________________
१८४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
पुरन्दरयशो मुख्यलोकं बोधयितुं पुरे । कुम्भकारकटे यामीत्यापप्रच्छे स च प्रभुम् ॥३४३|| उवाच प्रभुरप्येवं तत्र ते मारणान्तिक: । गतस्य सपरीवारस्योपसर्गो भविष्यति ॥ ३४४॥ वयमाराधकास्तत्र भाविनो वा न वेत्यथ । भूयोऽपि स्कन्दकोऽपृच्छत् स्वामिनं मुनिसुव्रतम् ॥ ३४५॥ त्वां विनाऽऽराधकाः सर्वेऽपीत्याख्यद् भगवानपि । सर्वमेतर्हि सम्पूर्णमित्युक्त्वा स्कन्दकोऽचलत् ॥३४६॥ क्रमेण स्कन्दकाचार्यो मुनिपञ्चशतीयुतः । गच्छन्नासादयामास कुम्भकारकटं पुरम् ॥३४७॥
तं दृष्ट्वा पालकः क्रूरः संस्मरंस्तं पराभवम् । साधूपयोग्युद्यानेषु शस्त्राण्युर्व्यां न्यखानयत् ।। ३४८।। उद्याने स्कन्दकाचार्य एकस्मिन् समवासरत् । आययौ वन्दितुं तं च दण्डकः सपरिच्छदः ॥ ३४९॥ स्कन्दको देशनां चक्रे जहृषुर्बहवो जनाः । प्रहृष्टो देशनान्ते च वेश्माऽगाद् दण्डको नृपः ॥३५०॥ गत्वा रहसि राजानमित्यूचे पालकः कुधीः । स्वामिन्नेष बकाचार: पाखण्डी स्कन्दकः खलु ॥३५१॥ सहस्रयोधिभिः पुम्भिर्मुनिवेषधरैरसौ । त्वां हत्वा राज्यमादातुमागादिह महाशठः || ३५२॥ अत्रोद्याने स्वस्थाने च मुनिवेषैर्महाभटैः । छन्नं क्षिप्तानि शस्त्राणि दृष्ट्वा प्रत्येतु भूपतिः ॥३५३॥ ततश्चाऽखानयद् राजा मुनिस्थानानि सर्वतः । चित्राण्यस्त्राण्यपश्यच्च विषादं च परं ययौ ॥ ३५४ ॥ अविचार्य ततो राजाऽप्यादिदेशेति पालकम् । साधु मन्त्रिंस्त्वया ज्ञातं चक्षुष्मान् भवता ह्यहम् ॥ ३५५॥ कर्तुं त्वमेव जानासि दुर्मतेरस्य चोचितम् । तत्कुरुष्व न भूयोऽपि प्रष्टव्योऽहं महामते! ॥३५६॥ इत्युक्तः पालकः शीघ्रं गत्वा यन्त्रमकारयत् । स्कन्दकस्याऽग्रतः साधूनेकैकं च न्यपीलयत् ॥ ३५७|| निष्पील्यमानानेतांस्तु देशनापूर्वकं स्वयम् । अकारयत् स्कन्दकोऽपि सम्यगाराधनाविधिम् ॥ ३५८ ॥ उपयन्त्रं शिशौ नीते परिवारान्तिमे मुनौ । कारुण्यात् स्कन्दकाचार्य इत्यभाषत पालकम् ॥ ३५९ ॥ आदौ पीलय मामेव कुरुष्वैतद् वचो मम । बालं मुनिं न पश्यामि पील्यमानं यथा ह्यमुम् ॥ ३६० ॥ तत्पीडापीडितं ज्ञात्वा स्कन्दकं पालकोऽपि हि । तमेव बालकमुनिं तत्पीडार्थमपीलयत् ॥ ३६१ ॥ उत्पन्नकेवलाः सर्वेऽप्यवापुः पदमव्ययम् । प्रत्याख्याय स्कन्दकस्तु निदानमिति निर्ममे ॥३६२॥ दण्डकस्य पालकस्य तथा तत्कुल- राष्ट्रयोः । व्यापादनाय भूयासं तपसोऽस्य फलं यदि ।।३६३।। एवं कृतनिदानः सन् पीलित: पालकेन सः । देवो वह्निकुमारोऽभूत् कालाग्निरिव तत्क्षये ॥ ३६४॥ पुरन्दरयशोदत्तरत्नकम्बलतन्तुजम् । तद्रजोहरणं रक्तेनाऽक्तं शर्कुनिकाऽहरत् ॥३६५॥ दोर्दण्डबुद्ध्या यत्नेन गृहीतमपि तत् ततः । पुरः पुरन्दरयशोदेव्या दैवात् पपात च ॥३६६॥ विदाञ्चकार सा भ्रातुर्महर्षेर्विपदं ततः । किमकार्षीः पाप! पापमित्याक्रोशच्च दण्डकम् ॥ ३६७॥ तां शोकमग्नामुद्धृत्याऽनैषीच्छासनदेवता । मुनिसुव्रतपादान्ते प्रव्रज्यामाददे च सा ।। ३६८।। स्कन्दकाग्निकुमारोऽपि प्राग्जन्माऽवधिना विदन् । सपालकं सपूर्लोकमदहद् दण्डकं नृपम् ।।३६९।। तैदादि दण्डकारण्यमिदं दारुणमुद्वसम् । दण्डकस्याऽभिधानेन बभूव भुवि विश्रुतम् ॥ ३७० ॥ दण्डकोऽपि भवे भ्रान्त्वा दुःखैयोनिषु योनिषु । गन्धाख्योऽयमभूत् पक्षी महारोगी स्वकर्मभिः ॥ ३७१॥ अस्याऽस्मद्दर्शनाज्जातिस्मरणं समजायत । अस्मत्स्पर्शोषधीलब्ध्या रोगाश्च क्षयमासदन् ।। ३७२ ॥ तच्छ्रुत्वा मुदितः पक्षी भूयोऽपि मुनिपादयोः । पपात धर्मं चाऽश्रौषीच्छ्रावकत्वं च शिश्रिये ॥ ३७३ ॥ जीवघात - पैलाहार - रात्रिभोजनकर्मणाम् । प्रत्याख्यानं ददौ तस्येप्सितं ज्ञात्वा महामुनिः ॥ ३७४॥ इत्यूचे च मुनी रामं साधर्मिक इहैष वः । साधर्मिके च वात्सल्यमुक्तं श्रेयस्करं जिनैः ॥ ३७५॥ बन्धुर्न एष परम इत्युक्त्वा राघवेण 'तौ । वन्दितौ नभसोत्पत्य मुनी जग्मतुरन्यतः ||३७६।। तं दिव्यं रथमारुह्य जानकी - राम-लक्ष्मणाः । विजहुः क्रीडयाऽन्यत्र सहचारिजटायवः ॥ ३७७||
(सप्तमं पर्व
१. ० र्व्यामखानयत् मु., पाता. ला. ॥ २. स्वस्वस्थाने रसंपा. ॥ ३. “सनेत्रः” इति ला. टि. ॥ ४. यन्त्रसमीपम् ॥ ५. परिवारेऽन्तिमो मुनिः शिशुः, तत्र ॥ ६. भक्तप्रत्याख्यानं कृत्वा ।। ७. तथाऽत्र कुल० मु. खं. १ २, पाता. ला.; “तथा तत्कुल० " इति तु रसंपा. ॥ ८. रक्तेन व्याप्तम् ॥ ९. चिल्ली (समडी) ।। १०. Jain Educatio ततः प्रभृति ॥ ११. दुःखखानिषु मु. ॥। १२. मांसाहार ।। १३. न: - अस्माकम् ॥ १४. तु रसंपा. ॥। १५. सहचारी जटायुर्येषाम् ॥
www.jainelibrary.org