________________
१८०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व तत् सर्वसेनया गत्वाऽनुपलक्षित दौर्हदाः । अमुमेव हनिष्यामो भारतादिव शासनात्॥२०४॥ ऊचे रामोऽत्र तिष्ठ त्वं त्वत्सुतैः सबलैः सह। तत्राऽहमेव यास्यामि करिष्यामि यथोचितम् ॥२०५।। एवमस्त्विति तेनोक्तस्तत्पुत्रबलसंयुतः । नन्द्यावर्तपुरं रामः ससीता-लक्ष्मणो ययौ ।।२०६।। उषितं बहिरुद्याने रामं तत्क्षेत्रदेवता । अभाषत महाभाग! किमभीष्टं करोमि ते ? ॥२०७।। न न: किमपि कर्तव्यमित्युक्ते राघवेण तु । साऽभ्यधादेवमेतद्धि तथाऽप्युपकरोम्यदः॥२०८॥ अतिवीर्यो जित: स्त्रीभिरिति तस्याऽयशस्कृते। ससैन्यस्य करिष्यामि स्त्रीरूपं कोमिकं तव ॥२०९।। स्त्रीराज्यमिव तत्सैन्यं स्त्रीरूपमभवत् क्षणात् । स्त्रीरूपौराम-सौमित्री चाऽभूतां सुन्दराकृती ॥२१०॥ महीधरेण स्वं सैन्यं तव साहाय्यहेतवे। प्रैषीदमिति रामस्तं द्वा:स्थेनाऽज्ञापयन्नृपम् ॥२१॥ अतिवीर्योऽप्युवाचैवं स्वयं नाऽऽगान्महीधरः । कृतं तदस्य सैन्येन मुमूर्षोर्बहुमानिनः ॥२१२।। जेष्याम्येकोऽपि भरतं सहाया: किं ममाऽपि हि ? । निर्वास्यतां द्रुतमिदं तत्सैन्यमयशस्करम् ॥२१३।। अथाऽन्यः कश्चिदप्यूचे स्वयमागान्न केवलम् । स प्रत्युतोपहासाय स्त्रीसैन्यं प्राहिणोदिह ॥२१४॥ तच्छुत्वाऽतितरां क्रोधं नन्द्यावर्तेश्वरोऽकरोत् । स्त्रीरूपधारिणस्ते च रामाद्या द्वारमाययुः ॥२१५॥
आदिक्षदतिवीर्योऽपि दासीवदिमिका: स्त्रियः । गाढं गृहीत्वा ग्रीवासु निर्वास्यन्तां पुराद् बहिः ॥२१६।। समन्तात् तस्य सामन्ता उत्थाय सपदातयः । स्त्रीसैन्यं तदुपद्रोतुं प्रावर्तन्त महाभुजाः ॥२१७।। रामभद्रो भुजस्तम्भेनेभस्तम्भमथोच्चकैः । समुत्पाट्याऽऽयुधीकृत्य तान् समन्तादपातयत् ॥२१८॥ तेन सामन्तभङ्गेनाऽतिवीर्यः कुपितो भृशम् । रणाय स्वयमुत्तस्थे खामाकृष्य भीषणम् ॥२१९।। अथ तत्खड्गमाच्छिद्य लक्ष्मणस्तत्क्षणादपि । तमाचकर्ष केशेषु तद्वस्त्रेण बबन्ध च ।।२२०।। मृगं व्याघ्र इवाऽऽदाय तं नृव्याघ्रश्चचाल स: । दृश्यमानो जनैः पौरैरुत्त्रासतरलेक्षणैः ।।२२१।। अथ तं मोचयामास मैथिली करुणापरा। सद्यो भरतसेवां च सौमित्रिः प्रत्यपादयत् ॥२२२॥ स्त्रीवेषमथ सञ्जहे सर्वेषां क्षेत्रदेवता । अज्ञासीदतिवीर्योऽपि तौ तदा राम-लक्ष्मणौ ॥२२३॥ अतिवीर्यस्तयो: पूजां महतीं विदधे तत: । दधौ च मानध्वंसेन मानी वैराग्यमुच्चकैः ॥