________________
प्रथमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । सहस्ररश्मिः पितरं ररक्ष च तथास्थितम् । एवं च तिष्ठतोर्मास: किञ्चिदूनस्तयोरभूत् ॥३०७।। पाइतश्च चमरचञ्चाबहिर्देशे कृतस्थिति: । प्रेषीदशनिघोषाय दूतं श्रीविजयो नृपः ॥३०८।। दूतो गत्वाऽथ नि:शङ्कोऽशनिघोषमभाषत । धिग् हीकरमिदं कर्म काकेनेव त्वया कृतम् ॥३०९॥ धैर्य-वीर्यविहीनानां छलमेव हि पौरुषम् । तद्वतामद्य धुर्योऽसि देवीमपहरंस्तथा ॥३१०॥ प्रतारणी श्रीविजये विद्यां स्फोरयतस्तदा । प्रेक्षापूर्वककारित्वमहो ते श्मश्रुधारिणः ॥३११॥ ज्ञातस्त्वया श्रीविजय: प्रतापतपनो न किम्? । निष्प्रतापे त्वादृशानां छलानि प्रभवन्ति हि ॥३१२॥ स मोघीकृत्य तां विद्यामिहाऽऽयासीद् यथा तथा । सुतारां नेष्यति बलात् तद्धीमन्! स्वयमर्पय ॥३१३।। स्वयमर्पयतो देवीं प्रणिपातपुरःसरम् । त्वज्जीवितस्य कुशलं कीनाश: प्रगुणोऽन्यथा ॥३१४॥ बभाषेऽशनिघोषोऽपि घननिर्घोषघोरगी: । साध्वहो! दूत! धृष्टोऽसि दृष्टो नेहक् क्वचिन्मया ॥३१५॥ यद्यत्राऽगाच्छ्रीविजयस्तत् किं तेन तपस्विना? । सुमेरुमपि गच्छन्ति खगा: किं तेषु पौरुषम्? ॥३१६।। ममैकयत्नलेशेन नष्टशक्तिः स यास्यति । न वालुकादेवकुलं सहते सरितो रयम् ॥३१७।। पथा यथागतेनैव स प्रयातु निजौकसि । सुतारां याचमानस्तु प्रयास्यति यमौकसि ॥३१८॥ इति द्वयं समालोच्य यातु तिष्ठतु वाऽद्य स: । गच्छ त्वमपि मद्वाचं समाख्याहि तदग्रतः ॥३१९॥ एवमुक्तस्तेन दूतो द्रुतं निर्गत्य तत्पुरात् । आख्यत्रैपृष्ठये तस्य वाचिकं वञ्चकात्मनः ।।३२०॥ कोपानलानिलप्रायं श्रुत्वा तत् तस्य वाचिकम् । राजा श्रीविजय: सेनां सज्जितामप्यसज्जयत् ॥३२१॥ ज्ञात्वा श्रीविजयानीकान्यनीकोत्कण्ठितान्यथ। आदिदेशाऽशनिघोषो युद्धातिथ्यकृते सुतान् ॥३२२॥ अश्वघोष: शतघोष: सहस्रघोष एव च। महोघोषो भीमघोषो घनघोषस्तथाऽपरे ॥३२३।। तत्पुत्रा मेघघोषाद्याः सर्वे सर्वाभिसारतः । युद्धाय चमरचञ्चापुर्या द्वारे विनिर्ययुः ॥३२४॥युग्मम्।। रणतूर्याण्यवाद्यन्त सैन्ययोरुभयोरपि । ध्वनिना शरदम्भोदसोदराणि गरीयसा ॥३२५॥ शरच्छिन्नोच्छलच्छत्रैः शतेन्दूभवदम्बरम् । कृन्तोत्पतच्छिरोभिश्च संमूर्च्छद्रुहुराह्विव ॥३२६॥ पतद्भिस्तेजितें: शल्यैः पतदुल्कामिवोच्चकैः । आस्फलत्पर्वतमिवाऽऽस्फलद्भिर्गन्धसिन्धुरैः ॥३२७॥ भुवि विश्रान्तसन्ध्याभ्रमिव कीलालकर्दमैः । मद्यस्येवाऽसृजः पानान्माद्यद्वेतालपेटकम् ॥३२८॥ महाभटै प्यमानमन्त्रास्त्रमिव हुकृतैः । शल्याहतेभकुम्भोत्थमुक्तातारकिताम्बरम् ॥३२९॥ सैन्यरेणुभिरुद्भूतप्रदोषमिव सर्वत: । महत् प्रववृते युद्धमुभयोरपि सैन्ययोः ॥३३०॥पञ्चभि: कुलकम्।। घोरैर्गदाप्रहरणप्रहारैरतिमूर्च्छिता: । अञ्चलान् व्यजनीकृत्य केऽप्यवीज्यन्त बन्धुभिः ॥३३१।। वल्लभाभिः पयस्कुम्भहारिणीभिः पिपीसिताः। केऽप्यम्भोऽनुपदिनीभिरपाय्यन्त मुहुर्मुहुः ॥३३२॥ पश्यन्तीनां प्रेयसीनामपि केऽप्यमरीजनैः । अयं मेऽयं ममेशस्तान् सोत्कण्ठमिति वव्रिरे ॥३३३॥ आदाय कोऽप्यरेौलिं नृत्यति स्म महाभुजः। तत्स्पर्धयेव तद्वैरिकबन्धोऽपि ननर्त च ॥३३४॥ प्रथमस्यन्दनाद् भग्नात् कोऽपि च स्यन्दनान्तरम् । समुत्पत्य ययौ वृक्षादिव वृक्षान्तरं कपिः॥३३५॥ कोऽपि युद्ध्वा चिरतरं निष्ठितास्त्रो महाभटः । स्वकेनैव शिरस्त्रेण प्रहत्याऽमारयत् परम् ॥३३६॥ परिक्षीणेषु शस्त्रेषु निखिलेष्वपि केचन । दोर्दण्डाभ्यां युयुधिरे दन्ताभ्यामिव दन्तिनः ॥३३७|| अस्त्रैः शस्त्रैर्मायया च सैन्ययोर्युध्यमानयोः । किञ्चदूना व्यतीयाय मास एको द्वयोरपि ॥३३८॥ १. धिग् श्रीकर० मु. ॥ २. छलवताम् ।। ३. प्रतारिणी मु. ॥ ४. निष्फलीकृत्य ॥५. यमः॥ ६. दृष्टोऽसि पृष्टो० मु.॥ ७. वेगम् ॥ ८. सन्देशम् ॥ ९. कोपाग्निवायुसदृशम् ।। १०. युद्धोत्कण्ठितानि ।। ११. युद्धसत्काराय ।। १२. खंता. पाता. वा.१-२ न ॥१३. शतचन्द्रीभवत् अम्बरं यत्र तत्॥१४. कृन्तानि उत्पतन्ति च तानि शिरांसि च तैः ; कृतोत्पतच्छिरोभिश्च ता. दे. पा. छा., कृत्वोत्पतच्छिरोभिश्च ला. ॥१५. संमूर्च्छन्तो बहवो राहवो यत्र ॥ १६. तीक्ष्णैः ॥ १७. शोणितकर्दमैः ॥ १८. समूहः ।। १९. शस्त्रैराहता ये गजास्तेषां कुम्भेभ्य उत्थिताभिर्मुक्ताभिस्तारकितमाकाशं यत्र तत् ॥ २०. तृषिताः ॥ २१. पदानुसारं गच्छन्तीभिः ।। २२. शिरोरहितो देहः ।। २३. शस्त्रविहीनः ।। २४. शिरस्त्राणेनेत्यर्थः; शिरस्केन दे. छा. मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org