________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत
(सप्तमं पर्व वयस्यस्तस्य दूतस्य वसुभूतिरिति द्विजः। उपयोगा तदासक्ताऽजिघांसदमृतस्वरम् ॥२७३।। नृपादेशाद् विदेशायाऽन्यदाऽगादमृतस्वरः । सह गच्छन् वसुभूतिर्मार्गे तं चाऽवधीच्छलात् ।।२७४।। वसुभूति: पुरीमेत्य जनायैवमवोचत । कुतोऽपि कार्यादमृतस्वरेणाऽहं निवर्तितः ॥२७५॥ शशंस चोपयोगाया: स नौ सम्भोगविघ्नकृत् । मया व्यापादितो मार्गे च्छलं लब्ध्वाऽमृतस्वरः ॥२७६।। साऽप्यूचे साध्वकार्षीस्त्वं जहि पुत्राविमावपि । अस्तु निर्मक्षिकमिति सोऽपि तत् प्रत्यपद्यत ॥२७७।। दैवाच्छुश्राव तं मन्त्रं वसुभूतिसधर्मिणी। ईर्ण्ययाऽऽख्यच्च तत्सून्वोर्मुदितस्योदितस्य च ॥२७८।। उदितेन रुषा सद्यो वसुभूतिनिपातितः। मृत्वैष नलपल्ल्यां स म्लेच्छ: समुदपद्यत ॥२७९।। इधर्मं श्रुत्वाऽन्यदा राजा महर्षेर्मतिवर्धनात् । प्रव्रज्यामाददे तावप्युदितो मुदितोऽपि च ॥२८०५ सम्मेते वन्दितुं चैत्यान्युदितो मुदितोऽपि च । प्रचेलतुः पथि भ्रान्तौ पल्ली तां च संमेयतुः ।।२८१।। पूर्ववैराद् वसुभूतिजीवो म्लेच्छो निरीक्ष्य तौ । हन्तुं दधावे म्लेच्छाधिपतिना च न्यषिध्यत॥२८२।। म्लेच्छेश: प्राग्भवे सोऽभून्मृगो व्याधाच्च मोचितः । मुदितोदितजीवाभ्यां कैर्षकाभ्यां च तद्भवे ।।२८३।। तेन म्लेच्छाधिपेनाऽतस्त्रातौ सम्मेतमेत्य च। तौ चैत्यानि ववन्दाते विजह्राते चिराय च ॥२८४।। विधायाऽनशनं मृत्वा महाशुक्रे सुरोत्तमौ । तौ सुन्दर-सुकेशाख्यावजायेतां महर्द्धिकौ ।।२८५।। पभ्रान्त्वा भवं वसुभूतिजीवो म्लेच्छ: कथञ्चन । अवाप मानुषं जन्म तत्र सोऽभूच्च तापसः ।।२८६।। स विपद्य समुत्पेदे ज्योतिष्केषु सुरेषु तु । धूमकेतुर्नाम देवो मिथ्यादृष्टिर्दुराशयः ॥२८७।। उदित-मुदितजीवौ शुक्राच्च्युत्वाऽत्र भारते। महापुरेऽरिष्टपुरे प्रियंवदमहीपतेः ॥२८८।। पद्मावत्यां सधर्मिण्यामजायेतामुभौ सुतौ । विख्यातौ नौमतो रत्नरथ-चित्ररथाविति ।।२८९।। धूमकेतुरपि च्युत्वा पत्न्यां तस्यैव भूपतेः । बभूव कनकाभायां नाम्ना सूनुरनुद्वरः ॥२९०।। अभूत् समत्सरो रत्नरथे चित्ररथे च सः । तस्योपरि न मात्सर्यं बिभराञ्चक्रतुस्तु तौ ।।२९१।। न्यस्य रत्नरथे राज्यं यौवराज्यं द्वयो: पुन: । प्रियंवदः षड् दिनौनि प्रीयं कृत्वा सुरोऽभवत् ।।