________________
पञ्चमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। घोरेभ्य: शपथेभ्यो यं त्वं कारयसि मानिनि!। तं करोमि 'पुनरिहाऽऽगमप्रत्ययहेतवे॥२३९।। न चेदायामि भूयोऽपि तदहं रात्रिभोजिनाम् । गृोऽहंसेति शपथं सौमित्रि: कारितस्तया ॥२४०॥
रात्रिशेषे ततो रामः ससीता-लक्ष्मणोऽचलत् । क्रमाद् वनानि लछित्वा प्राप क्षेमाञ्जलिं पुरीम् ॥२४१।। रामस्तदहिरुद्याने वैन्याहारैः फलादिभिः । बुभुजे लक्ष्मणानीतैर्जानकीकरसंस्कृतैः॥२४२।। तत्र राममनुज्ञाप्य कौतुकात् प्राविशत् पुरीम् । सौमित्रिस्तत्र चाऽश्रौषीदुच्चैराघोषणामिति ॥२४३।। शक्तिप्रहारं सहते योऽमुष्य पृथिवीपतेः । तस्मै परिणयनाय ददात्येष स्वकन्यकाम् ।।२४४॥ तेन चाऽऽघोषणाहेतुं पृष्ट एकोऽवदत् पुमान् । अत्राऽस्ति शत्रुदमनो नाम राजा महाभुजः ॥२४५।। तस्याऽस्ति कनकादेवीकुक्षिजा वरकन्यका। जितपद्येति पद्माया: सबैकं पद्मलोचना ॥२४६॥ वरस्यौज:परीक्षार्थमिदमारभ्यते ततः। प्रत्यहं क्ष्माभुजाऽनेन तादृक्षो नैति कोऽपि ना ॥२४७॥ श्रुत्वेत्थं लक्ष्मणोऽगच्छत् तं राजानं सभास्थितम् । कुतो हेतोः ? कुतस्त्यस्त्वं? तत्पृष्टश्चैवमब्रवीत् ।।२४८|| अहं भरतदूतोऽस्मि गच्छन्नर्थेन केनचित् । तव कन्यामिमां श्रुत्वा परिणेतुमिहाऽऽगमम् ॥२४९॥ सहिष्यसे शक्तिघातं ममेत्युक्तो महीभुजा। किमेकेन ? सहिष्येऽहं पञ्चेत्यूचे चे लक्ष्मणः ॥२५०॥ जितपद्मा तदानीं च तत्राऽऽगाद् राजकन्यका । बभूव लक्ष्मणं प्रेक्ष्य क्षणाच्च मदनातुरा ॥२५१॥ तया सद्योऽनुरागिण्या वार्यमाणोऽपि भूपतिः । चिक्षेप लक्ष्मणायाऽऽशु दुःसहं शक्तिपञ्चकम् ॥२५२।। द्वे कराभ्यां द्वे कक्षाभ्यां दन्तैरेकां च लक्ष्मणः । अग्रहीज्जितपद्याया: कन्याया मनसा सह ॥२५३॥ जितपद्माऽक्षिपत् तत्र स्वयं वरणमालिकाम् । उदह्यतामियं कन्येत्यब्रवीत् पार्थिवोऽपि तम्॥२५४॥ लक्ष्मणोऽप्यवदद् बाह्योपवनेऽस्ति ममाऽग्रजः । रामो दाशरथिस्तेन परतन्त्रोऽस्मि सर्वदा ॥२५५॥ तौ राम-लक्ष्मणौ ज्ञात्वा तत्क्षणं स क्षमापतिः । गत्वा रामं नमश्चक्रे स्ववेश्मन्यानिनाय च ॥२५६।। महत्या प्रतिपत्त्या स राजा राममपूजयत् । सामान्योऽप्यतिथि: पूज्य: किं पुन: पुरुषोत्तम: ? ॥२५७।। पततोऽपि चलिते रामे सौमित्रिस्तं महीपतिम् । उवाच परिणेष्यामि व्यावृत्तस्त्वत्सुतामिति ॥