________________
२४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व प्रावर्त्तन्त तया योद्धं दमितारेस्ततो भटाः । असृक्पार्द्रवपुष: सधातव इवाऽद्रयः ॥२२०।। मम प्रेयानयं भूयात् कबन्धो यस्य ताण्डवी। कुन्तप्रोत: सरति यस्तस्मै पत्येऽहमुत्सुका ॥२२१।। योऽयं वर्णयति घ्नन्तं स कदा रंस्यते मया। मुखे विशन्तं य: कुन्तं दन्तैर्धत्ते पति: स मे ॥२२२॥ य एष करिण: स्कन्धमारोहति स मे धवः । भग्नास्त्रो य: शिरस्केन योद्धा तस्याऽस्मि किङ्करी ॥२२३॥ उत्खातदन्तिदन्तेन य: शस्त्री सोऽस्तु मे प्रियः । इत्यम्बरे सुरस्त्रीणामनुरागोक्तयोऽभवन् ॥२२४॥चतुर्भिः कलापकम्।। दमितारेरपि सैन्या विद्याशक्त्याऽतिदुर्मदा: । न मनागप्यभज्यन्त समरे भद्रदन्तिवत् ॥२२५।। पाञ्चजन्यं ततो जन्यनाटकाभिनये नटः । वादयामास नादेन रोद:कुक्षिम्भरि हरिः ।।२२६॥ तेन विष्णोर्जगज्जिष्णो: शङ्खनादेन मूर्छिता: । फेनायमाना न्यपतन सापस्मारा इव द्विषः ॥२२७||
ततश्च रथमारुह्य दमितारिनृपः स्वयम् । युयुधेऽनन्तवीर्येण शस्त्रैरस्त्रैश्च दैवतैः ॥२२८॥ शाङ्गिणं दुर्जयं ज्ञात्वा जनकः कनकश्रियः । सस्मार चक्रं विधुरे प्रियमित्रमिवोर्द्धरम् ।।२२९।। दमितारे: करे तच्च ज्वालाशतसमाकुलम् । समापपात रभसादौर्वानल इवाऽर्णवे ॥२३०॥ दमितारिरथाऽवादीदरे! तिष्ठन् मरिष्यसि । अद्यापि गच्छ मत्पुत्रीं मुक्त्वा मुक्तोऽसि दुर्मते! ॥२३१।। अनन्तवीर्योऽपीत्यूचे त्वच्चक्रं त्वदसनपि। त्वत्कन्यकामिवाऽऽदाय व्रजिष्याम्यन्यथा न तु ॥२३२।। एवमुक्तो दमितारिवलन् ज्वलेंनवद्रुषा । भ्रमयित्वाऽमुचच्चक्रमपराजितबन्धवे ॥२३३॥ चक्रतुम्बाग्रघातेन न्यपतन्मूर्च्छितो हरिः । द्राक् सुप्त इव चोत्तस्थावपराजितवीजितः ॥२३४॥ तदेव चक्रं पार्श्वस्थमाददे शाणपाणिना। शतारमपि तत्पाणौ सहस्रारमभूच्च तत् ॥२३५।। सोऽर्धचक्रधर: स्मित्वेत्यूचे प्रत्यर्धचक्रिणम् । कनकश्रीपितेति त्वं मुक्तोऽस्यद्याऽपि गच्छ भोः! ॥२३६।। अवद दमितारिस्तं मदस्त्रेण किमस्त्र्यसि? । उत्तमर्णधनेनेवाऽधमर्णो धनवानरे! ॥२३७।। चक्रं तन्मुञ्च मुञ्चेदं मुञ्च चाऽद्याऽपि पौरुषम् । अनन्तवीर्य! मद्वीर्यवाौं वा लोष्टुंतां व्रज ॥२३८॥ इत्युक्तोऽनन्तवीर्यस्तं चक्रं कुद्धान्तकोपमः । मुमोच दमितारेश्च बँकर्ताऽम्बुजवच्छिरः ।।