२९२।। राज्यं पालयतो रत्नरथस्यैको नृपो ददौ । श्रीप्रभां नाम कन्यां स्वां याचमानेऽप्यनुद्वरे ॥२९३॥ क्रुद्धोऽथाऽनुद्वरो रत्नरथस्योर्वीमलुण्टयत् । पातयित्वा रणे रत्नरथेन जगृहे च सः ॥२९४॥ विडम्ब्य बहुधा रत्नरथेन मुमुचेऽथ सः । तापसोऽभूच्च स्त्रीसङ्गान्मोघीचक्रे निजं तपः ॥२९५।। ततो मृत्वा भवं भ्रान्त्वा चिरान्मयो बभूव स: । तापसीभूय भूयोऽपि चकाराऽज्ञानकं तपः ॥२९६।। मृत्वाऽनलप्रभः सोऽयं ज्योतिष्कस्त्रिदशोऽभवत् । दीक्षां रत्नरथ-चित्ररथौ जगृहतुश्च तौ ।।२९७|| विपद्य चाऽच्युते कल्पेऽतिबलोऽथ महाबलः । नामधेयेन जज्ञाते त्रिदशौ प्रवरद्धिकौ ॥२९८॥ च्युत्वा च सिद्धार्थपुरे क्षेमकरमहीपतेः । महिष्या विमलदेव्यास्तौ कुक्षाववतेरतुः ॥२९९।। क्रमादजनिषातां च विमलायामुभौ सुतौ । कुलभूषण एषोऽहं तथाऽयं देशभूषणः ॥३००॥ उपाध्यायस्य घोषस्याऽर्पितौ पाठाय भूभुजा। अपठाव कला: सर्वा द्वादशाब्दीमवस्थितौ ॥३०१॥ त्रयोदशेऽब्दे घोषेण सहाऽऽयान्तौ नृपान्तिके। राजवेश्मन्यपश्याव कन्यां वातायनस्थिताम् ॥३०२॥ जातानुरागौ तस्यां च सद्योऽपि विमनायितौ। अगमावाऽन्तिकं राज्ञोऽदर्शयावाऽखिला: कला:॥३०३।। उपाध्यायोऽर्चितो राज्ञा जगाम निजमन्दिरम् । आवां च मातरं नन्तुं गतौ राजाज्ञया ततः॥३०४॥ तत्र चाऽऽवामपश्याव तां कन्यां मातुरन्तिके। अशंसच्चाऽम्बा युवयोः स्वसेयं कनकप्रभा॥३०५॥ घोषोपाध्यायसदने युवयोस्तस्थुषोः सतोः । जातेयं वत्सौ! तेनेमां नोपलक्षयथो युवाम् ॥३०६।। तच्छ्रुत्वा लज्जितावावमज्ञानात् स्वसृकाङ्क्षिणौ । क्षणाद वैराग्यमापन्नौ प्राव्रजावाऽन्तिके गरोः ॥३०७।। १.०क्ता जिघांसुरमृत० ता.; हन्तुमैच्छत् ॥२. वधं कुरु ॥ ३. मक्षिकाणामभावो निर्मक्षिकम्, मक्षिकारहितं-निर्विघ्नमित्यर्थः ।।४. देवाच्छुत्वा च मु.॥५. तत्सूनो० पाता. ।। ६.०र्मुदितोदितयोस्तयोः ता. ॥७. मारितः ॥ ८. म्लेच्छपल्ल्यां ला.॥९. सम्मेतशिखरे ।। १०. समीयतु: हे. ॥११. सोऽभूत् खगो०
रसंपा. ।। १२. कृषीवलाभ्याम् ।। १३. विश्रुतौ मु.॥१४. नामतो विश्रुतौ ला.॥१५.०दिनाशनं कृत्वा० ता.॥१६.अनशनम्॥१७. मुमुचे च पाता.॥ Jain Education in८. विफलीचक्रे॥१९. सहायातौ ला.विना ।। २०. विमनस्कौ जातौ ||te & Personal use Only
www.jainelibrary.org