________________
द्वितीय: सर्ग:)
त्रिषष्टिशलाकापुरुषचरितम् । 'राम-विष्णू बर्बरिका-किरातीनाटकेक्षणे। व्याक्षिप्तमनसौ तं च नाऽसभाजयतामृषिम् ॥६१॥ पाकुपितो नारदोऽप्येवं चिन्तयामास चेतसि । मामप्यभ्यागतं नाऽभ्युदस्थातां दुर्मदाविमौ ॥६२॥ नाटकं बह्वमंसातामाश्चेटीमात्रयोरिमे। आयातमितरजनवन् मां पुन: पश्यतोऽपि न ॥६३॥ प्रेष्ठचेटिकयोश्चेटप्रष्ठयोरिव तद् द्रुतम् । अवज्ञाया: फलमहं दर्शयिष्यामि सम्प्रति ॥६४॥ चिन्तयित्वेति सहसा नारदः पवमानवत् ।। जगाम वैताढ्यगिरौ दमितारिनृपान्तिके ॥६५॥ विद्याधरेन्द्रो दमितारिरपीन्द्र इव श्रिया। विद्याधरधराधीशैः शतश: परिवारितः ॥६६।। सिंहासनं पादुके च त्यक्त्वा सद्य: ससम्भ्रमः । अभ्युत्तस्थौ समायाते नारदे दूरतोऽपि हि ॥६७॥[युग्मम्] तत्तु सिंहासनं तस्मै दमितारिरदापयत् । प्रतिपत्तिस्तादृशानामृषीणां कियतीयती ? ॥६८॥ तत्तु सिंहासनं त्यक्त्वा स्ववृष्यां स उपाविशत्। भक्तिमेव हि काङ्क्षन्ति न हि वस्तूनि तादृशाः ॥६९॥ तं नारदो जगादेवं त्रिखण्डविजयेश्वर! । विद्याधराधिनाथाय स्वस्ति तुभ्यं महौजसे ॥७०॥ राज्ये राष्ट्रे पुरे गोत्रे सम्बन्धिषु परिग्रहे। अन्यत्रापि भवद्गृह्ये सर्वत्र कुशलं नृप! ? ॥७१॥ दमितारिरदोऽवादीत् सर्वत्र कुशलं मम। विशेषतोऽतः परं तु मुने! भवदनुग्रहात् ॥७२॥ भवन्तं किं तु पृच्छामि स्वच्छन्दं व्योमयायिना। अदृष्टपूर्वं किं दृष्टमाश्चर्यं भवता क्वचित्? ॥७३॥ सिद्धो मनोरथो मेऽसौ चिन्तयन्निति नारदः । हर्षोत्फुल्लकपोलाक्षो दमितारिमदोऽवदत् ॥७४। अद्यैव दृष्टमस्माभिः सुरलोकेऽप्यसम्भवि। आश्चर्यमेकं धरणीपरिभ्रमणजं फलम् ।।७५।।
शुभाऽऽख्यायां महापुर्यां क्रीडयाऽद्य गतोऽस्म्यहम् । आस्थानस्थमपश्यं चाऽनन्तवीर्य महीपतिम् ॥७६॥ तस्याऽग्रतो बर्बरिका-किरातीभ्यां च नाटकम। तत्राऽभिनीयमानं स्म पश्याम्याश्चर्यकारणम् ॥७७॥ . उभौ लोकौ सञ्चरामि द्यां भुवं च कुतूहलात् । न च क्वचिन् मया दृष्टमीदृग्नाटकमद्भुतम् ।। ७८॥ शक्रो यथा हि सौधर्मे विजयार्धेऽत्र भूपते!। आश्चर्यभूतवस्तूनां तथा त्वमसि भाजनम्॥७९।। किं विद्याभि:? किमोजोभि:? किं तेजोभि:? किमाज्ञया? । किंराज्येन? न यद्यत्र तदानयसि नाटकम् ॥८०॥ इत्युक्त्वा नारदमुनिरुप्तबीज इवाऽवनौ । तत्र स्वार्थं सङ्क्रमय्य नभसा रभसा ययौ ॥८१॥ पत्रिखण्डविजयैश्वर्यगर्वित: प्राहिणोदथ । दमितारिनृपो दूतमपराजितबन्धवे ॥८२॥ शुभाख्यां स पुरीं गत्वाऽनन्तवीर्यं सहाग्रजम् । नमस्कृत्येत्यभाषिष्ट विशिष्टवचनक्रमः ॥८३॥ विजयार्धेऽत्र यत्किञ्चिदद्भुतं वस्तु जायते। तत्सर्वं राजराजस्य दमितारेरसंशयम् ।।८४।। उभे नाटककारिण्यौ प्रसिद्ध तव चेटिके। बर्बरी च किराती च प्रेष्येतां दमितारये ॥८५॥ स्वाधीनं तस्य चेट्यादि सर्वराज्यस्य य: पति: । दीयमाने हि सदने किं भवत्यश्वक: पृथक्? ॥८६।। जगादाऽनन्तवीर्योऽपि गच्छ त्वं दूत! सम्प्रति। आलोच्य किञ्चिदचिरात् प्रेषयिष्यामि चेटिके ॥८७।। इत्युक्तो विष्णुना दूतो मुदितोऽभ्येत्य सत्वरम् । प्रयोजनं कृतप्रायं शशंस दमितारये ॥८८|| कुण्डाविव च्छन्नवही गूढामर्षावितश्च तौ। मन्त्रयामासतुरुभावपराजित-शाङ्गिणौ ॥८९॥ अस्मानाकाशयानेन विद्यासिद्धिबलेन च । एवमाज्ञापयति स नाऽस्मत् तस्याऽधिकं परम् ॥१०॥ विद्याधरेण सुहृदा विद्या दत्ता: पुरा हि या:। साम्प्रतं साधयावस्तास्तत: को नौ तपस्व्यसौ? ॥९१॥ इत्यचिन्तयतां यावदुभौ तौ भ्रातरौ रहः । प्रज्ञप्त्याद्यास्तावदागुर्विद्या: सङ्केतिता इव ॥१२॥ १. अपराजिताऽनन्तवीर्यो ।। २. सत्कारं नाऽकुरुताम् ; नाउसम्भाषयतामृषिम् खंता. ॥ ३. नैवाभ्युदस्थातां मदादिमौ दे. छा. मु. ॥ ४. आयात हीनजनवत् ला. छा. मु.॥५. प्रेष्ठे अतिप्रिये चेट्यौ दास्यौ ययोः ॥ ६. दासाग्रेसरयोः ॥७. पवन इव ।। ८. स्वश्रिया मु.॥९. तत्र ता. विना ।। १०. तत्र ता. छा. दे. मु.॥११. भवत्पक्षे॥१२. हर्षेण उत्फुल्लो कपोलौ अक्षिणी च यस्य॥१३. भूमि सं. मु. ॥१४. इत्युदित्वा मु.॥१५. उप्तं बीजं कलिरूपं येन ।। १६. नमश्चक्रे चाभाषिष्ट ता. दे. मु. ।। १७. प्रेष्यतां खंता. पाता. वा.१-२ विना ।। १८. •तुरपराजितानन्तशक्तिको सं. ता. पा. ला. खंता. पाता. वा.१-२॥१९. रहसि-एकान्ते । २०. कृतसङ्केता इव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org