________________
प्रथमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
तौ दृष्ट्वाऽचिन्तयत् पद्माऽप्यस्याः किमपि सुभ्रुवः । अहो ! सौभाग्यमेतौ यद्युध्येते हन्त तत्कृते ॥ ११६॥ तन्ममाऽप्यस्य तपसः प्रभावेण भवान्तरे । सौभाग्यमीदृशं भूयान्निदानमिति साऽकरोत् ॥११७॥ अन्ते साऽनशनं कृत्वाऽनालोचितनिदानिका । मृत्वा सौधर्म कल्पेऽभूदमरी विपुलर्द्धिका ॥११८॥ कनकश्रीर्भवं भ्रान्त्वा भवे दानाद्यनन्तरे । कृत्वा विद्याधरेन्द्र ! त्वं नाम्नाऽभूर्मणिकुण्डली ॥११९॥ भवं भ्रान्त्वा च कनकलता - पद्मलते अपि । दानादिधर्मं बहुधा विधाय प्राग्भवेषु च ॥ १२० ॥ जम्बूद्वीपस्य भरतेऽभूतां रत्नपुरे पुरे । इन्दुषेण-बिन्दुषेणौ श्रीषेणनृपतेः सुतौ ॥ १२१ ॥ युग्मम् ॥ पद्माजीवोऽपि सौधर्माच्च्युत्वा तत्रैव भारते । वेश्या बभूव कौशाम्ब्यामनन्तमतिकाभिधा ॥१२२॥ इन्दुषेण- बिन्दुषेणावनन्तमतिकाकृते । अधुना युध्यमानौ स्तस्तौ देवरमणे वने ॥ १२३॥ श्रुतपूर्वभवः सोऽहं स्नेहादिह समागमम् । विनिवारयितुं युद्धात् प्राग्जन्मज्ञापनेन वाम् ॥ १२४ ॥ अहं वां प्राग्भवे माता गणिकेयं पुनः स्वसा । बुध्येथां सर्वमप्येवं संसारे मोहजृम्भितम् ॥१२५॥ न ज्ञायते पिता माता स्वसा भ्राता पॅरोऽपि वा । हहा! जन्मान्तरतिरस्करिण्यन्तरितैर्जनैः ॥ १२६॥ यावज्जीवमसौ जीवः स्वं वेष्टयति देहजैः । राग-द्वेषादिभिर्लोलाजालकैरिव जालिकः ॥१२७॥ रागं द्वेषं च मोहं च तत्परित्यज्य दूरतः । निर्वाणनगरद्वारं प्रव्रज्यां श्रयतं द्रुतम् ॥१२८॥ अथ तावूचतुर्मोहादस्माभिः श्वापदैरिव । धिग् धिक् किमिदमारब्धं भगिनीभोगहेतवे ? ॥ १२९ ॥ त्वं नौ पूर्वभवे माता गुरुरस्मिन् भवे पुनः । आवां येनोत्पथादस्मात् प्रबोध्य विनिर्वैर्तितौ ॥१३०॥ इत्युक्त्वा मुक्तसन्नाहौ गुरोर्धर्मरुचेः पुरः । राज्ञां चतुर्भिः सहस्रैः समं जगृहतुर्व्रतम् ॥ १३१ ॥ तौ तपो-ध्यानवह्निभ्यां प्लुष्टकर्माध्वकण्टकौ । लोकाग्रं जग्मतुर्दुर्गं सरलेनैव वर्त्मना ॥१३२॥ श्रीषेणप्रमुखास्तेऽपि चत्वारो युग्मधर्मिणः । विपद्य प्रथमे कल्पे देवेंभूयं प्रपेदिरे ॥१३३॥' ||इतश्चाऽत्रैव भरते वैताढ्येऽस्ति नगोत्तमे । नगरं रथनूपुरचक्रवालमभिख्यया ॥१३४॥ तत्राऽभूज्ज्वलनजटी नाम विद्याधरेश्वरः । पुरन्दरानुज इव सनाथो विविधर्द्धिभिः ॥१३५॥ तस्याऽर्ककीर्तिस्तनयः प्रौढार्क इव तेजसा । युवराजोऽभवद् वैरिराज्यलक्ष्मीस्वयंवरः ॥ १३६ ॥ अन्वर्ककीर्ति 'समभूत् पुत्री तस्य स्वयम्प्रभा । प्रभेव शशिनो विश्वनयनानन्ददायिनी ॥१३७॥ प्रथमो वासुदेवानां प्राजापत्योऽचैलानुजः । त्रिपृष्ठ: पोतनपुरेश्वरः परिणिनाय ताम् ॥१३८ ।। तदा च वह्निजटिने स हृष्टः प्रथमो हरिः । ददौ विद्याधरश्रेणिद्वयराज्यमखण्डितम् ॥१३९॥ अर्ककीर्तेरभूत् पत्नी ज्योतिर्मालेति नामतः । दुहिता मेघवनस्य विद्याधरनरेशितुः ॥ १४० ॥ च्युत्वा श्रीषेणजीवोऽपि तदा सौधर्म कल्पतः । ज्योतिर्मालोदरे हंस इवाऽब्जे समवातरत् ॥१४९॥ ददर्श च तदा स्वप्ने प्रविशन्तं निजे मुखे । सहस्ररश्मिममिततेजसं द्योतिताम्बरम् ॥ १४२॥ समयेऽसूत सा सूनुं पुण्यलक्षणलक्षितम् । साम्राज्यभवनाधारसुदृढस्तम्भमुच्चकैः ॥१४३॥ दृष्टस्वप्नानुमानेन पितरौ तस्य चक्रतुः । नामाऽमिततेजा इति मूर्त्याऽप्यमिततेजसः ॥१४४॥ न्यस्याऽर्ककीर्तौ स्वं राज्यं प्राव्राजीद् वह्निजट्यथ । चारणर्षिजगन्नन्दना -ऽभिनन्दनयोः पुरः || १४५|| || जीवोऽपि सत्यभामायाश्च्युत्वा सौधर्म कल्पतः । ज्योतिर्माला - सूर्यकीर्त्योः पुत्रीत्वेनोदपद्यत ॥१४६॥ गर्भस्थायामिहाऽपश्यत् सुतारां जननी निशाम् । इति तस्याः सुतारेति पितरौ नाम चक्रतुः ॥ १४७॥
२१
१. अनालोचितं निदानं यया सा ॥। २. पूर्वस्मिन् भवे दानादि कृत्वा ॥ ३. विद्याधरेन्द्रस्त्वम् ता.पा.मु. ॥ ४. खंता. पाता. वा. १ - २ प्रतिषु नास्ति ।। ५. युवाम् ।। ६. मोहविलसितम् ।। ७. परेऽपि सं. ला.; ०ऽपरो० खंता.; ०ऽपरे० पाता. ॥ ८. जन्मान्तरमेव तिरस्करिणी जवनिका तया अन्तरितैः छन्नैः ॥ ९. संवेष्टयति मु. ॥ १०. ० दिभिर्ला लाजालिकैरिव पा. ॥ ११. लूता (करोळियो) ।। १२. आवयोः ॥ १३. उन्मार्गात् ॥ १४. निवारितौ ।। १५. मुक्त: सन्नाह:- कवचप्रभृति याभ्यां तौ ।। १६. प्लुष्टाः दग्धा: कर्माणि एव अध्वकण्टका मोक्षमार्गकण्टका याभ्यां तौ ॥ १७. दुर्गं दुर्गमम् ॥ १८. श्रीषेणाऽभिनन्दिता - शिखिनन्दितासत्यभामाः ॥ १९. युगलिकाः ॥ २०. देवत्वम् ॥ २१. खंता. प्रतौ अत्रैवं टिप्पणी '३ भवे' ।। २२. विविधर्द्धिभिः सहितो विष्णुरिव ।। २३. अर्ककीर्तेः पश्चात् ॥ २४. प्रजापतेः अपत्यम् ।। २५. बलानुजः छा. दे. ॥ २६. वासुदेवः त्रिपृष्ठः ॥ २७. महास्वप्ने ता. ॥
For Private Personal Use Only
Jain Education International
www.jainelibrary.org