२५८॥ निशायां निर्ययौ राम: प्राप सायं च पत्तनम् । वंशस्थलं नाम वंशशैलाख्याद्रितटस्थितम् ॥२५९॥ तस्मिन् सभूपतिं लोकमालुलोके भयाकुलम् । पप्रच्छ च नरं कञ्चिद् रामस्तद्भयकारणम॥२६०॥ आचख्यौ पुरुष: सोऽपि तार्तीयीकोऽद्य वासरः । अमुष्मिन् पर्वते रात्रौ रौद्रस्योच्छलतो ध्वनेः ॥२६॥ तद्भयाद् रात्रिमन्यत्र गमयत्यखिलो जनः । प्रातश्च पुनरायाति कष्टा नित्यमियं स्थितिः ॥२६२।। ततश्च कौतुकाद् रामः प्रेरितो लक्ष्मणेन च । तत्राऽऽरुरोहाऽपश्यच्च कायोत्सर्गस्थितौ मुनी ।।२६३॥ भक्त्या ववन्दिरे तौ तु जानकी-राम-लक्ष्मणाः । तदग्रेऽवादयद्रामो गोकर्णार्पितवल्लकीम् ॥२६४॥ हृद्यं जगौ च सौमित्रिामरागमनोहरम् । चित्राङ्गहारकरणं सीता देवी ननर्त च ॥२६५॥ तदा चाऽस्तं ययावर्को जजृम्भे च विभावरी । विकृतानेकवेतालश्चाऽऽगाद् देवोऽनलप्रभः ॥२६६॥ स्वयं वेतालरूप: सोऽट्टहासैः स्फोटयन्नभः । महर्षी तावुपद्रोतुं प्रावर्तत दुराशयः॥२६७॥ मुक्त्वोपसाधु वैदेही सन्नद्धौ राम-लक्ष्मणौ । उत्तस्थाते तं निहन्तुमकाले कालतां गतौ ॥२६८॥ सोऽपि देवस्तयोस्तेज:प्रसरं सोढुमक्षमः । निजं स्थानं ययौ साध्वोस्तयोश्चाऽजनि केवलम् ॥२६९॥ देवैश्च केवलज्ञानमहिमा विदधे तयोः । नत्वा रामश्च पप्रच्छोपसर्गविधिकारणम् ।।२७०॥ पतत्राऽऽख्यदेको महर्षिराख्यया कुलभूषणः। आसीनगर्यां पद्मिन्यां राजा विजयपर्वतः ॥२७१॥ तस्याऽमृतस्वराख्योऽभूदु दूतो दूतस्य तस्य च। भार्योपयोगा तत्पुत्रावुदितो मुदितोऽपि च ॥२७२।। १. पुनः इह-त्वत्समीपे आगमनस्य प्रतीत्यर्थम् ।। २. “पापेन" इति ला.टि. ॥ ३. वने भवा वन्याः, तेषामाहारैः-आहारभूतैः ।। ४. संस्तुतैः खं.१-२, पाता.; परिचितैरित्यर्थः ॥५. लक्ष्मणेन ।। ६. चायोषणे हेतुं खं.१ ।। ७. लक्ष्म्या गृहम् ॥८. बलपरीक्षार्थम् ॥ ९. नरः ॥ १०.०णोऽवोचत् तं० खं.१ ।। ११. सहिष्यते पाता. ॥१२. स ता. ॥१३. तृतीयः ॥ १४. गोकर्णयक्षेण अर्पितां वीणाम् ।।१५. मधुरं गानं कृतवान् ॥१६. ०मनोरमम् ता. हे. ला. छा.
पा. ॥ १७. चित्रा:-विविधा: अङ्गहारा-भङ्गविक्षेपा:(हावभावाः) करणानि-तालताडनादीनि च यत्र यथा स्यात् तथेति-क्रियाविशेषणम् ।। १८. रात्रिः ।। Jain Education १९. उपसाधु-साधुसमीपे ॥२०. तमकाले निहन्तुं कालतां-यमत्वं गतौ, यमीभूतावित्यर्थः ||nly
www.jainelibrary.org