२२४।। किं सेविष्येऽहमप्यन्यमित्यहङ्कारभाग हदि। दीक्षार्थी विजयरथे पुत्रे राज्यं न्यधत्त च ॥२२५॥ द्वितीयो भरतो मेऽसि शाधि क्ष्मां प्रव्रज स्म मा। रामेणेत्थं निषिद्धोऽपि स प्रावाजीन्महामनाः ॥२२६॥ तत्सूनुर्विजयरथो रतिमालाभिधां निजाम् । लक्ष्मणाय ददौ जामिं तां प्रतीयेष लक्ष्मणः ॥२२७॥ ययौ ससैन्यो विजयपुरं रामोऽपि पत्तनम् । अयोध्यां विजयरथो भरतं सेवितुं पुनः ॥२२८।। विज्ञाततदुदन्तोऽपि भरतो गरिमाचल: । सच्चकार तमायान्तं सन्तो हि नतवत्सला: ॥२२९॥ कनिष्ठां रतिमालाया नाम्ना विजयसुन्दरीम् । ददौ स्वसारं स्त्रीसारं भरताय स भभजे ॥२३०॥ तदा च विहरंस्तत्राऽतिवीर्यो मुनिराययौ। वन्दित्वा क्षमयाञ्चक्रे भरतेन स भूभुजा ॥२३१।। विसृष्टः सप्रसादेन भरतेन महीभुजा । सानन्दो विजयरथो नन्द्यावर्तपुरं ययौ ॥२३२।। महीधरमनुज्ञाप्य रामे गन्तुं समुद्यते । वनमालामापप्रच्छे यियासुरथ लक्ष्मणः ॥२३३॥ जगाद वनमालाऽपि बाष्पपूर्णविलोचना। प्राणत्राणं तदाऽकार्षीः प्राणेश! मम किं मुधा ? ॥२३४॥ वरं भवेत् सुखमृत्युस्तदैव मम वल्लभ! । न त्वर्धवैशसमिदं दुःखं त्वद्विरहोत्थितम् ॥२३५।। अद्यैव परिणीय त्वं सहैव नय मां प्रभो! । त्वद्वियोगाच्छलं प्राप्य नेष्यत्यपरथाऽन्तकः ।।२३६।। अन्वनैषील्लक्ष्मणोऽथ भ्रातुः शुश्रूषको ह्यहम् । शुश्रूषाविघ्नकृन्मा भूः सहाऽऽयान्ती मनस्विनि! ॥२३७।। प्रापय्याऽभीप्सितं स्थानं ज्यायांसं वरवर्णिनि! । त्वां समेष्यामि भूयोऽपि वास्तव्या हृदये ह्यसि ॥२३८॥ १. ०सौहृदा: ला. ता. हे. का.; दौहृदाः ला. मु.; अनुपलक्षित-अज्ञातं दौर्हद-दुर्भाव: येषां ते॥२. कामेन निर्वृत्तम् ; कामितं पाता.॥ ३. मरणेच्छोः ।। ४. तच्छ्रुत्वा नितरां क्रोधं ला.; तच्छुत्वा सुमहाक्रोधं मु.॥५. अधिकत्रासाच्चञ्चलनेत्रैः ।। ६. दध्यौ खं.१-२,पाता. ता. विना ।। ७.दीक्षार्थ ला.॥ ८. सुते पाता. ।। ९. भगिनीम् ।। १०. जग्राह ।। ११. गरिम्णा अचलः ॥ १२. सुभगां ला.; स्त्रीषु सारम्-श्रेष्ठाम् ।।१३. ०मालां च पप्रच्छ ला. ॥ १४. "अर्धमरणम्" इति ला.टि. ॥१५. अन्यथा यमो मां नेष्यति, त्वद्वियोगात्-त्वदभावे छलं लब्ध्वेत्यर्थः ।।१६. ज्यायांसं -रामं इष्टे स्थाने नीत्वा ततो भूयोऽपि त्वदन्तिके आगमिष्यामि ॥ १७. हे गुणोत्कृष्टे! इत्यर्थः ।। १८. त्वं मम हृदये वास्तव्या-वसन्ती असि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org