________________
पञ्चमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। पाइत: पाताललङ्कायां खर-चन्द्रणखात्मजौ । शम्बूक-सुन्दनामानावभूतां नवयौवनौ ॥३७८।। पितृभ्यां वार्यमाणोऽपि दण्डकारण्यमन्यदा। शम्बूक: सूर्यहासासिसाधनार्थमुपेयिवान् ॥३७९॥ सोऽथ क्रौञ्चरवातीरे स्थित्वाऽन्तर्वंशगह्वरम् । वारयिष्यति मां यस्तं हनिष्यामीत्यवोचत ।।३८०॥ एकान्नभुग विशुद्धात्मा ब्रह्मचारी जितेन्द्रियः । अधोमुखो वटशाखानिबद्धचरणद्वयः ॥३८१।। विद्यां जपितुमारेभे सूर्यहासासिसाधिनीम् । सप्ताहाग्रद्वादशाब्द्या या सिद्धिमुपगच्छति ॥३८२।। एवं च तस्थुषस्तस्य वल्गुलीस्थानकस्पृशः । वर्षाणि द्वादशाऽतीयुश्चत्वारि दिवसानि च ॥३८३॥ सेडुकाम: सूर्यहास: प्रत्याकारतिरोहितः । स्फूर्जत्परिमलो व्योम्ना तत्राऽऽगाद् वंशगह्वरे ॥३८४।। क्रीडयेतस्ततो भ्राम्यंस्तत्र सौमित्रिराययौ। ददर्श सूर्यहासं च सूर्यस्येव करोत्करम् ॥३८५॥ तं खड्गमाददे सोऽथ प्रत्याकाराच्चकर्ष च । अपूर्वशस्त्रालोके हि क्षत्रियाणां कुतूहलम् ॥३८६।। तत्तीक्ष्णत्वपरीक्षार्थं तत्क्षणं तेन लक्ष्मणः। अभ्यर्णस्थां वंशजाली नललावं लुलाव च ॥३८७|| वंशजालान्तरस्थस्य शम्बूकस्याऽथ कर्तितम् । भूतले मौलिकमलं सोऽपश्यत् पतितं पुरः॥३८८।। प्रविवेशाऽग्रतो यावत् सौमित्रिर्वंशगह्वरम् । तावत् केबन्धमैक्षिष्ट वटशाखावलम्बिनम् ।।३८९।। अयुध्यमानोऽशस्त्रश्च पुमान् कोऽपि हतो मया। अमुना कर्मणा धिशामित्यात्मानं निनिन्द सः ॥३९०।। गत्वा च रामभद्राय तदशेषं शशंस स: । असिं च दर्शयामास रामोऽप्येवमभाषत ॥३९१॥ असावसि: सूर्यहास: साधकोऽस्य त्वया हतः । अस्य सम्भाव्यते नूनं कश्चिदुत्तरसाधकः ॥३९२॥ पाअत्राऽन्तरे दशग्रीवस्वसा चन्द्रणखाभिधा। मत्सूनो: सूर्यहासोऽद्य सेत्स्यतीति कृतत्वरा ॥३९३।। पूजापानान्नसहिता तत्र प्रमुदिता ययौ । ददर्श च शिर: सूनोश्छिन्नं लुलितकुण्डलम् ॥३९४॥युग्मम्।। क्वाऽसि हा वत्स! शम्बूक! शम्बूकेति रुदत्यथ। अपश्यल्लक्ष्मणस्यांऽह्रिन्यासपङ्क्तिं मनोहराम् ॥३९५।। मम सूनुर्हतो येन तस्येयं पदपद्धति: । इति तत्पदपद्धत्या द्रुतं चन्द्रणखा ययौ ॥३९६।। यावत् किञ्चिदगात् तावत् ससीता-लक्ष्मणं पुरः । नेत्राभिरामं रामं साऽपश्यत् तरुतले स्थितम् ॥