________________
नां टन
प्रथमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । शक्यते न यदाख्यातुं तदाख्यातुमिहाऽऽगमम् । आख्याते हि प्रतीकारो भवेद्धर्मादिनाऽपि हि ॥१८१।। अस्मादह्नः सप्तमेऽह्नि मध्याह्नसमये ध्वनन् । अशनि: पोतनपुरेश्वरोपरि पतिष्यति ॥१८२।। तया कटुकया वाचा विषेणेवाऽतिघूर्णितः । पतिष्यति त्वयि किमित्युवाच सचिवाग्रणी: ॥१८३॥ नैमित्तिकोऽप्यभाषिष्ट मह्यं सचिव! मा कुप: । शास्त्रदृष्टं वचो वच्मि भावदोषोऽत्र मे न हि ॥१८४॥ तस्मिन् दिने मयि पुनर्वसुधारासहोदरा । वस्त्रा-भरण-माणिक्य-स्वर्णवृष्टिः पतिष्यति ॥१८५॥ मयाऽप्यभिहितो मन्त्री माऽस्मै कुप्य महामते! । उपकारी प्रणिधिवद् यथार्थकथनादयम् ॥१८६।। नैमित्तिक! परं ब्रूहि निमित्तं शिक्षितं कुत:? | निराम्नायस्य वचसि श्रद्धा न प्रत्ययं विना ॥१८७।। नैमित्तिकोऽप्यभाषिष्ट क्षमाधव! श्रूयतां तदा। बलदेवेन देवेन प्रव्रज्यां गृह्णता सह ॥१८८॥ उपादत्त परिव्रज्यां शाण्डिल्यो नाम मे पिता। तदनु प्राव्रजमहं पितृवात्सल्यमोहितः ॥१८९॥ निमित्तजातमखिलं तेदेदं शिक्षितं मया। ज्ञानमव्यभिचारि स्यान्नान्यतो जिनशासनात् ॥१९०॥ लाभा-ऽलाभौ सुखं दु:खं जीवितं मरणं जयः । पराजयश्चेति वेद्मि निमित्तमहमष्टधा॥१९१।। सम्प्राप्तयौवनश्चाऽहं विहरन्नपरेऽहनि। अगमं पद्मिनीखण्डं नाम पत्तनमुत्तमम् ॥१९२॥ हिरण्यलोमिका नाम तत्र मम पितृष्वसा। वसत्युद्यौवना चन्द्रयशास्तदुहिताऽपि च ॥१९३॥
णी सा मे बालायाऽपि हि बालिकाम् । दीक्षालक्षणविघ्नेन विवाहस्त्वभवन्न हि॥१९४॥ तां दृष्ट्वा सानुरागोऽहं हित्वा भारमिव व्रतम् । पर्यणैषं विवेको हि स्मरातनां कियच्चिरम्? ॥१९५।। ज्ञात्वा स्वार्थ निमित्तेन महानर्थमिमं च ते। अत्राऽऽगममहं राजन्! यज्जानासि कुरुष्व तत् ॥१९६।। इत्युदित्वा स्थिते तस्मिंस्तत्क्षणं राजरक्षणे । अभूवन् बुद्धिमन्तोऽपि व्याकुला: कुलमन्त्रिणः ॥१९७॥ पातत्रैक: सचिवोऽवोचद्विद्युत्पातोऽर्णवे न हि । सप्ताहं तत्र तत् स्वामी नावमारुह्य तिष्ठतु ॥१९८।। द्वितीयोऽप्यब्रवीन्मन्त्री नेदं मे प्रतिभासते। पतन्तीं विद्युतं तत्र हन्त को वारयिष्यति? ॥१९९॥ वैताढ्ये नाऽवसर्पिण्यां विद्यत्पातो यतस्ततः। तस्योपरि गुहां गत्वा सप्ताहं वसतु प्रभुः ॥२०॥ मन्त्र्यवोचत ततीयोऽपि मह्यं नाऽदोऽपि रोचते। अवश्यभावी यो ार्थो यत्र तत्र सनाऽन्यथा ॥२०१।।
तथा ह्यत्रैव भरते पुरे विजयनामनि । अवात्सीद् ब्राह्मणवरो रुद्रसोमोऽभिधानतः ॥२०२॥ अनपत्यस्य तस्याथ महद्भिपयाचितैः । पत्न्यां ज्वलनशिखायां शिखी नाम सुतोऽभवत् ॥२०३॥ एकदा राक्षसस्तत्र कश्चिदप्यतिदारुणः । अधिष्ठित: क्रूरदैवेनाऽऽगान्मर्त्यपलप्रियः ॥२०४|| मानुषाण्यन्वहं तत्र बहूनि प्रणिहन्ति सः। अल्पं तु ग्रसते शेषं फेलामिव समुज्झति ॥२०५।। राजा जजल्प तं साम्ना किं मुधा हंसि नृन् बहून्? । घ्नन्ति व्याघ्रादयोऽप्यज्ञा जन्तुमेकं क्षुदौषधम् ॥२०६॥ दिने दिने त्वयाऽप्येकं ग्राह्यं ग्रासाय मानुषम् । मन्निीतेन वारेण तत्तत्र स्वयमेष्यति॥२०७।। तेनाऽभ्युपगतेऽर्थेऽस्मिन्नृपः स्वपुरवेश्मसु । मानुषाणां नामगोलांश्चक्रे वारकहेतवे ॥२०८॥ कृष्यमाण: करे गोलो यदा यस्य चटेत् तदा । प्रयाति पुररक्षायै भक्ष्यभूत: स रक्षसे ॥२०९।। तस्य ब्राह्मणपुत्रस्य निर्ययौ गोलकोऽन्यदा। तन्नाम वाचितं चान्तरन्तकेनेव पत्रकम् ॥२१०॥ तच्छ्रुत्वा तस्य माता तु रोदयन्ती पशूनपि। हा पुत्र! नाऽसि नाऽसीति रुरोद करुणस्वरम् ॥२११।। आसीच्च तद्गृहासन्नमेकं भूतगृहं महत् । तद्भूतैः क्रन्दितं तस्याः शुश्रुवे कर्णदुःश्रवम् ॥२१२॥ उत्पन्नकरुणैस्तैश्च जगदे ब्राह्मणीति सा। मा रोदीर्भव सुस्था त्वं त्वत् पुत्रो यातु रक्षसे ॥२१३।। १. विद्युत् ॥ २. विषेणेव स चूर्णित: ता.। अतिभ्रान्तः ।।३. भाव! द्वेषोऽत्र मे न हि मुप्र.॥४. चरवद् ।।५. तदिदम् खंता. पा. ला.॥६. अनन्यथा ॥७. दत्तपूर्विणीम् सं. ला., पूर्वं दत्तवती ।। ८. कामपीडितानाम् ।। ९. बभूवुर्बुद्धिमन्तोऽपि ता. ॥१०. समुद्रे ।। ११. सप्ताही खंता. ॥१२. अवसत् ।। १३. 'बाधा-मानता' इति भाषायाम् ॥ १४. क्रूरदेव० मु. पा. छा. ॥ १५. मर्त्यपलं मनुष्यमांसं प्रियं यस्य सः ॥१६. उच्छिष्टमिव ।। १७. सान्त्वनेन ।। १८. क्षुधाशमनौषधम् ॥१९. यमेन ॥ २०. नामावली॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org