________________
२२
कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं
तस्यां च नाम्ना स्तिमितसागरो गुणसागरः । दिवाकरः प्रतापेन बभूव वसुधाधवः ॥ १५६॥ जज्ञे महात्मनस्तस्य तनयो विनयैकभूः । ज्येष्ठोऽपराजितो नाम विपक्षैरपराजितः ॥ १५७॥ कनिष्ठोऽनन्तवीर्योऽभूदकनिष्ठोऽमलैर्गुणैः । रूपेण जितकन्दर्पो द्विड्दर्पग्रन्थिदारणः ।। १५८।। स वेदान्यः सत्यसन्धः शरणागतवत्सलः । नागराजायतभुजः शिलापृथुभुजान्तरः ॥ १५९ ॥ वासागारं श्रिय इव भुवोऽप्याधारभूरिव । आश्रिताम्भोजमार्तण्डो दाक्षिण्यक्षीरसागरः ॥१६०॥ कियद्वा वर्ण्यतेऽस्माभिः स महात्माऽल्पबुद्धिभिः । तत्तुल्यो नाऽपरः कोऽपि सुरासुरनरेष्वपि ॥ १६९ ॥ त्रिभिर्विशेषकम्।। कनकश्रीस्तमाकर्ण्य दृष्ट्वेव पुरतः स्थितम् । वाताहतेव सरसी बभूवोत्कलिकावती ॥ १६२॥ रोमाञ्च व्याजतो भिन्ना साक्षात् स्मरशरैरिव । पाञ्चालिकेव निःस्पन्दा सा दध्याविति चेतसि ॥१६३॥ धन्यः स विषयो धन्या सा पूँर्धन्या च सा प्रजा । धन्यः स स्त्रीजनोऽनन्तवीर्यो येषां स नायकः ॥ १६४॥ कुमुद्वतीर्मोदयते दूरस्थोऽपि करैः शशी । शिखण्डिनीस्ताण्डवयत्यम्बरस्थोऽपि वारिदः || १६५॥ उपपन्नमिदं तेषां 'र्हन्त दैवानुकूल्यतः । अनन्तवीर्ये मयि च कीदृग् दैवं भविष्यति? ॥१६६॥ दूरे तस्य पैंतीभावो द्रष्टव्योऽपि कथं नु सः ? । सिद्धौ मनोरथस्याऽस्य सखाऽपि खलु दुर्लभः ॥ १६७॥ चिन्ताप्रपन्नां तामेवं विलोक्य कनकश्रियम् । इङ्गिताकारविदुर एवमूचेऽपराजितः ॥ १६८ ॥ श्रुत्वाऽपराजितस्याऽनुजन्मानं मन्मुखादपि । किं ताम्यसि सशल्येव ? मुग्धे ! किं त्वं (तं) दिदृक्षसे ? ॥ १६९॥ कनकश्रीरश्रुमुखी पद्मिनीव तुषारिणी । दीनदीनैवमवदत् स्वरभेदक्षताक्षरम् ॥ १७० ॥ 'आदित्यं करेणेन्दौ पद्भ्यां जिगमिषा दिवि । दोर्भ्यां तितीर्षा जलधौ दिदृक्षा तत्र मे खलु ॥ १७१ ॥ भाधिनाथः सुभगः स मया मन्दभाग्यया । कथं दृग्गोचरीकार्य : कष्टं को मे मनोरथ: ? ॥ १७२ ॥ ज्येष्ठा पुंनैट्युवाचैवं भद्रे ! तं चेद्दिदृक्षसे । तन्मुग्धेऽलं विषादेन दर्शयाम्यद्य तं तव ॥ १७३॥ विद्याशक्त्याऽनन्तवीर्यं तं च तं चाऽपराजितम् । अत्राऽऽनये वन इव वसन्त-मलयानिलौ ॥१७४॥ कनकश्रीर्बभाषेऽथ सर्वं सम्भवति त्वयि । पारिपार्श्विक्यसि यतस्तयोर्गुणसमुद्रयोः ।।१७५।। मन्येऽनुकूलं मे दैवमेवं यदभिभाषसे । त्वन्मुखेऽवातरन्नूनं काऽपि मे कुलदेवता ॥ १७६ ॥
