SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व स्वसारं स्वामिनो ज्ञात्वा ह्रियमाणां दरात्मना। तां वाचमन्वगच्छाव 'शब्दपातिशराविव ॥२७६।। अचिरादप्यपश्याव सुतारां तरलेक्षणाम् । आत्तामशनिघोषेण पद्मिनीमिव देन्तिना ॥२७७।। ह्रियमाणां स्वामिजामि तामुपेक्षितुमक्षमौ । आबद्धभ्रकुटी वाचमवोचाव च वैरिणम् ।।२७८॥ रे विद्याधरहतकाऽशनिघोष! क्व यास्यसि? । हृत्वा सुतारां चण्डालो देवताप्रतिमामिव ।।२७९॥ अरे! रे! न भवस्येष हन्वस्त्वामुद्वहायुधम् । आवां विद्याधरपतेः पत्ती ह्यमिततेजसः ॥२८०|| एवमाक्षिप्य कृष्टासी कृष्णाही इववार्तिकौ । आवां नरजघन्यं तं जिघांसन्तावुपस्थितौ ॥२८१।। तत: सुतारादेव्योक्तं युद्धेन युवयोरलम् । वनं ज्योतिर्वनं यातं तत्र श्रीविजयः प्रभुः ॥२८२।। प्रतारण्या वञ्चयित्वा त्याज्यमानमसूनपि । निषेधतं श्रीविजयं तस्मिन् जीवामि जीवति ॥२८३॥ द्रुतमावां तदादेशादिह त्वां समुपस्थितौ। विध्यापितश्चितावह्निरावाभ्यां मन्त्रितोदकैः ।।२८४।। इयं प्रतारणी विद्या सुतारारूपधारिणी। वेतालवत् समुत्ताला साट्टहासा पलायत ॥२८५।। हृतां सुतारां विज्ञाय विषसाद महीपतिः। चितानलादप्यधिकं प्रेज्वलद्विरहानलः ॥२८६॥ तं तावित्यूचतुः स्वामिन्! मा ताम्य कुशली न स: । यतो न दूरे भवत: दैवस्येव क्व यास्यति? ।।२८७।। तौ प्रणम्याऽथ राजानं जानुस्पृष्टमहीतलौ । गाढमभ्यर्थ्य वैताढ्यमात्मना सह निन्यतुः ।।२८८।। पतत: सर्वाभिसारेणाऽमिततेजा: क्षणादपि। अभ्युत्तस्थौ श्रीविजयं विजयो मूर्त्तिमानिव ॥२८९॥ महत्या प्रतिपत्त्या तमासयित्वोचितासने । ससम्भ्रमोऽमिततेजा: पप्रच्छाऽऽगमकारणम् ॥२९०।। तौ च विद्याधरवरौ तस्मै श्रीविर्जये रितौ । सुताराहरणोदन्तमाचख्यतुरशेषतः ॥२९१॥ अथाऽर्ककीर्तितनयो भृकुटीकुटिलालिकः । रुषाऽरुणकपोलाक्षो निजगादेति भूपतिम् ॥२९२॥ कण्डूयित्वा तुण्डमिव तक्षकस्य फणाभृतः। सेंटामुष्टिमिवोत्पाट्य शयानस्य मृगद्विषः ॥२९३॥ तव भार्यां स्वसारं मे सुतारामपहृत्य स: । जीविष्यति कियन्नामाऽशनिघोषो नराधमः? ॥२९४।।युग्मम्।। पाततश्च शस्त्रावरणीं बन्धनी मोचनीमपि। विद्यां श्रीविजयायाऽदादर्ककीर्तिसुतः स्वयम् ।।२९५॥ रश्मिवेगा-ऽमितवेग-रविवेगा-ऽर्ककीर्तयः । भानुवेगा-ऽऽदित्ययशो-भानु-चित्ररथा अपि ॥२९६॥ अर्कप्रभोऽथाऽर्करथो रवितेजा:प्रभाकरः । तथा किरणवेगोऽपि सहस्रकिरणोऽपि च ॥२९७।। इत्यादीनां स्वपुत्राणां से नु पञ्चशतीमथ । समं त्रैपृष्ठिना वीरप्रष्ठेन पृतनावृताम् ॥२९८॥ पुर्यां चमरचञ्चायां तस्मादशनिघोषतः । सद्य: सुतारामाहर्तुं प्राहिणोदैहितान्तकः ॥२९९।।चतुर्भि: कलापकम्।। ततो विद्याधरबलच्छन्नाशेषनभस्तलः । दिवि केतुशतानीवोद्भावयन् सुभटायुधैः ॥३००॥ प्रभूतहयहेषाभिर्हेषयन् भास्वतो हयान् । वितन्वानो गजैर्कोम्नि मेघमालामिवाऽपराम् ॥३०१।। विमानैर्दर्शयन् दीप्रैरानौत्पातिकानिव । जगाम चमरचञ्चां त्रिपृष्ठतनयः क्षणात् ॥३०२||त्रिभिर्विशेषकम्।। तं चाऽधिविद्यमशनिघोषं ज्ञात्वाऽर्ककीर्तिसूः । सहस्ररश्मिना सार्धं सुनूनाऽनूनशक्तिना ॥३०३।। परविद्याच्छेदकरी महाज्वालाभिधायिकाम् । विद्यां स्वयं साधयितुं हिमवन्तं गिरिं ययौ ॥३०४॥युग्मम्।। स तत्र च जयन्तस्य महर्षेः प्रतिमाजुषः । तथैव धरणेन्द्रस्य पादमूलेऽतिपावने ॥३०५।। स्थितो मासिकभक्तेन प्रतिमां साप्तरात्रिकीम् । समुद्वहन् प्रववृते विद्यासाधनकर्मणि ॥३०६ायुग्मम्।। १. शब्दानुसारिणौ शरौ इव ॥ २. गजेन । ३. स्वामिभगिनीम् ।। ४. आबद्धभ्रकुटीवावां तमवोचाव वैरिणम् सं. ता. दे. ला. । आबद्धभ्रकुटी वाचं तमवोचाव वैरिणम् खंता. पाता. वा.१-२॥५.हे दुष्टविद्याधर! ।। ६.चाण्डालो पा.॥७. गारुडिकौ ।। ८. नराधमम् ।। ९. हन्तुमिच्छन्तौ॥१०. उन्मत्ता। ११. पलायिता पाता. वा. १-२ सं. ला.॥१२. प्रज्वलन् विरह एव अनल: यस्य सः॥१३. जानुभ्यां स्पृष्टं महीतलं याभ्यां तौ ॥१४. सर्वसामग्र्या ॥१५. सत्कारेण ॥ १६. श्रीविजयेन प्रेरितौ ॥१७. भृकुटीवत् कुटिलं अलिकं ललाटं यस्य सः ।। १८. रुषा अरुणे कपोलो अक्षिणी च यस्य सः ।। १९. कपोलाक्षिर्निज० खंता. पाता. वा.१-२ सं. छा. ला. दे. पा. ॥ २०. मस्तकम् ।। २१. केसराणां मुष्टिम् ।। २२. सिंहस्य ।। २३. चतुपञ्चाशती० खंता., शतपञ्चशती० मु. ॥ २४. वीराग्रसरेण ।। २५. सेनान्विताम् ॥ २६. शत्रुनाशकः ॥ २७. खंता. पाता. वा.१-२ प्रतिषु नास्ति ॥२८. विद्याधराणां बलेन छन्नमशेष नभस्तलं येन सः ।। २९. उत्पातजनितान् ॥ ३०. त्रिपृष्ठितनयः दे. मु. ॥ ३१. अधिकविद्यावन्तम् ॥३२. लाभिधानिकाम् सं. मु. विना, खंता. पाता. वा.१-२॥ ३३. सप्तसु रात्रिषु भवा ताम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy