________________
॥सप्तमः सर्गः॥
अथ राम: ससौमित्रिः सुग्रीवाद्यैर्वृतो भटैः। लङ्काविजयायात्रायै प्रतस्थे गगनाध्वना॥१॥ भामण्डलो नलो नीलो महेन्द्रः पावनञ्जयिः । विराधश्च सुषेणश्च जाम्बवानङ्गदोऽपि च ॥२॥ महाविद्याधराधीशा: कोटिशोऽन्येऽपि तत्क्षणम् । चेलूराम समावृत्य स्वसैन्यैछन्नदिङ्मुखाः॥३॥युग्मम्।। विद्याधरैराहतानि यात्रातूर्याण्यनेकशः । नादैरत्यन्तगम्भीरैर्बिभराञ्चकुम्बरम्॥४॥ विमानैः स्यन्दनैरश्वैर्गजैरन्यैश्च वाहनैः।खे जग्मुः खेचरा: स्वामिकार्यसिद्धार्कयवः ।।५।।
उपर्युदन्वतो गच्छन् ससैन्यो राघवः क्षणात्। वेलन्धरपुरं प्राप वेलन्धरमहीधरे ।।६।। समुद्र-सेतू राजानौ समुद्राविव दुर्धरौ । तत्र रामाग्रसैन्येनाऽऽरेभाते योद्धमुद्धतौ॥७॥ नल: समुद्र सेतुं च नीलोऽबध्नान्महाभुजः। उपराममनैषीच्च मनीषी स्वामिकर्मणि ॥८॥ काकुत्स्थ: स्थापयामास तथैव पुनरेव तौ। रिपावपि पराभूते महान्तो हि कृपालवः ॥९॥ समुद्रोऽपि हि रूपाभिरामारामानुजन्मने। रामार्मतल्लिकास्तिस्र: प्रददौ निजकन्यका:॥१०॥ उषित्वा तां निशांसेतु-समुद्रानुगत: प्रगे।क्षणादासादयामाससुवेलाद्रिं रघूद्वहः॥११॥ सुवेलं नाम राजानं जित्वा तत्राऽपि दुर्जयम् । उवासैकां निशांराम: प्रातर्भूयश्चचाल च॥१२।। उपलङ्कमथो हंसद्वीपे हंसरथं नृपम् । जित्वा तस्थौ कृतावासस्तत्रैवरघुपुङ्गवः ॥१३॥ [आसन्नस्थेऽथ काकुत्स्थे मी स्थित इवाऽर्कजे। लङ्का क्षोभमुपेयाय विष्वक् प्रलयशङ्किनी॥१४॥ पन्नह्यन्ति स्म युद्धाय सामन्ता रावणस्य ते। हस्त-प्रहस्त-मारीच-सारणाद्याः सहस्रशः॥१५॥ रावणो रणतूर्याणि दारुणान्यथ कोटिशः । किङ्करैस्ताडयामास द्विषत्ताडनपण्डितः॥१६।। तदा दशास्यमभ्येत्य नत्वा चोचे बिभीषणः । क्षणं प्रसीद विमृशशुभोदकं वचो मम॥१७।।
अविमृश्य पुरा चक्रे लोकद्वितयघातकम् । परदारापहरणं लज्जितं तेन ते कुलम्॥१८॥ निजभार्यां समानेतुं काकुत्स्थोऽयमुपस्थितः । आतिथ्यमिदमेवाऽस्मै तत्कलत्रार्पणं कुरु॥१९॥ सीतां त्वत्तोऽन्योंकारमपि रामो ग्रहीष्यति। निग्रहीष्यति चाऽशेषं त्वया सह कुलं तव॥२०॥ दूरे स्तां राम-सौमित्री तौ साहस-खरान्तकौ। तत्पत्तिरेको हनुमान् दृष्टो देवेन किं न हि ? ॥२१॥ इन्द्रश्रियोऽधिका श्रीस्ते तां सीताकारणेन मा। परिहार्षी वेदेवमुभयभ्रष्टता तव॥२२॥ अथेन्द्रजिदुवाचैवं त्वया ह्याजन्मभीरुणा। दूषितं न: कुलं सर्वं नाऽसि तातस्य सोदरः।।२३।। इन्द्रस्याऽपि विजेतारं नेतारं सर्वसम्पदाम् । तातं सम्भावयन्नेवं नूनं मूर्ख! मुमूर्षसि ॥२४॥ पुराऽपि च्छलितस्तातस्त्वया ह्यनृतभाषिणा। प्रतिज्ञाय दशरथवधं यदकृथा न हि॥२५।। इहाऽऽयातं दाशरथिं ताताद् रक्षितुमिच्छसि। दर्शयन् भयमुत्पाद्य भूचरेभ्योऽपि निस्त्रप! ॥२६।। तन्मन्येरामगृह्योऽसिमन्त्रेऽप्यधिकरोषि न। आप्तेन मन्त्रिणा मन्त्र: शुभोदर्को हि भूभुजाम् ॥२७।। बिभीषणोऽप्युवाचैवंशत्रुगृह्यो न खल्वहम् । पुत्ररूपस्तु शत्रुस्त्वमुत्पन्नः कुलनाशकृत् ॥२८॥ अयमैश्वर्य-कामाभ्यामन्धस्तावत् पिता तव। जन्मान्ध इवरे मुग्ध! दुर्धास्य! त्वं तु वेत्सि किम् ? ॥२९।। राजन्ननेन पुत्रेण चरित्रेण निजेन च। पतिष्यस्यचिरादेव तम्यामि त्वत्कृते मुधा॥३०॥ १. पवन० ला. ॥२. स्वसैन्यच्छन्न० ता. ॥३. “अहङ्कारिणः” इति ला.टि. ॥ ४. समुद्रस्य॥५. बुद्धिमान् ॥ ६. रामासु-स्त्रीषु मतल्लिका:-श्रेष्ठाः ।।७.
स्तथैव पाता. ॥ ८. मीनराशिगते । ९. "शनौ" इति ला.टि. ॥१०. सज्जीभवन्ति ॥११. नत्वाऽवोचद् बि० मु.॥१२. अन्यप्रकारेण ॥१३. मरणमिच्छसि ॥१४. ०भाषया मो. ॥१५. रामपक्षपाती ॥१६. मन्त्राणामप्यनधिकारी॥१७. शत्रुपक्षीयः॥१८. बाल! ॥१९. खिन्नो भवामि ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org