________________
प्रथमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
तत्र चर्षभनाथस्य वन्दित्वा बिम्बमादितः । बलदेवं ववन्दाते तदग्रे च निषेदतुः ॥ ३७२ ॥ ॥इतश्च चमरचञ्चां मारीचिरविशत् पुरीम् । गृहे चाऽशनिघोषस्य मातुः पार्श्वमुपाययौ ॥ ३७३॥ हिमार्त्तामिव नलिनीं पङ्कमग्नामिवाऽर्जुनीम् । दवप्राप्तामिव लतां वागुरास्थां मृगीमिव ॥ ३७४॥ इन्दुलेखामिवाšहःस्थां तटस्थां शेफरीमिव । वारीबद्धामिव वशां हंसी मरुगतामिव ॥ ३७५॥ सुतारामुपवासस्थां तत्र चाऽत्यन्तदुःखिताम् । मन्त्रवत् पतिनामैव स्मरन्तीं स उदैत || ३७६ ॥ त्रिभिर्विशेषकम् ॥ ततः स आख्यदशनिघोषमातुरशेषतः । यत् सुताराऽऽनयनायाऽऽदिष्टोऽस्म्यमिततेजसा ||३७७|| सुतारां समुपादायाऽशनिघोषजनन्यपि । आययावचलस्वामिसभायां यत्र तत्पतिः ॥३७८॥ सा तत्कालमपि हि श्रीविजया-ऽमिततेजसोः । सुतारामर्पयामासाऽनघां न्यासीकृतामिव ॥३७९ ॥ बलदेवं भगवन्तं केवलज्ञानिनं ततः । सा वन्दित्वा यथास्थानं निषसाद प्रसादभाक् ॥ ३८० ॥ तदा चाऽशनिघोषोऽपि क्षमयामास सामवाक् । नरविद्याधरेन्द्रौ श्रीविजया - ऽमिततेजसौ ॥ ३८१ ॥ शान्तवैरास्ततः सर्वेऽप्यभवंस्तत्र पर्षदि । देशनां चाऽचलस्वामी विदधे शुद्धिदायिनीम् ॥ ३८२॥ • देशनान्तेऽशनिघोषो बलभद्रमहामुनिम् । इति विज्ञपयामास लैलाटघटिताञ्जलिः ॥ ३८३॥ स्वस्थाने तस्थुषी सेयं दन्तिनेवाऽरविन्दिनी । न हि दुष्टेन मनसा सुताराऽपहृता मया ॥ ३८४ ॥ किन्त्वहं चमरचञ्चानगर्यां गतवान् पुरा । आयतने भगवतो जयन्तस्य महामुनेः || ३८५|| तत्र च भ्रामरीं विद्यां किञ्चिद् भ्रमरवद् गृणन् । असाधयमहं स्वामिन्! सप्तरात्रमुँपोषितः ॥ ३८६ ॥ ततः प्रतिनिवृत्तः सन् वने ज्योतिर्वनाभिधे । इमां सुतारामद्राक्षं स्थितां श्रीविजयान्तिके ॥३८७॥ केनापि हेतुनाऽमुष्यां कोऽपि वाचामगोचरः । ममाऽऽलोकितमात्रायां स्नेहः समुदपद्यत ॥ ३८८।। ततश्चाऽचिन्तयमहं नाऽलं गन्तुं विनाऽनया । मनो मम प्रोत्सहते सैन्दानितमिवोच्चकैः ॥ ३८९ ॥ राज्ञः श्रीविजयस्याऽस्य दोष्मतः पार्श्ववर्तिनी । न चैषा शक्यते हर्तुं शेषस्येव शिरोमणिः ॥३९०॥ प्रतारण्या विद्यया तन्मोहयित्वा महीपतिम् । एतामहमपाहार्षं चिल्ली " हारलतामिव ।। ३९१।। स्वजनन्याः समीपे चाऽमुञ्चमेतामनिन्दिताम् । चन्द्रस्याऽपि कलङ्कोऽस्ति न त्वेतस्या मनागपि ॥