________________
पञ्चमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम्।
१८३ तप्यमानौ तपस्तीव्रमिहाऽऽयातौ महागिरौ । कायोत्सर्गेण चाऽस्थाव निरपेक्षौ वपुष्यपि॥३०८॥ पिताऽऽवयोर्वियोगेन गृहीत्वाऽनशनं मृतः । गरुडेशोऽभवद् देवो महालोचननामकः ॥३०९॥ विज्ञायाऽऽसनकम्पेन चोपसर्ग स आवयोः । सम्प्रत्ययमिहाऽऽयात: प्राग्जन्मस्नेहपीडितः ॥३१०॥ अनलप्रभदेव: सोऽनन्तवीर्यमहामुनेः । पार्श्वे केवलिनोऽगच्छत् सह देवैः कुतूहलात् ॥३११॥ देशनान्तेऽनन्तवीर्यः पृष्टः शिष्येण केनचित् । मुनिसुव्रततीर्थेऽस्मिन् कः पश्चात् तव केवली ? ॥३१२॥ सोऽप्याख्यन्मम निर्वाणे केवली कुलभूषणः । देशभूषण इति च भ्रातरौ द्वौ भविष्यतः ॥३१३।। तेच्चाऽनलप्रभः श्रुत्वा निजं स्थानमुपेत्य च । विभङ्गेनाऽन्यदा ज्ञात्वा कायोत्सर्गस्थिताविह ॥३१४।। मिथ्यात्वेनाऽनन्तवीर्यवचनं कर्तुमन्यथा। प्राग्जन्मवैराच्च स नावुपदुद्राव दारुणम् ।।३१५॥युग्मम्।। दिनान्यतीयश्चत्वारि तस्योपद्रवतो दृढम् । अद्याऽऽयातौ युवामत्र युष्मद्भीत्याउँनशच्च सः॥३१६।। कर्मक्षयादावयोश्च केवलं समजायत । कर्मक्षये सहायोऽयमुपसर्गपरोऽप्यभूत् ।।३१७।। महालोचनदेवोऽपि तदोचे गरुडाधिपः । काकुत्स्थ! साध्वकार्षीस्त्वं किं प्रत्युपकरोमि ते ? ॥३१८॥ नाऽर्थो न: कश्चिदप्यस्तीत्युक्ते रामेण सोऽमरः । तथाऽप्युपकरिष्यामि क्वाऽपीत्युक्त्वा तिरोदधे ॥३१९॥ अथ वंशस्थलाधीशो राजा नाम्ना सुरप्रभः । तत्राऽऽगत्य नमश्चक्रे राममानर्च चोच्चकैः ।।३२०॥ रामाज्ञया तत्र शैले सोऽर्हच्चैत्यान्यकारयत् । रामनाम्ना रामगिरिगिरिः सोऽभूत् तदादि च ॥३२१।।
सुरप्रभमथाऽऽपृच्छ्य प्रतस्थे रघुपुङ्गवः । उद्दण्डं दण्डकारण्यं प्रविवेशच निर्भयः॥३२२॥ विधाय तत्र चाऽऽवासं महागिरिगुहागृहे। काकुत्स्थ: सुस्थितस्तस्थौ स्वकीय इव वेश्मनि ॥३२३॥ तत्र भोजनवेलायामन्येद्युश्चारणौ मुनी। नाम्ना त्रिगुप्त-सुगुप्तौ नभसा समुपेयतुः ॥३२४॥ द्विमासोपोषितौ तौ तु पारणार्थमपस्थितौ । भक्त्या ववन्दिरे राम-सीता-सौमित्रयस्त्रयः ॥३२५।। यथोचितैरन्न-पानैः सीता तो प्रत्यलाभयत् । तदा देवैर्विदधिरे रत्न-गन्धाम्बुवृष्टयः ॥