________________
॥ द्वादशः सर्गः ॥
॥ श्रीहरिषेणचक्रिचरितम् ॥
T
इतश्च विहरत्येव नमिनाम्नि जिनेश्वरे । हरिषेणोऽभवच्चक्री चरितं तस्य कीर्त्यते ॥ १ ॥ इहैव भरतेऽनन्ततीर्थे नरपुरे पुरे । नराभिरामो नृपतिरभिरामो नरेष्वभूत् ॥२॥ क्रमेण च भवोद्विग्नः परिव्रज्यां प्रपद्य सः । सनत्कुमारकल्पेऽभूदमरः परमर्द्धिकः || ३ || |इतश्च पञ्चालदेशाकैल्पः स्वः कल्पमृद्धिभिः । परैरकम्प्यं काम्पील्यमित्यस्ति प्रवरं पुरम् ॥४॥ तस्मिन् महाहरिर्नाम राजा हरिरिवौजसा । इक्ष्वाकुवंशतिलको बभूव भुवि विश्रुत: ॥५॥ तस्याऽभून्महिषी नाम्ना मेरा स्मेराम्बुजानना । शीलालङ्करणा रूपेणाऽलङ्कृतमहीतला ॥६॥ नराभिरामजीवोऽपि तस्याः कुक्षाववातरत् । चतुर्दशमहास्वप्नाख्यातश्चक्रधरर्द्धिकः ॥७॥ सा कालेsसूत हेमाभं हरिषेणाभिधं सुतम्। पञ्चदशधनूच्छ्रायो युवराज्येऽभ्यषेचि सः ॥ ८ ॥ पैतृकं शासतस्तस्य राज्यं प्राज्यभुजौजसः । अन्येद्युरस्त्रशालायां चक्ररत्नमजायत ॥९॥ पुरोधो-वर्धकि- गृहि-सेनानीप्रभृतीन्यपि । तस्य त्रयोदशाऽन्यानि क्रमाद् रत्नानि जज्ञिरे ||१०|| " चक्रमार्गानुगः प्राच्यां गत्वा तीर्थे स मागधे । मागधतीर्थकुमारं दिग्जयादावसाधयत् ॥११॥ दक्षिणस्यामथोपेत्य दक्षिणाम्भोधिवर्तिनम् । वरदामपतिं देवं वशीचक्रे महाभुजः ||१२|| उपेत्य दिशि वारुण्यां प्रभासाधिपतिं सुरम् । सोऽसाधयदखण्डौजा बिडौजा इव भूस्थितः ॥१३॥ महानदीमेत्य सिन्धुं दिकूँसिन्धुरपराक्रमः । क्रमाद् वशंवदीचक्रे चक्रभृद् दशमोऽथ सः ॥ १४ ॥ ततोऽभिसृत्य वैताढ्यं वैताढ्याद्रिकुमारकम् । विधिना साधयामास स दिक्साधनपण्डितः ॥१५॥ कृतमालामरं चाऽथ कृती स्वयमसाधयत्। पश्चाच्च सेनापतिना पश्चिमं सिन्धुनिष्कुटम् ॥ १६॥ वामान्यकुम्भविन्यस्तमणिरत्नेन कुम्भिना । सेनान्युद्धाटितद्वारां तमिस्रां प्रविवेश सः ||१७|| काकिणीरत्नलिखितमण्डलोद्योतितान्तराम् । पद्ययोत्तीर्य चोन्मग्ना - निमग्ने तामलङ्घयत् ॥ १८ ॥ स्वयमुद्घाटितोदीच्यद्वारा तस्य विनिर्ययौ । आपातसञ्ज्ञान् म्लेच्छांस्तान् स्वच्छन्दानजयच्च सः ॥ १९॥ अजापयच्च सेनान्या सिन्धोः पश्चिमनिष्कुटम् । गत्वा च क्षुद्रहिमवत्कुमारमजयत् स्वयम् ||२०| काकिण्या ऋषभकूटे स्वनामाऽऽलिख्य सञ्चलन् । गर्ऋमसाधयद् गात्रं सेनान्या पूर्वनिष्कुटम् ॥२१॥ विद्याधरैर्दत्तदण्ड उभयश्रेणिवर्तिभिः । स्वयं च 'साधयामास नाट्यमालमथैौऽमरम् ॥२२॥ सेनान्योद्घाटितां खण्डप्रपातां चाऽऽविशद् गुहाम् । चक्रानुगश्चक्रवर्ती निर्जगाम च पूर्ववत् ॥ २३ ॥ सेनान्या साधयामास गाजं प्राचीननिष्कुटम् । स्वयमावासयामास गङ्गायां वसुधाधिपः ||२४|| नवाऽपि निधयो गङ्गामुखमागधवासिनः । सिध्यन्ति स्म स्वयं तस्योत्कृष्टपुण्यानुभावतः ||२५|| || सम्पूर्णचक्रवर्तिश्रीर्जितषट्खण्डभारतः । अथाऽऽजगाम काम्पील्यपुरं स श्रीपुरन्दरः ||२६|| तस्य चक्रित्वाभिषेकश्चक्रे देवैर्नरैरपि । महोत्सवः पुरे चाऽऽसीद् यावद् द्वादश वत्सरान् ||२७|| भूपालैः पाल्यमानाज्ञो भरते सकलेऽपि है । धर्माविबाधया भोगान् बुभुजे स महाभुजः ॥२८॥ भवाद् विरक्तः सोऽन्येद्यू राज्यमुत्सृज्य लीलया । उपादत्त परिव्रज्यां शिर्वैव्रज्योत्सवोत्सुकः ॥२९॥
१. नरेष्वपि पाता. ॥ २. परिव्रज्य विपद्य सः ता. ॥। ३. पञ्चालदेशभूषणम् ॥। ४. स्वर्गतुल्यम् ॥ ५. वशीचक्रे स चक्रभृत् रसंपा. ।। ६. पश्चिमायाम् ।। ७. दिग्गजसमविक्रमः ।। ८. वामान्यः - दक्षिणः ॥ ९. अज्ञापयच्च मु. ॥ १०. काकण्या खं.१-२, पाता. ॥ ११. जगाम साधय० मु. ॥। १२. चासाधयामास खं.१-२, पाता. मु. ॥ १३. ० मथापरम् मु.; ० मथावरम् पाता. ॥। १४. प्राविशद् मु . ।। १५. हि ता. मु. ।। १६. मोक्षगमनोत्सुकः ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org