३९७।। निरीक्ष्य रामं सा सद्यो रिरंसाविवशाऽभवत्। कामावेश: कामिनीनां शोकोद्रेकेऽपि कोऽप्यहो! ॥३९८।। कन्यारूपं विकृत्याऽथ नागकन्यासहोदरम् । सा मन्मथार्ता काकुत्स्थमुपतस्थे सेवेपथुः ।।३९९।। बभाषे रामभद्रस्तां भद्रे! कुत इहाऽऽगमः । दारुणे दण्डकारण्ये कृतान्तैकनिकेतने? ॥४००॥ साऽप्यूचेऽवन्तिराजस्य कन्याऽहं भवनोपरि । सुप्ता हृताऽस्मि केनाऽपि खेचरेण क्षेपान्तरे ॥४०१॥ इहाऽरण्ये समायातो दृष्टः सोऽन्येन केनचित् । विद्याधरकुमारेण जगदे चेति सासिना ॥४०२।। स्त्रीरत्नमपहृत्येदं चिल्लो हारलतामिव । क्व गमिष्यसि रे पाप! मत्युस्तेऽहमपस्थितः ॥४०३।। इत्युक्तः सोऽत्र मां मुक्त्वा तेनाऽस्यसि चिरं व्यधात् । उभावपि विपेदाते मत्तौ वनगजाविव ॥४०४॥ एकाकिनी कौन्दिशीका भ्राम्यन्त्यहमितस्ततः । प्राप्ता त्वां पुण्ययोगेन च्छायाद्रुमिव जङ्गले ॥४०५।। तन्मां परिणय स्वामिन्! कुमारी कुलसम्भवाम् । महत्सु जायते जातु न वृथा प्रार्थनाऽर्थिनाम् ।।४०६।। ध्रुवं मायाविनी काचिन्नटवद् वेषधारिणी। कूटनाटकमुत्पाद्याऽऽगाद् वञ्चयितुमत्र नः ॥४०७॥ चिन्तयन्ताविति चिरं बुद्धिसंवादिनौ मुखम्। अन्योऽन्यमीक्षाञ्चक्राते स्मेरीक्षौराम-लक्ष्मणौ ॥४०८॥युग्मम्।। अथ राम: स्मितज्योत्स्नापूरस्तबकिताधरः। तामित्यूचे सभार्योऽहमभार्यं भज लक्ष्मणम्॥४०९।। तयाऽर्थितस्तथैवैत्य लक्ष्मणोऽप्येवमब्रवीत्। आर्यं गता त्वमार्येव तदलं वार्तयाऽनया॥४१०॥ पसा याच्चाखण्डनात् पुत्रवधाच्च रुषिताऽधिकम् । आख्यद् गत्वा खरादीनां तत्कृतं तनयक्षयम् ॥४११॥ १. वंशजालमध्ये स्थित्वा ।। २.१२वर्ष-७दिन-पर्यन्ते॥३. वल्गुली-'वागोळ'-निशाचरपक्षिप्रकारः, तत्स्थानकं स्पृशति-तस्य॥४.प्रत्याकारं कोश:, 'म्यान' इति भाषायाम् ॥५. सूर्यहासासिं मु. ॥ ६. किरणसमूहम् ।। ७. नल:-धासविशेषः, तं यथा लुनाति तथा; नाललावं मु.॥ ८. शीर्षम् ।। ९. मस्तकरहितं देहम् ।।१०. रिंसा-रतिक्रीडेच्छा, तया परवशा॥११. “शोकस्याऽऽधिक्येऽपि" इति ला.टि. ॥१२. कामार्ता॥१३. सकम्पा॥१४. सदनोपरि रसंपा. ॥१५.
रात्रौ ।।१६. सखड्गेन ।। १७. “पक्षी" इति ला.टि.; समळी इति भाषा॥१८. मुक्त्वा खड्गाखगि चिरं हे., तेनाऽऽजिं सुचिरं मु.; "खड्गाखड्गि" Jain Educat इति ला.टि.।।१९. भयगता।।२०.विस्फारितनेत्रौ।।२१. गत्वा पाता. rivate & Personal use Only
www.jainelibrary.org