________________
द्वितीयः सर्गः ).
त्रिषष्टिशलाकापुरुषचरितम् ।
'तुन्दिलैर्दन्तुरैः खङ्गैः कुब्जैश्चिपिटनासिकैः । विकीर्णकेशैः 'खल्वाटैः काणैर्व्यङ्गैरथाऽपरैः ॥ १२५॥ अपानघण्टैर्भस्माङ्गैः कक्षा-नासिकवादकैः । कर्ण-भ्रूनर्तकैरन्यजनभाषानुवादकैः ॥ १२६ ॥ विदूषक - विटप्रायैः सद्यः कपटमुग्धकैः । ग्रामीणवदहास्यन्त छेकाः पौरा अपि क्वचित् ॥ १२७॥ त्रिभिर्विशेषकम् ॥ आकाशभाषणैर्दैवोपालम्भैरश्रुमोक्षणैः । अस्थानयाचनैर्भूमिलुठनै रोदनैरपि ॥१२८॥
`भृगुपात-तैरूद्बन्ध-जल-वह्निप्रवेशनैः । विषादिभक्षणैः शस्त्रघातैर्हृत्ताडनैरपि॥१२९॥
ऋद्धिप्रणाशेष्टवधादिजन्मभिरनेकशः । आर्द्रीकृता नृशंसा अप्यमुञ्चन्ताऽश्रु कुत्रचित् ॥१३०॥ त्रिभिर्विशेषकम् ।। दन्तौष्ठपीडनैर्नेत्ररागैर्भृकुटिबन्धनैः । गण्डस्फुरण-हस्ताग्रनिष्पेषैर्भूमिपाटनैः ॥१३१॥
आयुधाकर्षणै रक्ताकर्षणैर्वेगधावनैः । सम्प्रहारैः प्रहारैश्च गात्रकम्पा -ऽश्रुमोक्षणैः ॥१३२॥ दारापहार-भृत्याधिक्षेपप्रभृतिजन्मभिः । क्वाऽपि कम्पमवाप्यन्त नरा धीरतरा अपि ॥१३३॥ त्रिभिर्विशेषकम्।। गाम्भीर्य धैर्य-शौण्डीर्य-वैशारद्यैस्तथाऽपरैः । अवदाततरैस्तैस्तैस्त्यागप्रभृतिभिर्गुणैः ॥१३४॥ द्विवर्तिविक्रम- नयाध्यवसायादिजन्मभिः । निसर्गभीरवोऽप्यासन् सद्यः सञ्जातपौरुषाः ॥ १३५॥ युग्मम्|| तालुकण्ठोष्ठशोषेण चलनेत्रनिरीक्षणैः । करकम्पैः स्वरभेदैर्वैर्वण्र्यैर्ऋजुलेक्षणैः॥१३६॥ प्रेतादिविकृतालोक-तत्स्वरश्रवणादिजैः । अनीयत त्रासदशां क्षणं वाऽपि सभाजनः ॥ १३७॥ युग्मम् || अङ्गसङ्कोच-हँल्लास-नासा-मुखविकूणनैः । निष्ठीवनैरोष्ठदलमोटनप्रमुखैरपि ॥१३८॥ पूँति-वान्ति-व्रण-कृमिप्रेक्षणश्रवणादिजैः । नितान्तमहृणीयन्त क्षणं सामाजिका अपि ॥१३९॥ युग्मम्॥ विस्तारणैर्लोचनानां निर्निमेषनिरीक्षणैः । स्वेदा ऽश्रु-पुलकोद्भेदैः साधुवादादिकैरपि ॥ १४०॥ दिव्यालोकेप्सितप्राप्तीन्द्रजालप्रेक्षणादिजैः । विस्माय्यन्ते स्म सहसा क्वचनाऽपि सभासदः ॥१४९॥युग्मम्॥ मूलोत्तरगुर्णैर्ध्यानैरध्यात्मग्रन्थचिन्तनैः । सद्गुरूपासनैर्देवपूजाद्यैरितरैरपि ॥१४२॥ वैराग्य-संसारभय-तत्त्वज्ञानादिजन्मभिः । शममीयुः क्वचिदपि विषैयास्वादगृध्नवः ॥१४३॥ युग्मम्।। यथा यथाऽभ्यनीयन्त रसाः सर्वे कुशीलवैः । सामाजिकजनः सर्वस्तन्मयोऽभूत् तथा तथा ॥ १४४॥ वाचिकाद्यैरभिनयैर्यथावदु॑पपादितैः । अलक्ष्यन्ताऽभिनेतारोऽप्यभिनेया इवाऽऽगताः ॥१४५॥ तं नाटकविधिं प्रेक्ष्य नृपः प्रेक्षावदग्रणीः । संसाररत्नभूतं तच्चेटीद्वयममन्यत ॥१४६॥
