________________
द्वितीय: सर्ग:)
त्रिषष्टिशलाकापुरुषचरितम् । क्व वा युवाभ्यां सद्योऽपि साक्षात्करणमात्मनः? । एतत्सर्वमसम्भाव्यं मद्भाग्योपचयादभूत् ॥१८८।। नाट्याचार्यो यथा त्वं मे त्वमेव हि पतिस्तथा ! अत: परं ते मद्धत्या न चेत् पासि मनोभवात् ॥१८९॥ गृहीतं श्रुतमात्रेण त्वया मे हृदयं पुरा । गृहाण पाणिमधुना प्रसीदाऽनुगृहाण माम् ॥१९०॥ वैताढ्यपर्वतेऽमुष्मिन् दक्षिणोत्तरयोरपि । श्रेण्योर्विद्याधरेन्द्राणां कुमारेषु युवस्वपि॥१९१॥ भवादृशवराभावादभावो मे भवेद् ध्रुवम् । दिष्ट्या प्राप्तोऽसि जीवातुर्जीवलोकैकचन्द्रमाः ।।१९२॥युग्मम्।। अनन्तवीर्यो व्याहार्षीत् सुभ्र! यद्येवमिच्छसि। उत्तिष्ठ तर्हि गच्छामः सुभगे! नगरी शुभाम् ॥१९३॥ कनकश्रीरप्यवोचत् त्वं प्राणानामपीशिषे। मम किं तु पिता दुष्टो विद्यासामर्थ्यदुर्मदः ॥१९४।। करिष्यति महानर्थमनर्थनिलयो ह्ययम् । एकाकिनौ भवन्तौ तु निरस्त्रौ बलिनावपि ॥१९५||युग्मम्॥ स्मित्वोचेऽनन्तवीर्योऽपि मा भैषीरयि कातरे! । कतरस्ते पिता सर्वाभिसार्यप्याऽऽर्यसङ्गरे? ॥१९६॥ अन्यो वा पृष्ठतः कोऽपि युयुत्सुर्यः समेष्यति। तं मृत्यु प्रापयिष्याम: प्रिये! निःशङ्कमेहि तत् ।।१९७।। पाइत्युक्ताऽनन्तवीर्येण निजदोर्वीर्यशालिना । प्रतस्थे कनकश्री: श्रीरिव साक्षात् स्वयंवरा ॥१९८॥ अनन्तवीर्योऽप्युद्बाहुः प्रासाद इव सध्वजः । इत्यूचेऽत्युच्चकैर्मेघघोषगम्भीरया गिरा ॥१९९।। भो! भाः सर्वे पुराध्यक्षा:! सेनाधिपतयश्च भोः! । भो! मन्त्रिण:! कुमारा भो! भासामन्ता! भटाश्च भोः! ॥२००॥ अपरेऽपि दमितारेर्ये केचित् पक्षपातिनः । ते सर्वेऽवहितीभूय शृण्वन्तु वचनं मम ॥२०१॥[युग्मम्] असावनन्तवीर्योऽहमपराजितराजितः । दमितारेवुहितरं स्ववेश्मनि नयाम्यमूम् ॥२०२।। अपवादोन दातव्यो नीता चौरिकयेत्यहो! नोपेक्षध्वं निरीक्षध्वं स्वशक्तिं शस्त्रधारिणः ॥२०३।। एवमुद्धोषणां कृत्वा सप्रिय: सापराजितः। वैक्रियेण विमानेनाऽनन्तवीर्यश्चचाल खे॥२०४|| पादमितारिस्तु तच्छ्रुत्वा कोऽसाववनिगोचरः । मर्तुकामस्तपस्वीति वदन्नित्यादिशद्भटान् ॥२०५।। सभ्रातरममुं क्षुद्रं हत्वा धृत्वाऽथवा द्रुतम् । समानयध्वं तनयामस्मिन् फलतु दुर्नयः ॥२०६॥ तेनैवमुक्ताः सुभटा: स्फुटमुटवृत्तयः । अधावन्तोदस्तशस्त्रा उद्दन्ता इव दन्तिनः ॥