________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व
राक्षसस्याऽग्रतोऽप्येनमानेष्यामो तवाऽन्तिके। लङ्घिष्यते न व्यवस्था न चाऽप्येष मरिष्यति ॥२१४॥ साधु हे देवता:! साधु यावदेवं जजल्प सा। आरक्षास्तावदेजवन्निन्युराकृष्य तत्सुतम् ॥२१५॥ तद्दत्तं यावदादत्ते राक्षसस्तं द्विजात्मजम् । अपहृत्याऽनयन् भूतास्तावत् तन्मातुरन्तिके ॥२१६।। भीता भयानि पश्यन्ती ब्राह्मण्यपि तमात्मजम् । अन्तर्गिरिगुहं रक्षाकृते चिक्षेप तत्क्षणम् ॥२१७।। तत्रस्थेन जनसे च जाग्रताऽजगरेण सः। तद्वदन्यदपि भवेन्न भावि क्वचिदन्यथा ॥२१८॥ इदमौयिकं तस्मात् सर्वैराचर्यतां तपः । निकाचितानामपि यत् कर्मणां तपसा क्षयः ॥२१९॥ पामन्त्री तुर्योऽप्यभाषिष्टोपरिष्टात् पोतनप्रभोः । ख्यातोऽनेन तडित्पातो न श्रीश्रीविजयस्य तु ॥२२०॥ तत् सप्ताहं पुरेऽमुष्मिन् कोऽप्यन्यः क्रियतां पति: । पतिष्यत्यशनिस्तत्र दुरितं तेन यातु वः ॥२२१॥ पाअथ नैमित्तिको हृष्टः प्राशंसदिति मन्त्रिणम् । मन्निमित्तज्ञानतोऽपि मतिज्ञानं तवाऽधिकम् ॥२२२॥ अनर्थपरिहाराय कुर्वर्थममुमाशु तत् । जिनपूजारतश्चैत्यस्थितो राजाऽपि तिष्ठतु ॥२२३॥ मैयाऽप्यवादि योऽप्यद्य नरो राज्येऽभिषिच्यते। चिन्तयामि कथं तस्य प्राणनाशं निरागसः? ॥२२४॥
आ शक्रादाकृमेः प्राणा: प्राणिनामतिदुस्त्यजाः । कथं वराक: घुमात्र: पश्यतो मे विनाश्यते? ॥२२५॥ परेषां प्राणिनां प्राणत्राणैकपुरुषव्रताः । वयं हि घातयामोऽन्यं स्वप्राणितकृते कथम्? ॥२२६॥ नामन्त्रिणोऽथाऽब्रुवन् देव! कार्यद्वयमिदं हि नः । यास्यति स्वामिनोऽनर्थः प्राणी च न विपत्स्यते ॥२२७॥ वैश्रवणस्य प्रतिमा देव! राज्येऽभिषिच्यताम् । तां च त्वामिव सप्ताहं सर्व: सेविष्यते जनः ।।२२८।। दिव्यशक्त्योपसर्गश्चेन्न भवेत्तदपि सुन्दरम् । स्याच्चेत् तदपि न प्राणिवधपापं भविष्यति ॥२२९।। युक्तमेतदिति प्रोच्य गतोऽस्मि जिनमन्दिरम् । दर्भसंस्तारके तस्मिन्नस्थां च कृतपौषधः ॥२३०॥ नरेन्द्रवदवर्त्तन्त मूतौ वैश्रवणस्य ते। स्वाम्युदर्काय धीमन्तो यान्ति स्वाम्यन्तरेऽपि हि ॥२३१॥ पासप्तमे च दिने प्राप्ते मध्याह्नेऽत्यूर्जिगर्जित: । दिव्युन्ननाम पर्जन्यः प्रलयाम्बुददारुणः ॥२३२।। तस्मादम्भोधराद् घोराद् ब्रह्माण्डं स्फोटयन्निव। निपपाताऽशनिस्तस्मिन् यक्षे राज्यधरीकृते ॥