धाया मम त्वद्धर्मलाभगी: । मेघवृष्टिरिव ग्रीष्मतप्ताया: सानुमद्भुवः ॥२६२।। यद्यप्यस्मिन्नयोग्याऽहं मन्दभाग्या तथाऽपि हि । अमोघं ते वच इति श्रेयसे किञ्चिदादिश ॥२६३॥ यथा भवान्तरे भूयो नेदृशी स्यां तथा कुरु । त्वादृशे त्रातरित्रात:! किं किं न स्यान मनीषितम्? ॥२६४॥ [इत्याकर्ण्य वचस्तस्या योग्यतां च विचार्य स: । धर्मचक्रवालं नाम तपोऽनुष्ठानमादिशत् ।।२६५।। द्वे त्रिरात्रे चतुर्थानि सप्तत्रिंशदिह त्वया। विधातव्यानि गुर्वर्हदाराधननिलीनया ॥२६६।। प्रभावात् तपसोऽमुष्य न हि भूयो भविष्यति । अपत्यमिव वायस्यास्तवेदृक्षं भवान्तरम् ॥२६७।। तदाऽऽदृत्य वचो वाचंयमाग्र्यं तं प्रणम्य च । सा जगाम निजं ग्रामं तपस्तच्चोपचक्रमे ॥२६८॥ तत्प्रभावात् पारणके स्वप्नेऽप्यप्राप्तपूर्वकम् । सा प्राप भोजनं स्वादु सुदशानाटकामुखम् ॥२६९।। तत: प्रभृति सा कर्मवेतनं चाऽढ्यवेश्मसु । द्विगुणं त्रिगुणं चाऽऽप वस्त्राणि प्रवराणि च ॥२७०।। एवं संकिञ्चना किञ्चिच्छ्रीदत्ता समजायत । पूजां देव-गुरूणां च यथाशक्ति ततोऽकृत ॥२७१॥ तत्सद्मनोऽपरेधुश्च जीर्णो वातादिताडितः । कुंड्यैकदेशो न्यपतल्लेभे स्वर्णादिकं च सा ॥२७२।। तप:समाप्तौ च तयोद्यापनं विदधे महत् । चैत्यपूजा-साधु-साध्वीप्रतिलाभादिपूर्वकम् ।।२७३।। तपोऽन्तपारणदिने यावद्दिग्वीक्षणं व्यधात् । मासक्षपणकं तावत् सुव्रतर्षि ददर्श सा ॥२७४।। धन्यंमन्या तत: सा च प्रोसुकान्नादिना स्वयम् । तं प्रत्यलाभयन्नत्वा धर्मं प्रपच्छ चाऽऽर्हतम् ॥२७५।। मुनिरप्यब्रवीदेवमेष केल्पो न न: शुभे! । यद्भिक्षार्थं गतैः क्वाऽपि क्रियते धर्मदेशना ॥२७६।। यदि ते धर्मशुश्रूषा तद्वसतौ गतस्य मे। आगच्छे: समये भद्रे! जल्पित्वेति जगाम सा ॥२७७।। कृत्वा च पारणं तस्य स्वाध्यायं कुर्वतो मुनेः । वन्दनार्थं पौरलोक: श्रीदत्ता च समाययौ ॥२७८॥ वन्दित्वा च यथास्थानमुपविष्टेषु तेषु सः । एवं प्रसन्नया वाचा विदधे धर्मदेशनाम् ॥२७९॥ 'संसारे चतुरशीतियोनिलक्षमटन् भवी। दैवादाप्नोति मानुष्यमन्ध: स्थानमिवेप्सितम् ।।२८०।। तत्राऽपि सर्वधर्मेषु ज्योतिष्केष्विव चन्द्रमा: । प्रधान: खलु सर्वज्ञोपज्ञधर्म: सुदुर्लभः ॥२८१।। तस्मात् तत्रैव कर्तव्यो यत्नः सम्यक्त्वपूर्वकम् । संसारी येन संसारवाधूि तरति लीलया' ॥२८२॥ १. पूर्वभरते ॥२. परगृहस्य कर्मकरणेन या आजीविका, तया धृतं जीवितं यया सा॥३.खण्डनम् ।। ४. देवपर्वत मेरुमिव ।।५. अमिता तप:श्रीर्यस्य तम् ॥६. समौ काञ्चनलेष्टुको यस्य तम् ।। ७. लोष्टकम् ला. दे. मु. ।। ८. वीक्षाञ्चक्रे खंता. पाता. वा.१-२ सं. ला. पा. ॥९. श्रेय एव दुर्वृक्षस्तस्य दोहदम् ।। १०. पर्वतभुवः ॥ ११. हे रक्षक! ॥ १२. इष्टम् ।। १३. तपोऽनुष्ठधातुमा० मु. ॥१४. मुनिश्रेष्ठम् ॥ १५. सुदशानाटिकामुखम् खंता.; सुदशा शोभनावस्था एव नाटकं तस्य आमुखं प्रस्तावनाम्॥१६. कर्माणि कृत्वा याऽवाप्यते वृत्तिः पगार' इति भाषायाम्॥१७. चापद् खंता. ला. पा. दे. छा., चापि पाता. ॥१८. किञ्चन-द्रव्यसहिता ।। १९. भित्तिभागः ।। २०. मासोपवासिनम् ।। २१. निर्दोषान्नादिना ।। २२. आचारः ।। २३. धर्मश्रवणेच्छा ।। २४. उपाश्रये ।। २५. लक्षामटन् मु.॥२६. संसारिजीवः; भवान् मु.॥२७. प्रधानम् ला. पा. छा. ॥२८. धर्म सुदुर्लभम् ता. ला. पा. छा. सर्वज्ञप्रवर्तितो धर्मः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org