२०७॥ तदाऽपराजिता-ऽनन्तवीर्ययोर्वीर्यशालिनोः । सीर-शार्ङ्गप्रभृतीनि दिव्यरत्नानि जज्ञिरे ॥२०८॥ दमितारिभटास्ते प्राग नैकशो दमितारयः । पँजहुर्युगपच्छस्त्रैर्धाराभिरिव वारिदाः ॥२०९॥ ततोऽचलितयोः क्रोधात् पुरुषव्याघ्रयोस्तयोः। अनायासरणेनापि त्रेसुस्ते हरिणा इव ॥२१०॥ श्रुत्वा पलायितांस्तांस्तु दमितारिरमर्षणः । अचालीद् गगनं कुर्वन् शस्त्रैर्वनमिवोद्रुमम् ।।२११॥ अरे! युध्यस्व युध्यस्व तिष्ठ तिष्ठाऽऽपताऽऽपत। मुञ्च मुञ्चाऽऽयुधमिदं मरिष्यसि मरिष्यसि ॥२१२॥ एष रक्षामि ते प्राणान् मुञ्चेमां स्वामिकन्यकाम् । इत्यादि सुभटालापान् विकटाटोपभीषणान् ।।२१३॥ आकर्ण्य कर्णकटुकान् कनकश्रीरजायत । आर्यपुत्राऽऽर्यपुत्रेति जल्पन्ती मोहविह्वला ॥२१४॥त्रिभिर्विशेषकम्।। स्माऽऽहेत्यनन्तवीर्यस्तामम्बरे पितॄडम्बरात् । किं मुह्यसि मुधा मुग्धे! मण्डूकरटितादिव? ॥२१५।। दमितारिं ससैन्यं त्वं मैनौकमिव वज्रिणा। त्रास्यमानं मया पश्य हन्यमानमथाऽपि वा ॥२१६।। एवमाश्वास्य कनकश्रियं शार्ङ्गधरो युधि । पञ्चास्यस्तर्जित इव ववले सापराजितः ॥२१७॥ पाकोटिशो वैरिकुट्टीका दमितारेर्महाभटा: । शार्जिणं वेष्टयामासुः प्रदीपं शलभा इव ॥२१८|| ततश्चाऽनन्तवीर्योऽपि स्थैर्यमेरुरमर्षणः । ससर्ज विद्यया सद्यस्तच्चमूद्विगुणां चमूम् ॥२१९॥ १. वृद्धः ॥ २. मम हत्यापापम् ।। ३. भवे ध्रुवम् मु.॥४.भाग्येन ।। ५. जीवनौषधम् ॥६. अयि इति कोमलामन्त्रणे ॥७. सर्वसैन्यसमेतोऽपि अपराजितयुद्धे ॥ ८.प्रापयिष्यामि पा.॥९. बाहू ऊर्वीकृत्य ।।१०.०ऽनुच्चकै० खंता. ॥११. सामन्तभटाश्च भो! मु.॥१२. सावधानीभूय ॥१३. अपराजितेन राजितः सहितः ।।१४. रङ्कः ।।१५. उद्भटा उद्धता वृत्तिर्येषां ते॥१६. शस्त्राण्युदस्यन्तः-उच्छालयन्तः ।। १७. प्रागनेकशो ता. मु. विना ।। १८. प्रहारं चक्रुः ।।१९. ततो वलितयोः सं. छा. पा. ला. ॥२०. उदधिका उच्चा वा द्रुमा यस्मिन् तत्, द्रुमविहीनमित्यर्थः ।। २१. आगच्छाऽऽगच्छ।। २२. आह स्म इत्यन्वयः ।। २३. पितुराडम्बरात् ॥ २४. भेकरुदनमिव ॥ २५. मैनाकनामानं पर्वतम् ।। २६. युधे खंता.,ला. मु. विना ॥ २७. सिंहः ।। २८. वैरिनाशकाः ।। २९. ०मासुरनन्ता शलभा इव सं. ता. पा. ला. खंता. पाता. वा.१-२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org