३२६।। तदा रत्नजटी कम्बुद्वीपविद्याधरेश्वरः । द्वौ सुरौ चैत्य रामाय प्रीता: साश्वं रथं ददुः ॥३२७।। गन्धाम्बुवृष्टिगन्धेन तत्र गन्धाभिध: खगः । उत्तीर्य पादपाद् रोगी तद्वास्तव्यः समाययौ ॥३२८।। सञ्जातजातिस्मरणो मुनेर्दर्शनमात्रतः । पपात मूर्च्छया भूमौ सीताऽम्भोभिः सिषेच तम् ॥३२९।। लब्धसज्ञ: समुत्थाय साधुपादेषु सोऽपतत् । साधोः स्पशौर्षधीलब्ध्या नीरोगश्चाऽभवत् क्षणात् ॥३३०।। पक्षौ हैमावजायेतां चञ्चुर्विद्रुमविभ्रमा । पद्मरागप्रभौ पादौ नानारत्नप्रभं वपुः ॥३३१॥ रत्नाङ्कुरश्रेणिनिभा जटा: शिरसि चाऽभवन् । जटायु म तस्याऽभूत् तत: प्रभृति पक्षिणः ॥३३२॥युग्मम्।। रामोऽपृच्छन्महर्षी तौ गृध्रः क्रव्यादयं कुधीः। स्थित्वा वः पादयो: पार्श्वे शान्त: कस्मादजायत? ॥३३३।। भदन्तावयमत्यन्तविरूपावयवः पुरा । कथमद्य क्षणाज्जातो हेमरत्नोत्करद्युति: ? ॥३३४॥
सुगुप्तर्षिरथाऽऽचख्यावासीदिह पुरा पुरम् । कुम्भकारकटं नाम राजा तत्रैष दण्डकः ॥३३५।। श्रावस्त्यां च तदा राजा जितशत्रुरजायत । धारिणी नाम तत्पत्नी स्कन्दको नाम तत्सुतः ॥३३६।। पुरन्दरयशी नामाऽभवच्च दुहिता तयोः । कुम्भकारकटेशस्तां पर्यणैषीच्च दण्डकः ॥३३७।। अन्यदाऽर्थेन केनाऽपि जितशत्रुनृपान्तिके । प्राहिणोद् दण्डको दूतं पालकं नामतो द्विजम् ॥३३८॥ जितशत्रुस्तदा चाऽर्हद्धर्मगोष्ठीपरोऽभवत् । आरेभे पालकस्तं तु धर्मं दूषयितुं कुधीः ॥३३९॥ स स्कन्दककुमारेण मिथ्यादृष्टिर्दुराशयः । युक्त्या निरुत्तरीचक्रे सत्यसंवादपूर्वकम् ॥३४०॥ तदा स हसित: सभ्यैरमर्ष स्कन्दकेऽदधत् । विसृष्टश्चाऽन्यदा राज्ञा कुम्भकारकटं ययौ ॥३४१॥ विरक्तश्चाऽन्यदा पञ्चराजपुत्रशतान्वितः । मुनिसुव्रतपादान्ते स्कन्दको व्रतमोददे ।।३४२।। १. पार्थ खं.१-२, ला. कां. छा. पा. ॥ २. तथाऽनल० ता. ॥ ३. विभङ्गतोऽन्यदा पाता. ॥ ४. अतिक्रान्तानि ।। ५. ०भीत्या ननाश स: ता. ।। ६. प्रभाते पाता. ॥७. मासक्षपणद्वयकारकौ ॥ ८. च आगत्य ॥९. प्रवालसदृशी रक्तेत्यर्थः ॥ १०. "मांसादः" इति ला.टि., मांसभक्षीत्यर्थः ।। ११. धारिणी मु.॥१२. ० यशोनामा० मो. ॥१३. ०शत्रुः सदा ला. ॥१४. सभ्य० रसंपा. ॥१५. व्रतमग्रहीत् मो. ॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org