________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व पास चाऽभिनन्दिताजीवश्च्युत्वा सौधर्मकल्पतः । त्रिपृष्ठ-स्वयम्प्रभयोः पुत्रत्वेनोदपद्यत ॥१४८॥ यत् स्वप्ने साभिषेका श्रीर्गर्भस्थेऽत्राम्बयेक्षिता। तेन श्रीविजय इति तस्य नाम पिता व्यधात् ॥१४९॥ स्वयम्प्रभायास्तनयो द्वैतीयीकोऽप्यजायत । नामतो विजयभद्रो जयभद्रनिकेतनम् ॥१५०॥ स शिखिनन्दिताजीवश्च्युत्वा प्रथमकल्पतः । त्रिपृष्ठ-स्वयम्प्रभयोः पुत्री ज्योतिष्प्रभेत्यभूत् ।।१५१॥
सत्यभामापति: पूर्वं कपिलो नाम योऽभवत् । संसार से चिरं भ्रान्त्वा तिर्यगादिषु योनिषु ॥१५२।। पुर्यां चमरचञ्चायां विद्याधरनरेश्वरः । अजायताऽशनिघोष इति नाम्नेह विश्रुतः ॥१५३||युग्मम्।।
अर्ककीर्तिर्दुहितरं सुतारां तारलोचनाम् । त्रैपृष्ठिना श्रीविजयनाम्ना स्वां पर्यणाययत् ॥१५४॥ ज्योतिष्प्रभां त्रिपृष्ठोऽपि स्वपुत्रीमतिसुन्दरीम् । व्यवाहयदर्ककीर्तिपुत्रेणाऽमिततेजसा ॥१५५॥ सुतारया श्रीविजयो भुङ्क्ते वैषयिकं सुखम् । समं च ज्योतिष्प्रभयाऽमिततेजा महाभुजः ॥१५६।। नाअन्यदा रथनूपुरचक्रवालाभिधे पुरे। विशाले बहिरुद्याने श्रिया सौमनसोपमे ॥१५७।। त्रयोऽभिनन्दन-जगन्नन्दनावग्निजट्यपि । ज्ञानादीनीव रत्नानि मूर्त्तानि समवासरत् ॥१५८॥युग्मम्।। ज्ञात्वाऽर्ककीर्तिरायातं गुरुं गुरुगुरू अपि । एत्याऽवन्दिष्ट नोत्कण्ठा विलम्बं सहते क्वचित ॥१५९।। अथाभिनन्दनमुनिर्विदधे धर्मदेशनाम् । महामोहहिमस्तोमविद्रावणरविप्रभाम् ॥१६०॥ तया देशनया चाऽर्ककीर्तिर्वैराग्यभाग्भवे। रचिताञ्जलिरित्यूचेऽभिनन्दनमहामुनिम् ॥१६१॥ तावदागमयस्वेह यावताऽमिततेजसम् । निजे राज्य निवेश्याऽहमायामि व्रतहेतवे ॥१६२॥ न प्रमादो विधातव्य इति शिष्टो महर्षिणा । अर्ककीर्तिर्ययौ धाम प्रागनुस्यूतमानसः॥१६३॥ भूयो भूयः सनिर्बन्धमभ्यर्थ्याऽमिततेजसम् । राज्यमग्राहयदयं क्रमो जनकपुत्रयोः ॥१६४॥ कृतनिष्क्रमण: सोऽथ नृपेणाऽमिततेजसा । परिव्रज्यामुपादत्ताऽभिनन्दनमुनेः पुरः ॥१६५।। समं गुरुजनेनाऽथ विजहार वसुन्धराम् । अर्ककीर्ती राजमुनि: शमराज्यं प्रपालयन् ॥१६६॥ विद्याधरेन्द्रमुकुटोद्धृष्टपादाम्बुजासनः । तेजस्वी सोऽमिततेजा: पित्र्यां राज्यधुरां दधौ ॥१६७॥ इतश्चान्ते त्रिपृष्ठस्य शुचा वैराग्यमुद्वहन् । राज्ये श्रीविजयं न्यस्य प्रव्राजाऽचलो बलः ॥१६८।। नरेश्वरैरज़मानो विजयश्रीस्वयंवरः । तत: श्रीविजयो विश्वं पित्र्यं राज्यमपालयत् ॥१६९॥
