________________
द्वितीय: सर्गः॥
इतश्च जम्बूद्वीपेऽस्मिन् प्राग्विदेहविभूषणे । विजये रमणीयाख्ये 'सीताया दक्षिणे तटे ॥१॥ शुभव्यूहकरी भूमेः शुभा च परमर्द्धिभिः । शुभाभिधाऽस्ति नगरी शुभलक्ष्मीनिकेतनम् ॥२॥ स्थैर्येणाऽत्यमरगिरिर्गाम्भीर्येणाऽतिसागरः । तस्यामासीन्नरपति म्ना स्तिमितसागरः ॥३॥ तस्याऽभूतामभिभूताप्सर:सौभाग्यसम्पदौ । वसुन्धराऽनुद्धरा च पत्न्यौ शीलधुरन्धरे ॥४॥ च्युत्वा च नन्दितावर्तात् स जीवोऽमिततेजसः । श्रीमद्वसुन्धरादेव्या उदरे समवातरत् ।।५।। चतुरश्च महास्वप्नान् सुखसुप्ता वसुन्धरा । स्वमुखे विशतोऽद्राक्षीद् बलजन्माभिसूचकान् ॥६॥ तदैव परमानन्दजनिताभिभवादिव । दूरं गतायां निद्रायां राज्ञी राज्ञे व्यजिज्ञपत् ।।७।। दन्तावलश्चतुर्दन्त: स्फटिकाद्रिनिभो मया । दृष्टो विशन् स्ववक्त्रान्तरभ्रान्तरिव चन्द्रमा: ॥८॥ शरदभ्रमिवावर्त्य निर्मितो निर्मलद्युतिः। ककुद्यानुच्चककुदोऽथ गर्जनृजुवालधिः ॥९॥ निशाकर: कराङ्करैर्दूरदूरं प्रसारिभिः । कर्णावतंसरचनां चिन्वन्निव दिशामथ ॥१०॥ ततश्च पद्यैरुन्निद्रैर्म गुञ्जन्मधुव्रतैः । पूर्णं सर: शतमुखीभूय गायदिवोच्चकैः ॥११॥ स्वामिन्नमीषां स्वप्नानां फलं किमिति शंस मे । प्रष्टुमर्हो न सामान्यजनो हि स्वप्नमुत्तमम् ॥१२॥ राजाऽपि व्याजहाराथ देवि! देव इव श्रिया। लोकोत्तरबलो भावी बलभद्रस्तवाऽऽत्मजः॥१३॥ निधानं रत्नगर्भेव मुक्तां वंशलतेव च । तं गर्भ धारयामास ततो देवी वसुन्धरा ॥१४॥ .. श्रीवत्साकं श्वेतवर्णं पूर्णावयवलक्षणम् । समये सुषुवे सूनुं महादेवी वसुन्धरा ॥१५॥ पुत्रस्य जन्मना तेन राजा स्तिमितसागरः । मुमुदे पार्वर्णस्येन्दोरुदयेनेव सागरः ॥१६॥ दिवसे द्वादशे प्राप्ते द्वादशादित्यतेजस: । अपराजित इत्याख्या तस्य सूनोळधात् पिता ॥१७॥ पश्यंश्चम्बन् समाश्लिष्यन्नके चाऽऽरोपयन् सुतम् । न व्यरंसीन्नृपो जातु प्राप्तं धनमिवाऽधनः॥१८॥ पाइतश्च सुस्थिताव"ज्जीव: श्रीविजयस्य तु। प्रच्युत्याऽनुद्धरादेव्या: कुक्षाववततार सः॥१९॥ शयानया निशाशेषे विशन्तो वदने निजे । देव्याऽनुद्धरया सप्त स्वप्ना ददृशिरे तदा ॥२०॥ तत्राऽऽदौ केशरियुवा कुङ्कुमारुणकेसरः । इन्दुलेखानिभनखश्चमरोपमवालधिः ॥२१॥ कुञ्जराभ्यां पूर्णकुम्भहस्ताभ्यां क्षीरवारिभिः। क्रियमाणाभिषेका च पद्मा पद्मासनस्थिता ॥२२॥ ध्वंसमानो महाध्वान्तं दोषाऽपि जनयन्नहः । उद्दण्डतेज:प्रसरस्त्विषामधिपँतिस्ततः ॥२३॥ स्वच्छस्वादुपय:पूर्णः पुण्डरीकार्चिताननः । सुवर्णघंटित: पुष्पमाली कुम्भस्ततोऽपि च ॥२४॥ नानाजलचराकीर्णो रत्नसम्भारभासुरः । गगनोदञ्चिकल्लोलस्तत: कल्लोलिनीतिः ॥२५॥ पञ्चवर्णमणिज्योति:प्रसरैर्गगनाङ्गणे । विञ्चितेन्द्रचापश्री रत्नानां सञ्चयस्तत:॥२६॥ धर्मध्वजश्च निधूमो ज्वालापल्लविताम्बरः। दृशो: सुखकरालोकः सप्तमश्चेति सप्त ते ॥२७॥ सुप्तोत्थिता च सा देवी स्वप्नान् पत्ये शशंस तान् । विष्णुस्ते तनयो भावीत्याख्यत् स्वप्नफलं च सः ॥२८॥ समये सुषुवे साऽथ तनयं नयनोत्सवम् । नीलोत्पलदलश्यामं देवी द्यौरिव वारिदम् ॥२९॥ अनन्तवीर्य इत्याख्यां महावीर्यस्य भूपति: । महोत्सवेन विदधेऽनुद्धरातनुजन्मनः ॥३०॥ १.शीताया मुप्र.॥२.अमरगिरि मेरुमतिक्रान्तः ॥ ३. सागरमतिक्रान्तः;र्येणाथ सागर: दे. मु.॥४. गजः ॥५. मेघान्तः ।। ६. वृषभः ।।७. सरलपुच्छः ।। ८. दूर दूर खंता. पाता. वा. १-२ ॥९. पूर्णसर: खंता. ॥१० दिवि पाता. वा.१-२॥११. चिह्नम् ।। १२. पूर्णिमासम्बन्धिनश्चन्द्रस्य ।। १३. द्वादशानां आदित्यानां तेजो यस्मिन् स: - तस्य ॥ १४. उत्सङ्गे ॥ १५. केसरियुवा खंता. ॥ १६. वालधिः पुच्छम् ॥ १७. रात्रिमपि ॥ १८. सूर्यः ॥ १९. सुवर्णपण्टिक: छा. दे. ॥२०. पुष्पाणां मालाः सन्ति अस्य सः ।।२१. समुद्रः ॥२२. विस्तारिता इन्द्रधनुष: शोभा येन सः ॥२३. अग्निः ।।२४. ज्वालाभिः पल्लवितमङ्कुरितमम्बरं येन सः ।। २५. भावीत्याख्यात् मु. ॥ २६. महावीर्यश्च ला. ॥
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org