२३३।। यथा यक्षे तडित्पातस्तत्र नैमित्तिके तथा। रत्नादिवृष्टिरभवद्विहिताऽन्तःपुरादिभिः ॥२३४॥ पत्तनं पद्मिनीखण्डमखण्डितमहर्द्धिकम् । दत्वा नैमित्तिकवरो व्यसृज्यत मयाऽपि हि ॥२३५।। मूर्तिं वैश्रवणस्याऽपि दिव्यरत्नमयीं नवाम् । अकारयमहं सद्यो विपद्वन्धुः स मे यतः॥२३६।। मद्विघ्नशान्त्या तदमी पौराऽमात्यादयो मुदा । महोत्सवं विदधते सर्वोत्सवशिरोमणिम् ॥२३७।। इति श्रुत्वाऽमिततेजाः सुतारां भगिनी निजाम् । वस्त्रालङ्कारदानेन पूजयामास सम्मदात् ।।२३८॥ सुतारा-श्रीविजययो: पार्श्वे कालं कमप्यथ। अतिवाह्याऽमिततेजा: स्वमेव नगरं ययौ ॥२३९।। पाअथ श्रीविजयो राजा देव्या सह सुतारया । वनं ज्योतिर्वनं नाम ययौ क्रीडाकुतूहलात् ॥२४०।। तदा च कपिलजीवोऽशनिघोषो विहायसा। विप्रतारणिकां विद्या साधयित्वा समापतन् ॥२४१॥ रममाणां समं पत्या पंतिवत्नीं सुलोचनाम् । देवीं सुतारामैक्षिष्ट प्राग्जन्मगृहमेधिनीम् ।।२४२॥युग्मम्।। तत: प्राग्जन्मसंस्कारात् सम्बन्धमविदन्नपि । चक्रेऽनुरागादुत्कण्ठां तस्यां स्वस्यामिव स्त्रियाम् ।।२४३॥ विद्याबलाद्विचक्रे च प्लवमानं तयो: पुरः। दिव्यकन्दुकवद्धैम हरिणं नेत्रहारिणम् ॥२४४।। १. व्यवस्थां पाता. विना सर्वत्र ।। २. छागवत् ।। ३. गिरेः गुहा गिरिगुहा, गिरिगुहायां इति अन्तर्गिरिगुहम् ॥ ४. उपायः ॥५. अवश्यभोग्यफलानाम् ॥ ६. तेनाल्यातस्तडित्पातो ता. ॥७. विद्युत् ।। ८. यातु तेन वः मुप्र. ॥ ९. प्रशशंसेति ता. ॥ १०. यनिमित्तज्ञानतोऽपि खंता. वा.१-२ ता. पा. ॥ ११. कुरुध्वममु० मु. ।। १२. राजाऽप्युवाच ता. ॥ १३. निरपराधिनः ॥ १४. इन्द्रादारभ्य कीटपर्यन्तम् ॥ १५. क्रिमेः मु.,'क्रिमिना॑ कृमिवत् कीटे' (मेदिनीकोषे) ॥१६. कार्य द्वय० खंता. पाता. वा.१-२॥१७. कुबेरस्य ॥१८. तं च० वा.१-२॥१९. कुशासने ॥२०. कृतपोषध: खंता. पाता. ।। २१. स्वामिहिताय ॥ २२. स्फूर्जिगर्जित: दे. ॥ २३. राज्यधुरी० खंता. वा.१-२ ॥ २४. अराज्यधरो राज्यधरः कृतः राज्यधरीकृतः, तस्मिन् ।। २५. वैश्रवणस्याऽस्य ता. ॥ २६. हर्षात् , सन्मुदा ता. ॥ २७. उल्लध्य ।। २८. स्वकीयम् ।।२९. आगच्छन् ।। ३०. पतिरस्ति अस्याः सा, ताम् ।। ३१. पूर्वजन्मपत्नीम् ॥ ३२. सौवर्णम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org