अतिष्ठाऽऽत्मनो वाचमधुनैव कलावति! । तादृशां परिवारोऽपि मिथ्या न खलु भाषते ॥ १७७॥ ॥अथाऽऽविश्चक्रतुः स्वं स्वं रूपं रूपमनोभवौ । सद्योऽपराजिताऽनन्तवीर्यौ तुष्टाविवाऽमरौ ॥१७८॥ ऊचेऽपराजितो भद्रे! कीर्तितो यो मयाऽद्य सः । मद्भ्राताऽनन्तवीर्योऽयं संर्वेदत्येष वा न हि ? ।।१७९ ।। स्तोकमेव मयाऽऽख्यातमस्य रूपादिवैभवम् । वाचामगोचरस्तत्तु गोचरीकुरु चक्षुषोः ॥ १८० ॥ आवेग-विस्मय-व्रीडा-प्रमोद-मद- चापलैः । तद्दर्शनाद् दमितारिकन्या युगपदानशे ॥ १८९॥ अपराजितपादानां सद्यः श्वशुरमानिनी । उत्तरीयेण नीरेंङ्गी तन्वङ्गी विदधेऽथ सा ॥ १८२॥ || आसीदनन्तवीर्योऽपि स्मरमेघमहोदयात् । रोमाञ्चदन्तुरवपुः कदम्ब इव पुष्पितः ॥१८३॥ उत्सृज्य सहजं मानं मैन्दाक्षं च मृगेक्षणा । स्वयं द्वैतित्वमालम्ब्याऽनन्तवीर्यमदोऽवदत् ॥ १८४।। वैताढ्यपर्वतः क्वऽयं? सा शुभाख्या पुरी क्व च ? । नारदाच्च क्व तातस्य तच्चेटीनाटकश्रुतिः ? ॥१८५॥ युष्मत्पार्श्वे च तातेन तच्चेटीयाचनं क्व च ? । चेटिकारूपधरयोर्युवयोः क्वेह वार्डेऽगतिः ? ॥१८६॥ क्व वा नाटकशिक्षायै युवयोरर्पिताऽस्म्यहम्? । आर्यपुत्र! तवाऽऽर्येण क्व वा त्वद्गुणैकीर्तनम् ? ॥ १८७॥
१. शत्रुभिः ॥ २. दानशीलः । ३. सत्यप्रतिज्ञः ॥ ४. उत्कण्ठिता ॥ ५. पुत्तलिका (पूतलीति भाषायाम्) ।। ६. देश: ।। ७. पुरी ।। ८. कुमुद्वतीं मोद० मु. ॥ ९. मयूरी: ताण्डववती करोति, नर्तयतीत्यर्थः ॥ १०. हितदैवा० पाता. वा. १-२ ॥ ११. पतिभावो मु. ॥। १२. चिन्तां प्रपन्नां मु. ॥ १३. आदातुमिच्छा ।। १४. करेणेन्दोः छा. ॥। १५. ज्येष्ठा तु नट्यु० पाता ।। १६. सेविका ।। १७. पालय ।। १८. रूपेण कामदेवौ ।।१९. संवदत्यथवा ता. पा. खंता., संवदत्यन्यथा छा. दे. । मिलति ।। २०. 'लाज' इति भाषायाम् ॥ २१. लज्जाम् ॥ २२. दूतीत्व० खंता. पाता. वा. १-२ ।। २३. क्वाऽऽर्य! दे. मु. ॥ २४. आगमनम् ।। २५. वर्णनम् ॥
Jain Education International
For Private Personal Use Only
(पञ्चमं पर्व
www.jainelibrary.org