२३९।। उपर्यनन्तवीर्यस्य तद्वीर्यमुदिताः सुराः । पञ्चवर्णानि कुसुमान्यवर्षन्निति चोचिरे ॥२४०॥ पभो भो विद्याधरनृपाः! सर्वे शृण्वन्तु तत्पराः । विष्णुरेषोऽनन्तवीर्यो बलोऽयमपराजितः ॥२४१।। एतत्पादानुपाध्वं तन्निवर्तध्वं रणाजिरात् । यस्योदय: स वन्द्यो हि यथा हीन्दुर्यथा रविः ॥२४२।। ततो विद्याधरेन्द्रास्ते सर्वे नमितमौलयः । बलदेव-वासुदेवौ शरण्यौ शरणं ययुः ॥२४३।। सह विद्याधरेन्द्रैस्तै: साग्रजः सप्रियो हरिः। प्रचचाल विमानस्थ: शुभां वरपुरीं प्रति॥२४४॥ गच्छन्नुपंकनकगियूंचे विद्याधरैर्हरिः । आशातनां मा स्म कार्षीः श्रीमतामर्हतामिह ॥२४५।। सन्त्यत्र कनकगिरौ जिनचैत्यान्यनेकशः । यथावत् तानि वन्दित्वा वन्द्यपादा व्रजन्त्वितः ।।२४६॥ विमानादवतीर्याऽथ शाङ्गभृत् सपरिच्छदः । दृशां जनितशैत्यानि तानि चैत्यान्यवन्दत ॥२४७॥ कौतुकात् सं गिरिं पश्यन् सोऽपश्यदथ चैकत: । वर्षोपवासप्रतिमास्थितं कीर्तिधरं मुनिम् ।।२४८।। कर्मणां घातिनां घातात् तदैवोत्पन्नकेवलम् । देवारब्धमहिमानं तं दृष्ट्वा मुमुदे हरिः ॥२४९॥ त्रिश्च प्रदक्षिणीकृत्य वन्दित्वाऽग्रे निषद्य च । शुश्राव देशनां तस्मात् प्राञ्जलि: सपरिच्छदः ।।२५०॥ १. नृत्यवान् ।। २. कुन्तप्रोत: 'भाला' इत्यभिधे शस्त्रे प्रोतः ॥ ३. शिरष्केण खंता. पाता. वा.१-२ ॥ ४. खंता. पाता. वा.१-२ प्रतिषु न ।। ५. विद्याशक्त्याऽपि मु.॥६. जन्यं युद्धं तदेव नाटकं तस्याभिनये ॥७. रोदसो: स्वर्ग-पृथ्व्योः कुक्षि मध्यभागं बिभर्ति तम् ।। ८. अनन्तवीर्यः ।।९. फेनं(फीण) निष्कासयन्तः ।। १०. दुःखे ॥ ११. सहायकम् ।। १२. वडवानलः ।। १३. अग्निवत् ॥१४. द्राक् च सुप्त इवोत्तस्था० खंता. पाता. वा.१-२ ॥ १५. अनन्तवीर्येण ॥१६. वासुदेवानन्तवीर्यः ॥ १७. प्रतिवासुदेवदमितारिम् ।। १८. दमितारिस्त्वम् सं. ला. पा. ॥ १९. अस्त्री-असवान् असि ॥२०. उत्तमर्ण: 'लेणदार' इति ॥ २१. अधमर्णः 'देवादार' इति ।। २२. लोष्ठताम् ला. मु. । 'ढेफु' इति भाषा॥२३. क्रुद्धयमोपमः ।। २४. चिच्छेद ।। २५. सेवध्वम् ॥ २६. रणाङ्गणात् ।। २७. शरण्यं शरणं मु. ॥२८. अनन्तवीर्यः ॥ २९. मेरुसमीपे ॥ ३०. अनन्तवीर्यः ॥ ३१. ज्ञानावरणीय-दर्शनावरणीय-मोहनीयान्सरायकर्मणाम्-आत्मनो ज्ञानादि-मूलगुणघातकानाम् ॥ ३२. अनन्तवीर्यः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org