________________
१४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
1
अधिसेहे स हेमन्ते हिमभीमासु रात्रिषु । गलन्त्या वारिसम्पातं शैलाश्मा निर्झरादिव ॥४०४॥ मार्त्तण्डो मूर्ध्नि पार्श्वेषु ज्वलन्त्यश्च हंसन्तिकाः । सहते स्मेति पञ्चाग्नीन् ग्रीष्ममध्यन्दिनेषु सः ॥४०५॥ योदवृष्टिपूर्णेषु स्वयं खातसरस्सु च । अघोरमन्त्राद्यजपदाकण्ठं पयसि स्थितः ॥४०६ ॥ वापी: कूपान् सरसीश्च चखानाऽखनयच्च सः । अप्कायपृथिवीकायजीवबाधानिरर्गलः ॥४०७|৷ आदाय दात्र- परशू कृषीवल इव स्वयम् । चिच्छेद समिधो दर्भान् सोऽर्भवद् देभ्रबुद्धिकः ॥ ४०८ ॥ स चक्रे धर्मशकटीर्मार्गदीपानदत्त च । घुणदाह-पतङ्गादिपातपातकनिर्भयः ॥४०९॥ अतिथीनामिव सदा काकादीनां दुरात्मनाम् । पिण्डदानं स विदधे भोजनस्याऽऽदितोऽपि हि ॥४१०॥ आनर्च च ववन्दे च देववद् गाः स गोनिभः । न्यग्रोध-पिप्पला- 'रिष्टप्रभृतीनंह्रिपानपि ॥४११॥ संपूतरैश्च पानीयैः सिषेच स महीरुहान् । पानीयशाला बिभराञ्चकार स पदे पदे ||४१२।। इत्यादिकं धर्मबुद्ध्या विदधान स मुग्धधीः । कालं ललङ्के भूयांसमायासफलजीवितः ॥४१३॥ अपरेद्युर्विमानस्थं स गच्छन्तं विहायसा । विद्याधरं ददर्शैकं महर्द्धिकेंमिवाऽमरम् ॥४१४॥ फलेन तपसोऽमुष्येदृग् भूयासं भवान्तरे । इत्यकार्षीन्निदानं स क्रमेणाऽऽप च पञ्चताम् ।।४१५।। ततश्चमरचञ्चायां पुर्यां विद्याधरप्रभोः । इन्द्राशने: स आसुर्यां पत्न्यां त्वमुदभूः सुतः ||४१६|| ततः प्राग्जन्मसम्बन्धात् सुतारायां तवाऽभवत् । स्नेहोऽयं पूर्वसंस्कारो याति जन्मशतान्यपि ॥४१७॥ सुतारा-ऽमिततेजाश्च तथा श्रीविजयोऽशनिः । संवेगं विस्मयं चेयुः प्राग्भवाकर्णनात् ततः ।।४१८।। ||भव्यः किमस्मि यदि वा नाऽस्मीत्यमिततेजसा । पृष्टोऽभाषिष्ट भगवान् बलभद्रमहामुनिः ॥४१९॥ अतो भवात् त्वं नवमे भवे क्षेत्रेऽत्र भारते । द्वात्रिंशद्बद्धमुकुटनृपसहस्रसेवितः ॥४२०॥ चतुर्दशमहारत्ननाथो नवनिधीश्वरः । समुद्र-क्षुद्रहिमवन्मेखलायाः पतिर्भुवः ॥ ४२१॥ सेव्यमानो मागधाद्यैरपि देवकुमारकैः । पञ्चमश्चक्रवर्ती त्वं महाभुज! भविष्यसि ॥४२२॥ भवे तत्र चतुःषष्टिसुरेन्द्रप्रणतक्रमः । शान्तिनाथ इति ख्यातः षोडशोऽर्हन् भविष्यसि ॥४२३॥ राजा श्रीविजयोऽयं तु तस्मिन्नेव भवे तव । प्रथमस्तनयो भावी प्रथमो गणभृत् तथा ॥४२४।। ततो मुनिं प्रणम्य श्रीविजया - ऽमिततेजसा । नरेन्द्रौ द्वादशविधं भेजतुः श्रावकव्रतम् ॥४२५॥ || प्रणम्याऽशनिघोषस्तु बलभद्रं महामुनिम् । एवं विज्ञपयामास सुमना भक्तिवामनः ॥४२६॥ सर्वज्ञ ! त्वन्मुखाच्छ्रुत्वा स्वदुःखं प्राग्भवोद्भवम् । मनो मम तदावेशादिदानीमपि कम्पते ॥४२७॥ भगवन्! भवदाख्याते पुरा कपिलजन्मनि । आर्त्तध्यानं चकाराऽहं यत् प्रियाविप्रयोगतः ॥ ४२८ ॥ नानाविधवध-च्छेद-भेदभीमासु योनिषु । उत्पद्योत्पद्य बहुश: प्राप्तवानस्मि तत्फलम् ॥४२९॥ अकामया निर्जरया जीर्णदुष्कर्मकस्ततः । कथञ्चित् प्राप्तवानस्मि मानुष्यं पूर्वजन्मनि ॥४३०॥ तत्राऽप्यभाग्यादप्राप्तजिनधर्मस्तपस्व्यहम् । बहुकष्टं स्वल्पफलं हहा! बालतपो व्यधाम् ॥४३१॥ कृत्वा निदानं तस्याऽपि तपसोऽहमिहाऽभवम् । पुर्यां चमरचञ्चायां विद्याधरपति: प्रभो ! ॥ ४३२ ॥ निदानिनोऽपि तपसः परस्त्रीहरणस्य च । महाज्वालामहाविद्याप्रभवस्य भयस्य च ॥४३३ ॥ परिणामः शुंभोदर्को ममाऽजनि जगद्गुरो ! । शरणं यदवाप्तोऽसि सर्वदुःखविमोचैन ! ॥ ४३४ ॥ युग्मम्॥
1
१. अङ्गारशकटिका ।। २. पयोदवृष्टिपूर्तेषु दे. छा. मु. ॥ ३. दात्रपरशून् पाता. वा. १-२ ॥ ४. शिशुवत् ॥ ५. स्वल्पबुद्धिकः ला. मु. ॥ ६. धर्मशकटीमार्गदीपा० ला. दे. छा. । मृतानां जन्मान्तरे तत्तल्लाभार्थं शकटी दीयते तथा तन्निमित्तं दीपदानं कुर्वन्ति ।। ७. काष्ठकीटः ॥ ८. धेनूः ॥ ९. वृषभसदृशः ।। १०. अरिष्टेति भाषायां ‘अरीठो’ ।। ११. पूतरा जलजन्तव: 'पोरा' इति भाषायाम् । सपूतरैः स पानीयै: मु. ॥१२. कमिवापरम् ला. छा. मु. ।। १३. मृत्युम् ।। १४. प्राग्भव० मु. ।। १५. वैराग्यम् ॥ १६. विस्मितम् दे. मु. ॥ १७. ० नृपसहस्रैश्च सेवितः मु. । द्वात्रिंशत: बद्धमुकुटानां नृपाणां सहस्रेण सेवितः ।। १८. चतुःषष्ट्या सुरेन्द्रैः प्रणतौ क्रमौ चरणौ यस्य ॥ १९. भक्त्या नम्रः ॥ २०. नानाविधैः वधच्छेदभेदैर्भीमाः तासु ॥ २१. शुभ उत्तरकालो यस्य सः ।। २२. विमोचन: मु. ॥
Jain Education International
(पञ्चमं पर्व
For Private Personal Use Only
www.jainelibrary.org