________________
१८६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व विद्याधरसहस्रेस्ते चतुर्दशभिरावृताः। ततोऽभ्येयुरुपद्रोतुं रामं शैलमिव द्विपा: ॥४१२॥ किमार्य: सत्यपि मयि योत्स्यते स्वयमीदृशैः ? । इति राममयाचिष्ट तेषां युद्धाय लक्ष्मणः ।।४१३।। गच्छ वत्स! जयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं ममाऽऽहूत्यै कुर्या इत्यन्वशात् स तम् ।।४१४॥ रामाज्ञां प्रतिपद्योच्चैर्लक्ष्मणोऽथ धनु:सखा । गत्वा प्रववृते हन्तुं स तांस्तार्क्ष्य इवोरगान् ॥४१५॥ प्रवर्धमाने तद्युद्धे स्वभर्तुः पाणिवृद्धये । गत्वा त्वरितमित्यूचे रावणं रावणस्वसा ।।४१६॥ आयातौ दण्डकारण्ये मनुष्यौ राम-लक्ष्मणौ । अनात्मज्ञौ निन्यतुस्ते जामेयं यमगोचरम् ।।४१७॥ श्रुत्वा स्वसृपतिस्ते तु सानुजः सबलो ययौ। तत्र सौमित्रिणा सार्धं युध्यमानोऽस्ति सम्प्रति ॥४१८॥ कनिष्ठभ्रातृवीर्येण स्ववीर्येण च गर्वितः । परतोऽस्ति स्थितो रामो विलसन् सीतया सह ॥४१९॥ सीता च रूपलावण्यश्रिया सीमेव योषिताम् । न देवी नोरगी नाऽपि मानुष्यन्यैव काऽपि सा ॥४२०।। तस्या दासीकृताशेषसुरासुरवधूजनम् । त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरम् ॥४२१।। आसमुद्रममुद्राज्ञ! यानि कान्यपि भूतले। तवैवाऽर्हन्ति रत्नानि तानि सर्वाणि बान्धव! ॥४२२।। दृशामनिमिषीकारकारणं रूपसम्पदा । स्त्रीरत्नमेतद् गृह्णीया न चेत् तन्नाऽसि रावणः ॥४२३॥ आरुह्य पुष्पकमथाऽऽदिदेश दशकन्धरः । विमानराज! त्वरितं याहि यत्राऽस्ति जानकी ॥४२४।। ययौ चाऽत्यन्तवेगेन विमानमनुजानकि । स्पर्धयेव दशग्रीवमनसस्तत्र गच्छतः॥४२५।। दृष्ट्वाऽपि रामादत्युग्रतेजसो दशकन्धरः । बिभाय दूरे तस्थौ च व्याघ्रो हुतवहादिव॥४२६।। इति चाऽचिन्तयदित: कष्टं रामो दुरासदः । इतश्च सीताहरणं इतो व्याघ्र इतस्तटी ॥४२७॥ विमृश्य च ततो विद्यामस्मार्षीदवलोकनीम् । उपतस्थे च सा मङ्गु किङ्करीव कृताञ्जलिः ॥४२८।। ततश्चाऽऽज्ञापयामास तत्कालं तां दशाननः । कुरु साहाय्यमह्नाय मम सीतां हरिष्यतः॥४२९।। साऽवोचद् वासुकेौलिरत्नमादीयते सुखम् । न तु रामसमीपस्था सीता देवासुरैरपि ॥४३०।। उपाय: किन्त्वसावस्ति यायाद्येनैष लक्ष्मणम् । तस्यैव सिंहनादेन सङ्केतो ह्यनयोरयम्॥४३१॥ एवं कुर्विति तेनोक्ता वजित्वा परतस्ततः ।सा साक्षादिव सौमित्रि: सिंहनादं विनिर्ममे ॥४३२॥ सिंहनादं च तं श्रुत्वा रामो दध्यौ ससम्भ्रमः । जगत्यप्रतिमल्लो मे हस्तिमल्ल इवाऽनुजः ॥४३३।। तं न पश्यामि सौमित्रिर्येन प्राप्नोति सङ्कटम् । तस्य सङ्कटसङ्केतक्ष्वेडा त्वत्र निशम्यते ॥४३४॥ एवं वितर्कव्यग्रोऽभूदु यावद् रामो महामनाः । सीता लक्ष्मणवात्सल्यात् तावदेवमवोचत ॥४३५॥ आर्यपुत्र! किमद्याऽपि वत्से सङ्कटमागते। विलम्बसे ? द्रुतं गत्वा त्रायस्व ननु लक्ष्मणम् ॥४३६।। इत्यादि सीतावचनैः सिंहनादेन चेरित: । जगाम त्वरितं रामोऽशकुनान्यपमानयन् ॥४३७।। [अथोत्तीर्य दशग्रीवो विमाने पुष्पकाभिधे। आरोपयितुमारेभे रुदन्ती जनकात्मजाम् ॥४३८।। स्वामिन्येषोऽस्मि मा भैषीस्तिष्ठ तिष्ठ निशाचर! । रोषादिति वदन् दूराजटायुस्तमधावत ॥४३९॥ सत्रोटिनखकोटीभिर्निशाताभिर्महाखगः । चकर्ष रावणस्योर: सीरैः कृषिमहीमिव ॥४४०॥ तत: क्रुद्धो दशग्रीव: खड्गमाकृष्य दारुणम्। पक्षौ छित्त्वाऽपातयत् तं पतङ्गं पृथिवीतले ॥४४१।। निःशङ्कोऽथ दशग्रीव: सीतामारोप्य पुष्पके । चचाल नभसा तूर्णं पूर्णप्रायमनोरथः ॥४४२।। हा नाथ! विद्विषन्माथ! राम! हा वत्स! लक्ष्मण! । हा तातपादा! हा भ्रातर्भामण्डल! महाभुज! ॥४४३॥ सीता वो ह्रियतेऽनेन काकेनेव बलिश्छलात् । एवं सीता रुरोदोच्चै रोदयन्तीव रोद॑सीम् ॥४४४।। १.धनुःसख: मु.,खं.१-ला.,हे. कां.प्रभृतिषु च; धनुःसहायः॥२. गरुडः ॥३. “चमूपुष्टिपुष्टये" इति ला.टि.; पाणि: सेनापृष्ठभाग इत्यर्थः ॥४. अबुधौ॥५. भगिनीपुत्रम् ।। ६. युद्धभूमे(रम्॥७. मनुष्य० पात., मानुषी नैव ला. रसंपा. ।। ८. अनुपमम् ।। ९. आसमुद्रसमु० मु.; "अस्खलिताज्ञ" इति ला. टि. ॥१०. अमेरिव ।।११. दुष्प्रापः, तत्समीपं गन्तुंदुष्करमित्याशयः ॥१२. झटिति ॥ १३. देवी सुरै० पाता. ॥१४. येन-उपायेन एष राम: लक्ष्मणं-लक्ष्मणसमीपं गच्छेत् ॥१५. लक्ष्मणस्यैव ।। १६.प्राप्येत रसंपा. ॥ १७. "सिंहनादः"ला.टि. ॥१८.प्रेरित: खं.१।। १९. "चञ्चुः"ला.टि. ॥ २०.०निशिता० मु. खं.२, हे. का.प्रभृतिषु ।। २१. हलैः ।। २२.०मारोप्य मु.।। २३. पक्षिणम् ।। २४. त्वरितम् ।। २५. विद्विषत:-शत्रूनु मनाति ॥२६. रोदसी ता. स्वर्ग-पृथिव्यौ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org