अथ नाटकशिक्षायै मायानट्योस्तयोर्नृपः । पुत्रीं समर्पयामास नामतः कनकश्रियम् ॥ १४७॥ राकाशशाङ्कवदनां त्रैस्यदेणीविलोचनाम् । पक्वबिम्बाधरां कम्बुकण्ठीं बिसलताभुजाम् || १४८।। स्वर्णकुम्भोपमकुचां वज्रमध्यकृशोदरीम् । वापीगम्भीरनाभीकां पुलिनाभकटीतटाम् ॥ १४९॥ करभोरूं मृगीजङ्घां पद्मोपमकरक्रमाम् । लावण्यजलमग्नाङ्गीं मधुरालापशालिनीम् ॥ १५०॥ शिरीषैसुकुमाराङ्गीं कुमारीं प्राप्तयौवनाम् । दृष्ट्वा कपटचेट्यौ ते मधुरालापपूर्वकम् ॥ १५१ ॥ भूयो भूयो दर्शयित्वा शिक्षयामासतुर्भृशम् । तन्नाटकं साभिनयं सर्वं निर्वणावधि ॥ १५२॥ पञ्चभिः कुलकम् । मध्ये मध्ये नाटकस्याऽनन्तवीर्यं महाभुजम् । ते चेट्यौ जगतुः कामं रूप-शौर्यादिभिर्गुणैः ॥ १५३ ॥ कनकश्रीरथाऽपृच्छत् क एष पुरुषोत्तम: ? । हे युवत्यौ ! युवाभ्यां यो गीयतेऽत्र क्षणे क्षणे ॥ १५४॥
॥ अथाऽपराजितो मायाचेटी स्मित्वेदमब्रवीत् । शुभानने! शुभेत्यस्ति विजयेऽस्मिन् महापुरी ॥ १५५ ॥
२१
१. बृहत्कुक्षिभिः ॥ २. अकेशमस्तकैः ॥ ३. विकलाङ्गैः ॥ ४. चतुराः ॥ ५. गिरिशिखरात् पतनम् ॥ ६. पाशबन्धः ।। ७. दन्तोष्ठपीडनैर्नेत्र० ता. दे. छा. पा. ॥ ८. करतलपेषणैः ।। ९. शोणितकर्षणैः ॥ १०. युद्धैः ॥ ११. तिरस्कार ॥। १२. स्थैर्य० खंता. पाता. वा. १-२ ॥ १३. शौर्यम् ॥ १४. पाण्डित्यैः ।। १५. शत्रुवर्त्तिपराक्रमनयाध्यवसायादिजन्मभिः || १६. तालुकण्ठौष्ठशोषेण पा. छा. सं. दे. पाता. ॥ १७. स्वरभेदैर्वैवर्ण्योष्मजलोक्षणै: ता. छा. मु.; • वैवण्यैर्नृजुलो क्षणैः खंता.; ० वैवण्यैर्नृजलोक्षणैः पाता. वा. १-२ ॥ १८. निस्तेजोभिः || १९. हृदयस्य खेदः । २०. दुर्गन्धिः ॥ २१. नितान्तमघृणीयन्त मु.; नितान्तमगर्हणीयन्त ला; घृणामन्वभूवन् ॥ २२. गुणध्यानै० मु. ॥२३. विषयास्वादलोलुपाः ॥ २४. नटैः ।। २५. ०दुपपातितै: मु. ॥ २६. बुद्धिमत्सु अग्रणीः ।। २७. मायाचेट्योस्त० पा. दे. मु. ॥ २८. त्रस्यन्ती या मृगी तत्सदृशे लोचने यस्याः सा ।। २९. शिरीषसुकुमारां तां खंता. पाता. वा. १ - २, दे. मु. विना च ॥ ३०. निर्वहणः नाटकस्य सन्धिः स अवधिर्यस्मिन् ॥
For Private Personal Use Only
Jain Education International
www.jainelibrary.org