अन्यदा चाऽमिततेजास्तत्पोतनपुरं पुरम् । सुतारा-श्रीविजययोर्दर्शनोत्कण्ठितो ययौ ॥१७०।। नगरं तदपश्यच्चोत्पताका-मञ्च-तोरणम् । सञ्जातानन्दसाम्राज्यमनुत्तरविमानवत् ॥१७१॥ विशेषतो राजकुलं स हृष्टं वीक्ष्य विस्मित: । व्योमतोऽवातरत् तत्र समुद्र इव भास्करः॥१७२॥ अभ्युत्तस्थौ दूरतस्तं दृष्ट्वा श्रीविजयो नृपः। पूजाऽर्हाऽतिथिमात्रेऽपि किं पुनस्तादृशेऽतिथौ? ॥१७३।। परस्परं श्वशुर्यौ तौ मिथ: स्वसृपती च तौ। सस्वजाते मिथो गाढं प्रौप्रीतिसुधाह्रदौ ॥१७४।। महाय॑सिंहासनयोर्निषेदतुरुभावपि । पूर्वपश्चिमयोरद्रयोः सूर्या-चन्द्रमसाविव ॥१७५।। ततश्चाऽमिततेजास्तं पप्रच्छ स्वच्छमानस: । नाऽधुना कौमुदी नाऽऽग्रहायणी ग्रीष्मको न च ॥१७६।। वसन्तो नाऽपि नो पुत्रजन्माऽपि तव भूपते! । पुरं केनोत्सवेनेदमुद्यदानन्दमीक्ष्यते ? ॥१७७॥युग्मम्।। तत: श्रीविजयोऽशंसदितः प्रागष्टमे दिने । एको नैमित्तिकः कश्चिदागादीगामिवेदकः॥१७८॥ याचितुं किमिहाऽऽयासी:? समाख्यातुं किमप्यथ? । मयैवं सादरं पृष्ट इत्यभाषिष्ट स स्फुटम् ॥१७९।। जीवामो याचितेनैव वयं यद्यपि पार्थिव! । तथाऽपि याचितुं त्वत्त: साम्प्रतं न हि साम्प्रतम् ॥१८०॥ १. सिंहनन्दिताजीवश्च्युत्वा खंता. पाता. वा.१-२, सं. पा. ता. ॥२. सुचिरम् ला. ॥ ३. नाम्ना हि मु.॥ ४. श्रीविजयोऽभुक्त छा.मु. विना ।। ५. गुरुं-पितरं, गुरुगुरू-पितुर्गुरू ।। ६. महामोह एव हिमस्तोमः, तस्य विद्रावणे नाशने सूर्यप्रभासदृशीम् ।। ७. प्रतीक्षस्व ।। ८. गृहम् ।। ९. साग्रहम् ।। १०. ०मभ्यामिततेजसा पाता. वा.१-२ सं. ता. पा. छा. ॥११.मुनिजनेनाथ पा.।। १२. अर्ककीर्तिराज रसंपा.॥१३. शमराज्यमपालयत् दे. ।। १४. शोकेन ॥१५. प्रवव्राजाऽचलोऽचल: ला. पा. ॥१६. बलदेवः ।। १७. समग्रं पैतृकम् ।। १८. सामान्यातिथावपि पूजा योग्या ॥ १९. श्यालौ । २०. ०हि तौ खंता. पाता. वा.१-२॥ २१. प्रौढा प्रीति: एव सुधा तस्या हृदौ ।। २२. भविष्यवेत्ता ।। २३. योग्यम् ॥ २४. अधुना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org