SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २४१ एकादशः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । देशनान्ते जगद्भर्तः कुम्भो व्यधित देशनाम् । तद्देशनान्ते नत्वेशं शक्राद्याः स्वं पदं ययुः ॥९७॥ पातत्तीर्थजन्मा भकटिर्यक्षस्त्र्यक्षश्चतर्मखः । स्वर्णवर्णो वषरथश्चतर्भिर्दक्षिणैः भुजैः ॥९८॥ धृतमातुलिङ्ग-शक्ति-मुद्रा-ऽभयदैर्युतः । वामैः पुनर्नकुलक-पशु-वज्रा-ऽक्षसूत्रिभिः ॥९९।।युग्मम्॥ तथैव देवी गान्धारी श्वेताङ्गी हंसवाहना । दोर्थ्यां वरद-खड्गिभ्यां दक्षिणाभ्यां विराजिता ॥१०॥ वामाभ्यां बीजपूरिभ्यां बाहुभ्यामुपशोभिता । अभूतामित्युभे भर्तुर्नमे: शासनदेवते ॥१०१॥ पाताभ्याममुक्तसान्निध्यो विजहार वसुन्धराम् । सार्धे वर्षसहस्रे द्वे नवमासोनिते विभुः ॥१०२॥ प्रभोरभूवन् साधूनां सहस्राण्यथ विंशतिः । व्रतिनीनां पुनरेकचत्वारिंशत्सहस्यपि ॥१०३॥ चतुर्दशपूर्वभृतां सार्धं शतचतुष्टयम् । अवधिज्ञानभाजां तु सहस्रं षेट् शताधिकम् ॥१०४॥ षष्ट्यग्रा द्वादशशती मन:पर्ययशालिनाम् । शतानि षोडश पुन: केवलज्ञानधारिणाम् ॥१०५॥ जातवैक्रियलब्धीनां सहस्रा: पञ्च सङ्ख्यया । तथा सहस्रमेकं तु वादलब्ध्युपशोभिनाम् ॥१०६॥ श्रावकाणां लक्षमेकं सहस्राणि च सप्ततिः । श्राविकाणां त्रिलक्ष्यष्टचत्वारिंशत्सहस्रयुक् ॥१०७॥ मोक्षकालमथ ज्ञात्वा सम्मेताद्रिमगात् प्रभुः। समं मुनिसहस्रेणाऽनशनं प्रत्यपादि च ॥१०८।। मासान्ते वैशाखकृष्णदशम्यामश्विनीयुजि । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥१०९॥ कौमारेऽब्दानां सहस्रौ सार्थी राज्ये तु पैञ्च ते। व्रते सौं/ सहस्रौ चेत्ययुतायुर्नमिप्रभुः ॥११०॥ मुनिसुव्रतनिर्वाणानिर्वाणं श्रीनमिप्रभोः । वर्षाणां षट्सु लक्षेषु व्यतिक्रान्तेष्वजायत ॥१११॥ निर्वाणकल्याणमुपेत्य तत्र गीर्वाणनाथास्त्रिदशैः समेताः । शरीरसंस्कारपुर:सरं श्रीनमेरकार्षुः सपरिच्छदस्य ॥११२॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि नमिनाथचरितवर्णनो नामैकादशः सर्गः॥ १. बीजपूरधारिभ्याम् ॥२.२०००० साधवः ।।३.४१००० साध्व्यः ।।४.४५० चतुर्दशपूर्विणः ।।५.१६०० अवधिज्ञानिनः ।। ६.१२६० मन:पर्यवज्ञानिनः॥ ७. १६०० केवलज्ञानिनः ॥ ८.५००० वैक्रियलब्धिधराः ।। ९. १००० वादिमुनयः ॥१०.१,७०,००० श्रावकाः ।। ११. ३,४८,००० श्राविकाः ॥१२. विभुः ता. ॥१३. अश्विनीनक्षत्रे ।। १४. २५०० वर्षाणि ।।१५.५००० वर्षाणि ॥१६. २५०० वर्षाणि ।। १७. १०,००० वर्षाणि ॥१८. सप्तम० खं.१-२, Jain Educaता. ॥१९.नामैकादशमः पाता. ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy