________________
१६
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं
दृश्यमान 'शिराजालमुद्वेलमिव सागरम् । 'जीर्णवंशकटमिव किटत्किटितसन्धिकम् ||४६६॥ व्यक्तपर्शुमपि क्षामकुक्षिमप्यबिभीषणम् । दीप्यमानं तपस्तेजः सम्पदा निरवद्यया ॥४६७॥ मासक्षपणकं कञ्चिन्मुनिं भिक्षार्थमागतम् । धर्मादर्शं ददर्शेकं प्रियैकजिनदर्शनः ॥ ४६८ ॥ पञ्चभिः कुलकम् || अभ्युत्थायाऽमिततेजाः कृत्वा च त्रिः प्रदक्षिणम् । वन्दित्वा शुद्धैरन्नाद्यैस्तं मुनिं प्रत्यलाभयत् ॥ ४६९ ।। तदा च तत्र सत्पात्रान्नादिदानप्रभावतः । वसुधाराप्रभृतीनि पञ्च दिव्यानि जज्ञिरे ||४७०॥ धर्म्यया चेष्टयैवं श्रीविजया ऽमिततेजसोः । जग्मुर्वर्षसहस्राणि भूयांसि सुखमनयोः || ४७१ || ||अन्यदा नन्दनवने वन्दितुं शाश्वतार्हतः । सम्भूयाऽमिततेजः -श्रीविजयावीयतुर्नृपौ ॥४७२॥ शाश्वतार्हद्वन्दनां तौ कृत्वा यावत् कुतूहलात् । भ्रान्त्वा निरीक्षाञ्चक्राते नन्दनोद्यानभूमिकाम् ॥ ४७३॥ तावद् ददृशतुः स्वर्णशिलास्थौ चारणोत्तमौ । महर्षी विपुलमति- महामत्यभिधानकौ ॥४७४॥ मुनी प्रदक्षिणीकृत्य वन्दित्वा च नृपोत्तमौ । श्राद्धौ शुश्रुवतुर्धर्मदेशनां पुरतस्तयोः ॥ ४७५॥ 'सदा सेविधवर्त्येव मृत्युस्तेनेह देहिनाम् । पशूनां सौनिकगृहेष्विव स्याज्जीवितं कियत् ? ॥४७६ ॥ क्षणिकं क्षणिकावत् तज्जानन्तोऽपि न कुर्वते । धर्मोद्यमं मानवा यत् तदहो! मोहजृम्भितम् ॥४७७|| मोहः खलु महाशत्रुर्जन्मतो मरणावधि । आत्मनीनं नृणां धर्मं मूलादपि निकृन्तति ॥४७८।। हित्वा मोहं सर्वथा तन्मर्त्यजन्मफलेच्छया । कार्यो धर्मः कथञ्चिद्धि भूयः स्याज्जन्म मानुषम् ' ॥४७९ ॥ इत्याकर्ण्य स्वमायुस्ताववशिष्टमपृच्छताम् । षड्विंशतिं दिनान्यायुः शेषं चाऽऽचख्यतुर्मुनी ॥४८०॥ अमोघं तद्वचो ज्ञात्वा नर- विद्याधरेश्वरौ । महानुतापनिर्वेदगर्भमेवमथोचतुः ॥ ४८१ ॥ सदा निद्रालुभिरिव सदाऽऽपीतमदैरिव । सदा बाल्यवद्भिरिव सदा मूंछ गतैरिव ॥ ४८२॥ सदाऽपस्मारिभिरिव हहाऽस्माभिः प्रमादिभिः । विफलं क्षपितं जन्माऽरण्यजातीप्रसूनवत् ॥४८३॥ युग्मम्॥ ||अथ तौ चारणमुनी प्रत्यबोधयतामिति । विषादेनाऽलमद्याऽपि प्रव्रज्या युज्यते हि वाम् ॥४८४॥ अन्तेऽप्यात्ता परिव्रज्या शुभव्रज्यानिबन्धनम् । कौमुदी हि निशान्तेऽपि कुमुदामोदकारणम् ||४८५॥ एवं ताभ्यां बोधितौ श्रीविजया ऽमिततेजसा । उपेयतुर्निर्जनिजं हर्म्यं धर्म्यक्रियोत्सुकौ ॥४८६॥ तत्र चैत्येषु चक्राते परमष्टाहिकोत्सवम् । दीना - ऽनाथादिजन्तूनां ददतुश्च यथारुचि ॥४८७|| राज्यं स्वपुत्रयोर्न्यस्योपाददाते नरेश्वरौ । ततोऽभिनन्दन- जैगन्नन्दनर्थो: पुरो व्रतम् ॥४८८॥ पादपोपगमं नामाऽनशनं तौ च चक्रतुः । तदानीं च श्रीविजयः सस्मार पितरं निजम् ॥ ४८९ ॥ तदृद्धिमधिकां स्वां तु ऋद्धिं हीनां विचिन्त्य च । भूयासं तादृगेवाऽहं निदानमिति सोऽकरोत् ॥४९०॥ कृता - Sकृतनिदानौ श्रीविजया -ऽमिततेजसा । विपद्य प्राणते कल्पे बभूवतुरथाऽमरौ ॥ ४९९ ॥ विमाने सुस्थितावर्ते नन्दितावर्तके च तौ । मणिर्चूल - दिव्यचूलनामानौ तस्थतुः सुखम् ।।४९२।। अमरौ रतिसागरावगाढावायुर्विंशतिसागरोपमीं तौ ।
I
1
I
अतिवाहयतः स्म सौख्यमग्नौ मनसा सिद्धसमीहितार्थलाभौ ॥४९३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्रीशान्तिनाथदेवस्य श्रीषेणादिभैवपञ्चकवर्णनो नाम प्रथमः सर्गः ॥
卐
१. स्नायुसमूहः ॥ २. जीर्णवंशसमूह इव ॥ ३. किटत् किटिता एवं ध्वनिं कुर्वन्तः सन्धयो यस्य तम् ॥ ४. प्रिये च निजदर्शनात् दे. ॥ ५. समीपवर्ती ।। ६. चाण्डालगृहेषु ।। ७. विद्युत् ॥ ८. आत्महितम् ॥ ९. छिनत्ति ॥ १०. मूर्च्छागमैरिव दे., मूर्च्छागतैरिव ला. विना, खंता. पाता. वा. १-२ ॥ ११. अरण्ये उद्गतजाति(जाइ)पुष्पवत् ॥ १२. शुभगतिकारणम् ॥ १३. र्निजं निजं खंता. ।। १४. ददतश्च मु. ॥ १५. जगन्नन्दनयो: दे. पा. मु. खंता. पाता. वा. १-२ ॥ १६. तस्य पितुर्ऋद्धिम् ।। १७. विचिन्तयन् दे. ॥ १८. चाऽकरोत् मु.; कारयेत् दे. ॥। १९. मणीचूल० खंता. पाता. वा. १-२ ॥ २०. सागरीधूमं तौ मुप्र ॥ २१. श्रीषेणादिकभववर्णनो नाम ता. छा. दे. मु. ॥
Jain Education International
(पञ्चमं पर्व
For Private Personal Use Only
www.jainelibrary.org