________________
॥त्रयोदशः सर्गः॥ ॥जयचक्रिचरितम्॥
नमेर्भगवतस्तीर्थे समुत्पन्नस्य चक्रिण: । जयस्य जयिन: पुण्यं चरित्रमिदमुच्यते ॥१॥ अस्यैव जम्बूद्वीपस्यैरवते श्रीपुरे पुरे । वसुन्धरापतिरभूत् ख्यातो नाम्ना वसुन्धरः ॥२॥ स प्रेयस्या: पद्मवत्या मृत्युनोद्विनमानसः । राज्ये निवेशयामास तनयं विनयन्धरम् ॥३॥ मनोहरवने पार्श्वे वरधर्ममहामुनेः । तत्त्वं श्रुत्वा प्रतिबुद्ध: परिव्रज्यामुपाददे ॥४॥ चिरकालं परिव्रज्यां स यथावदपालयत् । विपद्य सप्तमे कल्पे देवभूयमियाय च ॥५॥ पाइतश्चाऽस्ति राजगृहं पुरं मगधमण्डनम् । श्रियामेकं कुलगृहं स्व:पुर्या इव सोदरम् ॥६॥ इक्ष्वाकुवंशप्रभवः प्रभवो न्यायवर्त्मनः । विजयी विजयो नाम तत्राऽभूत् पृथिवीपतिः ।।७।। वप्राभिधाना तस्याऽभून्महिषी शीलशालिनी । भूगता काऽपि देवीव रूप-लावण्यसम्पदा ॥८॥ काले गच्छति तस्याश्च कुक्षाववततार स: । वसुन्धरमहीपालजीव: शुक्रात् परिच्युतः ।।९।। जज्ञे तस्यां जयो नाम धनुर्द्वादशकोन्नतिः । सूनुश्चतुर्दशस्वप्नसूचितः काञ्चनच्छवि: ॥१०॥ पित्रा राज्येऽभिषिक्तश्च तस्याऽऽयुधगृहेऽन्यदा । चक्ररत्नं समुत्पेदे प्रथमं चक्रिलक्षणम् ॥११॥ तथा च्छत्रं मणिर्दण्डो निस्त्रिंशश्चर्म काकिणी। जज्ञिरे तस्य सप्तैवं रत्नान्येकेन्द्रियाणि तु ॥१२॥ पुरोधो-गृहि-हस्त्य-श्व-सेनानी-वर्धकि-स्त्रियः । पञ्चेन्द्रियाणि सप्तैवं तस्य रत्नानि जज्ञिरे ॥१३।।
दिग्यात्रार्थं सोऽनुचक्रं पूर्वं पूर्वाब्धिमभ्यगात् । मागधतीर्थकुमारं तत्र चक्रे वशंवदम् ।।१४।। ततो निवृत्य याम्याब्धौ वरदामपतिं सुरम् । सोऽसाधयन्न देवोऽपि भुव्यलं चक्रवर्तिनः ॥१५।। गत्वा च पश्चिमाम्भोधौ प्रभासाधीश्वरं सुरम् । क्षिप्तेनैकेन बाणेन वशीचक्रे स लीलया ॥१६।। ततश्चाऽसाधयत् सिन्धुं सिन्धुराज इवाऽपरः । वैताढ्याद्रिकुमारं च सुरं सुरवरोपमः ॥१७॥ सोऽथ स्वयं वशीचक्रे कृतमालाभिधं सुरम् । सेनान्या तु महानद्या: सिन्धोः पश्चिमनिष्कुटम् ॥१८॥ यथाविधि तमिमां स प्रविश्य च निरीय च । आपातनाम्न: किरातान् निर्जिगाय महाभुजः ।।१९।। पश्चिमं निष्कुटं सिन्धोः सेनान्या स विजित्य च । वशीचकार हिमवत्कुमारं देवविक्रमः ॥२०॥ काकिण्या ऋषभकूटे स लिखित्वाऽऽत्मनोऽभिधाम् । सेनान्या निष्कुटं गाङ्गं प्राचीनं चलितोऽजयत् ॥२१॥ साधयित्वा स्वयं गङ्गां जित्वा विद्याधरेश्वरान । खण्डप्रपाताद्वारस्थं नाट्यमालमसाधयत् ॥२२॥ खण्डप्रपातागुहया वैताढ्यान्निर्जगाम सः । सेनान्या साधयित्वा च गाणं प्राचीननिष्कुटम् ॥२३॥ आवासितस्य गङ्गायां तेऽथ गङ्गामुखस्थिता: । नवाऽपि निधयस्तस्य नैसर्पाद्या: वशेऽभवन् ॥२४॥ पसोऽथ सम्पूर्णचक्रिश्रीराजगाम निजं पुरम् । चक्रे चक्रित्वाभिषेकश्चाऽस्य देवैर्नृपैरपि ॥२५।। षट्खण्डां बुभुजे पृथ्वीमखण्डितपराक्रम: । क्रमेण च परिव्रज्यां भवोद्विग्न: स आददे ॥२६॥ एवं जयस्य कौमारे वत्सराणां शतत्रयम् । तदेव मण्डलित्वेऽब्दशतं तु ककुभां जये ॥२७॥ एकोनविंशतिशती वर्षाणां चक्रिसम्पदि । व्रतकाले तु चत्वारि संवत्सरशतान्यगुः ॥२८।। १. पद्यावत्या: खं.२, पाता. ॥ २. देवत्वम् ।। ३. च ता. ।। ४. सेनान्याऽसाधयच्चाऽऽशु ता. विना ।। ५.३०० वर्षाणि ॥ ६. ३०० ।। ७. १०० वर्षाणि दिविजये ।। ८.१९०० वर्षाणि ॥ ९.४०० वर्षाणि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org