३९२॥ न चोक्तं वचसाऽप्यस्यां मया किञ्चिदशोभनम् । परमाख्याहि भगवन्! किं मेऽस्यां स्नेहकारणम् ? ॥ ३९३॥ [अथाऽऽख्यद् भगवान् सत्यभामा - कपिलयोः कथाम् । श्रीषेणस्य शिखिर्नन्दिता - ऽभिनन्दितयोरपि ।। ३९४॥ स मुनिः पुनरप्याख्यच्छ्रीषेणोऽथाऽभिनन्दिता । सा शिखिनैन्दिता सत्या मृत्वा युगलिनोऽभवत् ॥३९५॥ ततोऽपि मृत्वा सौधर्मे चत्वारोऽप्यभवन् सुराः । ततोऽपि च्युत्वा श्रीषेणोऽमिततेजा अभूदयम् ॥ ३९६ ॥ शिखिनैन्दिताजीवस्तत्पत्नी ज्योतिः प्रभेत्यभूत् । तथाऽभिनन्दिताजीवः सोऽयं श्रीविजयोऽभवत् ॥ ३९७॥ जीवस्तु सत्यभामाया: सुतारेयमजायत । मृत्वाऽऽर्त्तध्यानी कपिलो बभ्रामाऽनेकयोनिषु ॥ ३९८ ॥ आर्त्तध्यानोद्भवं कर्माऽकामनिर्जरया तु सः । उत्पद्योत्पद्याऽक्षपयत् तिर्यग्-नरकवासिषु ॥ ३९९॥ भूतरत्नाभिधाटव्यामैरावत्याश्च रोधसि । तापसाग्र्यस्य जटिलकौशिकस्य तपस्विनः || ४०० || पत्न्यां पवनवेगायां धैर्मिलो नाम दारकः । उत्पेदे कपिलजीवः शैमिलायुगयोगवत् ॥४०१ ॥ लाल्यमानस्तापसीभिराश्रमाङ्गणवृक्षवत् । क्रमादासादयामास वृद्धिं धैर्मिलदारकः ।।४०२।। दीक्षां निजपितुः पार्श्वे गृहीत्वा स जटाधरः । समारेभे बालतप: प्रकर्तुं पैतृकं हि तत् ॥ ४०३||
१. मरीचिरवि० दे. ला. ॥२. धेनुम् ॥ ३. पाशबद्धाम् ॥ ४. दिवसस्थाम् ॥ ५. मीनम् ॥ ६. वारी गजबन्धनी तस्यां बद्धां वशां हस्तिनीम् ॥ ७. मरुधरदेशगतां हंसीम् ॥ ८.०मपि खंता ।। ९. निर्दोषाम् ॥ १०. प्रत्यर्पणाय स्थापितामिव ॥ ११. ललाटे घटितोऽञ्जलिः येन सः ।। १२. तत्स्थाने मु. ॥। १३. उपवासकारी ॥ १४. लोकितमात्रायाः ला. पा. छा ॥ १५. बद्धम् ॥ १६. शेषनागस्य ॥ १७. शकुनिः ॥ १८. चामुचमेता० ता. ॥। १९. सिंहनन्दिता खंता. पाता. वा. १-२, सं. ता.ला. ॥ २०. सिंहनन्दिता खंता. पाता. वा. १-२ सं. ता. ला ॥ २१. मृता० वा. १-२ ॥ २२. सिंहनन्दिता खंता. पाता. वा. १-२ सं. ता. ला. ।। २३. उत्पाद्योत्पाद्या० खंता ॥ २४. धर्मिल्लो० पाता. ॥ २५. शमिला (शमिल्ला पाता. ) भाषायां 'समोल' इत्युच्यते; युगं च भाषायां 'धूंसरी'; तयोर्योगस्तद्वत् ॥ २६. धर्मिल्ल० पाता ॥ २७. पैतृकं मातृकं खंता. पाता. वा. १-२ ला छा. विना ॥
Jain Education International
For Private & Personal Use Only
१३
www.jainelibrary.org