________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व
पद्मात् पद्मे हंस इव सोऽङ्कादके दिवानिशम् । धात्रीणां सञ्चरन् वृद्धिमाससाद शनैः शनैः ॥३१॥ स वर्धिष्णुः क्रमाद् भ्रात्रा ज्यायसा सवया इव । रमणीयाकृती रेमे रमणीजनवीक्षित: ॥३२॥ श्वेतश्यामशरीरौ तौ भेजाते भ्रातरावुभौ । एकत्र मिलितौ दैवात् शरत्प्रावृधनाविव ॥३३॥ लीलयैव हि शास्त्राणि तौ सर्वायधिजग्मतुः। विद्या हि प्राग्भवाभ्यस्ता स्वयमायान्ति तादृशाम् ॥३४॥ अभ्यस्यतः स्म शस्त्राणि तथा तौ गुरुसन्निधौ । यथोपजीव्यविज्ञानौ गुरोरपि बभूवतुः ॥३५॥ मन्त्र-तन्त्रादिरहितं कामिनीजनकार्मणम् । प्रपेदाते यौवनं तौ श्रियो वासगृहोपमौ ॥३६॥
अन्येद्युश्चाऽऽययौ तत्र मुनिर्नाम्ना स्वयम्प्रभः । नानातिशयसम्पन्नस्तस्थौ चोपवने क्वचित् ॥३७।। इतश्च निर्ययौ पुर्या राजा स्तिमितसागरः । वाहान् वाहयितुं वाहकेल्यां तत्केलिकोविदः ॥३८॥ अशूकलान् शूकलांश्च वाहयित्वा तुरङ्गमान् । स वाहकेलिरेवन्त: श्रान्तस्तद्वनमभ्यगात् ॥३९।। विश्रान्तजीमूतमिव बहुलैस्तरुणांहिपैः । कुल्याभिर्निर्झरोगारिगिरिप्रस्थानुहारकम् ॥४०॥ तालवृन्तधरमिवाऽध्वगानां कदलीदलैः । सर्वत्र शाद्वलोभकं बद्धं मरकतैरिव ॥४१॥ एला-लवङ्ग-कक्कोल-लवलीगन्धवाहिभिः । मरुद्भिः कृतसैरन्ध्रीकर्मकं शर्महारिभिः ॥४२॥ प्रविवेश तदुद्यानं भूमिष्ठमिव नन्दनम् । राजा प्रेमोदस्तिमितेक्षण: स्तिमितसागरः ।४३॥चतुर्भि: कलापकम्।। स व्यश्राम्यत् क्षणं यावदपश्यत् तावदग्रतः । अशोकमूले ध्यानस्थं तं मुनि प्रतिमाधरम् ॥४४॥ भक्तयोल्लसितरोमाञ्चोऽतिशैत्यादिव तत्क्षणम् । तं प्रदक्षिणयामास ववन्दे च मुनिं नृपः॥४५।। पारयित्वा मुनिर्व्यानं धर्मलाभाशिषं ददौ । स्वकार्यमारब्धमपि सन्तोऽन्यार्थे त्यजन्ति हि ॥४६॥ ततः स्वयम्प्रभमुनिर्विदधे धर्मदेशनाम् । तैस्तैर्निदर्शनैः श्रोतुः प्रत्यक्षानुभवामिव ॥४७॥ श्रुत्वा तां देशनां राजा प्रतिबुद्धः क्षणादपि । धाम्नि गत्वाऽनन्तवीर्यं निजराज्ये न्यवीविशत् ॥४८॥ कृतनिष्क्रमणोऽनन्तवीर्येण च बलेन च । उपस्वयम्प्रभं पर्यव्राजीत् स्तिमितसागरः ॥४९।। परीषहान् सहमानो महात्मा दुःसहानपि । स सम्यक् पालयामास मूलोत्तरगुणांश्चिरम् ॥५०॥ पर्यन्तकाले मनसा श्रीमण्यं स विराद्धवान् । विपद्य च समुत्पेदे चमरेन्द्रोऽसुराधिपः ॥५१॥
अनन्तवीर्योऽप्यशिषन् मेदिनीं सौपराजितः । निःसीमपौरुषधन: सुरैरप्यपराजितः ॥५२॥ अन्येद्युः केनचिद् विद्याधरेण समभूत् तयोः । मैत्री पवित्रा संसर्गः सद्भिरेव सतां यतः॥५३।। ताभ्यां सोऽथ महाविद्यां विद्याधरवरो ददौ । साधयेथामिति चोपदिश्य वैताढ्यमभ्यगात् ॥५४।। बर्बरीति किरातीति नाम्नोभे चेटिके तयोः । अभूतां गीतनाट्यादिकलाकौशलशोभिते ॥५५।। गायन्त्यावथ नृत्यन्त्यौ रम्भादिभ्योऽपि शोभनम् । रञ्जयामासतुश्चित्तं ते विष्णु-बलभद्रयोः ॥५६।।
आस्थानीमन्यदाऽऽस्थाय तालाङ्क-गरुडध्वजौ । प्रावर्तेतां कारयितुं ताभ्यां नाटकमुत्तमम् ॥५७।। तदानीं च चलँच्चूलो वृषीपाणि-स्त्रिदण्डभृत् । साक्षसूत्र-ब्रह्मसूत्र: कौपीनी पीनकुक्षिकः ॥५८॥ श्वेतवर्णो राजहंस इव यायी विहायसा। सौवर्णपादुकान्यस्तपादो धृतकमण्डलुः ॥५९॥ सञ्चरन्नखिले लोके कलहालोककौतुकी। आस्थान्यामाययौ तस्यां नारदोऽस्थैर्यपारदः ॥६०॥त्रिभिर्विशेषकम्॥ १.सोऽहवादळे० खंता. वा.१-२॥२. शरद्धन-प्रावृधना० छा. दे. मु.॥३. प्रापतुः ॥ ४. शास्त्राणि पा. विना ।। ५. गुरोरपि उपजीव्यं ज्ञानं ययोस्तौ ॥ ६.मुनि म मु.॥७.ज्ञानातिशयस सं.॥८.अश्वान् ।।९.विपरीतान् ।।१०.अश्वक्रीडायां रेवन्त: सूर्यपुत्र इव ॥११. विश्रान्ता जीमूता मेघा यस्मिंस्तदिव ॥ १२.बहलैस्तरु० खंता.पाता. सं. ता. पा. ॥१३. निर्झरोद्गारवद् गिरिखस्थं गिरिशिखरमनुहरति इति ॥१४. व्यजनम् ॥१५. शाद्वला हरिततृणवती उर्वी यस्य तत् ।। १६.० लवलीक्षोदवाहिभिः सं. ता. ला. पा. ॥ १७. कृतं सैरन्ध्या: दास्या: कर्म यस्य तत् ।।१८. श्रियो वासगृहोपमम् पा. ॥१९. प्रमोदेन स्तिमिते निश्चले ईक्षणे नेत्रे यस्य सः ॥ २०. 'पञ्चभिः कुलकम् ' खंता. पाता. वा.१-२॥ २१. अपराजितेन ॥ २२. गत्वा पर्यव्राजीनरेश्वरः छा. दे. मु. ॥ २३. सहमानोऽति-महादुःस० मु.॥ २४.चारित्रम् ।। २५. अपराजितेन भ्रात्रा सहितः ॥ २६. अनन्तवीर्यापराजितयोः, बलाऽनन्तवीर्ययोः छा. दे. मु. ।। २७. अपराजिता-ऽनन्तवीर्यो ।। २८. चलच्छिखः ।। २९. ऋषीणामासनं वृषी ।। ३०. जपमालोपवीतसहितः ॥ ३१. गुह्याच्छादनवस्त्रखण्डवान् ॥ ३२. श्वेतवस्त्रो पा. ॥ ३३. सभायाम् ॥३४. तस्य खंता. ता. ला. पा. ॥ ३५. अस्थिरतायां पारद इव चञ्चल इति यावत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org