________________
२० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व तडित्तेज:समोद्योता नानालङ्कारभूषिताः। विचित्रदिव्यवसना जजल्पुः प्राञ्जलीति ताः॥९३।। ता एता: स्मो वयं विद्या या: सिषाधयिषू युवाम् । पूर्वजन्मनि सिद्धत्वादिदानीमप्युपस्थिताः ॥१४॥ युष्मद्वपुषि सङ्क्रान्तिं मन्त्रास्त्र इव देवताः । करिष्यामो महाभागौ! समादिशतमद्य नः ॥९५।। एवमस्त्विति तद्वाचा तदात्मत्वं तदङ्गयोः । विद्या. प्रपेदिरे पूर्वापराब्ध्योरिव निम्नगाः॥९६।। निसर्गतोऽपि बलिनौ विद्यासिद्ध्या तया पुन: । तावभूतामभ्यधिकं सिंहौ संवर्मिताविव ॥१७॥ पूजां तासां च विद्यानां गन्धैर्माल्यैर्मनोरमैः । चक्रतुस्तौ न लङ्घन्ते पूज्यपूजां विवेकिनः॥९८॥ अत्राऽन्तरे पुनर्दूतो निर्दिष्टो दमितारिणा । वेगादुपेत्य साक्षेपं पर्यभाषिष्ट ताविति ॥१९॥ भो भो! युवाभ्यां युवभ्यां खंगिभ्यामिव सम्प्रति। अज्ञानत्वात् समारब्धः कोऽयं स्वामिनि विप्लव:? ॥१०॥ चेटिके प्रेषयिष्याव इत्युक्त्वा प्रेषिते न यत् । मुमूर्षु किं युवां मूर्जी! ? ज्ञात: सोऽमर्षणो न किम्? ॥१०॥ कृत्याद्वयमिदं वां हि चेटिव्याजादुपस्थितम् । समूलौ वामनुन्मूल्य मन्ये न खलु यास्यति ॥१०२।। मा युवां बहुदौ भूतं दत्तमद्यैव चेटिके । ग्रहीष्यत्यन्यथा स्वामी ते च राज्यश्रियं च वाम् ॥१०३।। गूढकोप: प्रभविष्णुरपि विष्णुस्तत: सुधीः । स्मितज्योत्स्नास्तबकिताधर: सौम्नेत्युवाच तम् ॥१०४॥ रत्नैर्महा(विणैः प्रचुरैः कुञ्जरैर्हयैः । प्राभृतीकृत्य सन्तोष्यो दमितारिनरेश्वरः ॥१०५॥ दमितारिः स चेदाभ्यां चेटीभ्यामपि तुष्यति । ते गृहीत्वा तदद्यैव गच्छ त्वमपरेऽहनि ॥१०६।। इत्युक्तो विष्णुना दत्तावासे दूतो जगाम स: । मन्यमानो दूत्यकलां कृतकृत्यामिवाऽऽत्मनः ॥१०७।। पागृहभारमिव स्तम्भेष्वनोभारमिवोक्षसु। आरोपयामासतुस्तौ राज्यभारं स्वमन्त्रिषु ॥१०८॥ कीदृक्षो दमितारि:? स द्रष्टव्य इति कौतुकात् । तौ विद्यया बर्बरिका-किरीत्यभवतां ततः ॥१०९॥ अद्याऽपराजिता-ऽनन्तवीर्याभ्यां दमितारये। प्रहिते स्व इति गत्वा पुंश्चेट्यौ दूतमूचतुः॥११०॥ चेटिकाभ्यां समं ताभ्यां दूत: प्रमुदितो ययौ । उपेत्य वैताढ्यगिरौ दमितारिं व्यजिज्ञपत् ॥१११।। असुराश्चमरस्येव शक्रस्येव दिवौकसः । पन्नगा धरणस्येव गरुडस्येव पक्षिण: ॥११२॥ रमणीग्रस्य विजयस्याऽर्धेऽत्र वसुधाभुजः । न लश्यन्ति भवत: शासनं दुष्टशासन! ॥११३॥ग्मम्।। विशेषतोऽपराजिता-ऽनन्तवीरों नतौ त्वयि । सदा धत्तस्तवैवाज्ञां किरीटमिव मूर्धनि ॥११४॥ इमे च ते बर्बरिका-किरात्यौ नाम चेटिके। नटीरत्ने प्राभृते ते ताभ्यां सद्यो ममाऽर्पिते ॥११५॥ दमितारिश्च ते चेट्यावपश्यत् सौम्यया दृशा । गुण: श्रुतो जनश्रुत्याऽप्यनुरागाय तद्विदाम् ॥११६।। दमितारिरथाऽऽदिक्षन्नाटकाभिनयाय-ते। अपूर्वस्य दिदृक्षा हि कालक्षेपं क्षमेत न ॥११७।। पाततश्च ते नटीपात्रे रङ्गे विविशतुः क्षणात् । प्रत्याहारादिकैरङ्गैः पूर्वरङ्गं च चक्रतुः ॥११८॥ रङ्गाचार्यो रङ्गपूजां कुसुमाञ्जलिभिर्व्यधात् । यथादिशं न्यषीदच्च गोयन्यादिपरिच्छदः ॥११९॥ नान्दीपाठं नटश्चक्रे नान्दीवादनपूर्वकम् । प्रस्तावनामङ्गयुक्तां नान्द्यन्तेऽभिनिनाय च ॥१२०॥ विचित्रनेपथ्यधरो नेपथ्ये गायनीजनः । जगौ च जातिरागाढ्यां पात्रप्रावेशिकी ध्रुवाम् ॥१२१॥ प्रकृत्यवस्था-सन्ध्यङ्गसन्धिसम्बन्धबन्धुरम् । प्रचक्रमेऽथाऽभिनेतुं नाटकं रससागरम् ।।१२२॥ सम्प्रयोगैरथैकान्तसुखपीयूषसिन्धुभिः । विप्रयोगैरपि तत्तद्दुःखावस्थानिबन्धनैः॥१२३॥ तत्तत्सङ्घर्टेनोपायैरपायपरिहारत: । क्वाऽप्यभूत् स्मरसाम्राज्यसन्धिविग्रहकल्पनम् ॥१२४॥युग्मम् ॥ १. साधयितुमिच्छू ॥२. सिद्धास्तदिदानी० मु.॥३. यथा मन्त्रास्त्रे देवता: सङ्क्रमणं कुर्वन्ति तथा ॥४. नद्यः।।५. वर्मणा-कवचेन सम्बद्धौ ।। ६. सतिरस्कार यथा तथा ॥७. युवभ्यां युवाभ्यां पाता., खड्गिभ्यां खड्गिभ्यामिव दे. ।। ८. गण्डक: 'गेण्डो' इति भाषायाम् ॥ ९. अवमानः ।। १०. रुष्टः ।। ११. राक्षसी ॥१२. भूतां० खंता. पाता. वा.१-२॥१३. चेट्यौ ।। १४. समर्थोऽपि ॥१५. सामवाक्येन ॥ १६. धनैः ।। १७. दत्तावासो दे. ॥१८. दूतकलां दे. मु. ॥१९. वृषभेषु शकटभारमिव ।। २०. सुमन्त्रिषु दे. मु. ॥ २१. बर्बरिका च किराती च बर्बरिकाकिरात्यौ अबर्बरिकाकिरात्यौ बर्बरिका-किरात्यौ अभवतामिति बर्बरिकाकिरात्यभवताम् ॥ २२. स्त इति मुं. ॥२३. धरणेन्द्रस्य ।। २४. खंता. पाता. वा.१-२ प्रतिषु नास्ति ।। २५. रङ्गभूमौ ॥ २६. गायिकादिपरिवारः ॥ २७. जातिरागाद्यां पात्रप्रावेशिकां दे. ता. छा. मु.॥ २८. गीतिम् ।। २९. सबटनोपायै० खंता. पाता. वा.१-२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org