________________
दिया
पञ्चमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। 'ते क्रामन्तः प्रतिदिनं जानकी-राम-लक्ष्मणाः । त्यक्त्वाऽरण्यानि विजयपुरं सन्ध्याक्षणे ययुः ॥१६८॥ तस्मिंश्च बहिरुद्याने मरुद्दिशि महीयसः । तले न्यग्रोधवृक्षस्य तेऽवात्सुर्वेश्मसन्निभे ॥१६९।। पुरे च तस्मिन्नभवद् राजा नाम्ना महीधरः । इन्द्राणी नाम तत्पत्नी वनमालेति तत्सुता ॥१७०।। वनमाला च बाल्येऽपि सौमित्रेर्गुणसम्पदम् । रूपं चाऽऽकर्ण्य तं मुक्त्वा नाऽन्यं वरमियेष सा ॥१७१।। तदा प्रव्रजितं श्रुत्वा नृपं दशरथं तथा। निर्गतौ राम-सौमित्री विषण्णोऽभून्महीधरः ॥१७२।। अदत्त चन्द्रनगरे वृषभक्ष्मापजन्मने । नाम्ना सुरेन्द्ररूपाय वनमालां महीधरः ॥१७३।। वनमालाऽपि तच्छ्रुत्वा मरणे कृतनिश्चया। तस्यां निश्येकिका दैवात् तदुद्यानमुपाययौ ॥१७४।। प्रविश्य तत्राऽऽयतनेऽपूजयद् वनदेवताम् । जन्मान्तरेऽपि सौमित्रिः पतिर्मेऽस्त्वित्युवाच च ॥१७५|| ययौ च सा तं न्यग्रोधं ददृशे लक्ष्मणेन च। प्रसुप्तजानकी-रामयामिकेन प्रजाग्रता ॥१७६।। इदं च दध्यौ सौमित्रि: किमियं वनदेवता ? । अधिष्ठात्री वटतरोरस्य वा? काऽपि यक्षिणी ? ||१७७।। एवं चिन्तयतस्तस्य साऽध्यारोहद् वटद्रुमम् । करिष्यति किमेषेति लक्ष्मणोऽप्यारुरोह तम् ॥१७८।। सा प्रोये प्राञ्जलिर्भूत्वा मातरो वनदेवता:! । दिग्देव्यो! व्योमदेव्यश्च सर्वाः शृणुत मद्वचः ॥१७९।। नाऽभूदिह भवे तावन्मम भर्ता स लक्ष्मणः । भूयाद् भवान्तरे तर्हि भक्तिस्तत्र ममाऽस्ति चेत् ॥१८०|| इत्युदित्वा कण्ठपाशं विधायोत्तरवाससा । बद्ध्वा च वटशाखायां द्राक् साऽऽत्मानमलम्बयत् ॥१८१|| भद्रे! मा साहसं कार्षीर्लक्ष्मणोऽहमिति ब्रुवन् । लक्ष्मणोऽपास्य तत्पाशं तामादायोत्ततार च॥१८२॥ प्रबुद्धयोर्निशाशेषे लक्ष्मणो राम-सीतयोः । शशंस वनमालाया वृत्तान्तं तमशेषतः॥१८३॥
गुण्ठितमुखी वनमालाऽपि तत्क्षणम् । जानकी-रामचरणारविन्देभ्यो नमोऽकरोत् ॥१८४॥ इतोऽपि च तदेन्द्राणी महीधरनृपप्रिया। वनमालामपश्यन्ती पूच्चक्रे करुणस्वरम् ॥१८५।। वनमालान्वेषणाय निर्ययौ च महीधरः । इतस्तत: परिभ्राम्यंस्तत्रस्थांच ददर्श ताम् ॥१८६।। हत हतैतान् कुमारीतस्करानितिभाषिषु । उदस्त्रेषु च सैन्येषूत्तस्थौ रामानुजः क्रुधा॥१८७।। धनुष्यारोपयामास स ज्यां भाल इव ध्रुवम् । अकारयच्च टङ्कारं वैर्यहङ्कारहारकम् ॥१८८॥ चुक्षुभुस्तत्रसुः पेतुस्तद्धनुर्ध्वनिना परे । महीधरः पुरःस्थाय सौमित्रिं स्वयमैक्षत ॥१८९।। उपलक्ष्य ततोऽवादीज्ज्यामुत्तारय धन्वन: । सौमित्रे! मत्सुतापुण्यैरिष्यमाणस्त्वमागमः ॥१९०॥ उत्तारितज्ये सौमित्रौ सुस्थित: सन् महीधरः । प्रेक्ष्य रामं नमश्चक्रेऽवतीर्य स्यन्दनोत्तमात् ॥१९१॥ उवाच च तव भ्रात्रेऽमुष्मै सौमित्रये मया। स्वयं जातानुरागेति कल्पितेयं पुराऽप्यभूत् ॥१९२॥ इदानीमनयोर्जज्ञे मद्भाग्येन समागमः । जामाता लक्ष्मणस्त्वं च सम्बन्धी दुर्लभः खलु ॥१९३।। इत्युदित्वा महत्या च प्रतिपत्त्या महीधरः । निनाय जानकी-राम-लक्ष्मणान् निजसद्मनि ॥१९४|| पतेषु च तत्र तिष्ठत्सु कदाचन सभास्थितम् । एत्याऽतिवीर्यराड्दूतो नृपमूचे महीधरम् ॥१९५॥ नन्द्यावर्तपुराधीशोऽतिवीर्यो वीर्यसागरः । साहाय्यायाऽऽह्वयति त्वां जाते भरतविग्रहे ॥१९६।। भूयांसो भूभुजोऽभ्येयुस्तस्य दाशरथेर्बले । तत् त्वमप्यतिवीर्येणाऽऽहूयसे सुमहाबलः ॥१९७|| अथैवं लक्ष्मणोऽपृच्छन्नन्द्यावर्तमहीभुजः । भरतक्ष्माभुजा सार्धं किं विरोधनिबन्धनम् ? ॥१९८॥ दूतोऽप्युवाच न: स्वामी भरता भक्तिमिच्छति। स तु प्रतीच्छति न तामिदं विग्रहकारणम्॥१९९।। राम: पप्रच्छ तं दुतमतिवीर्यस्य सङ्गरे। समर्थो भरत: किं भोस्तत्सेवां यन्न मन्यते ॥२०॥ दूतोऽप्यूचे महावीर्योऽतिवीर्यस्तावदेष नः । भरतोऽपि न सामान्यस्तद् द्वयोः संशयो जये॥२०१।। इत्युक्तवन्तं तं दूतमागच्छाम्येष सत्वरम् । इत्युक्त्वा व्यसृजद् राजा रामं चैवमभाषत ॥२०२।। अहो! अज्ञत्वमेतस्याऽतिवीर्यस्याऽल्पमेधसः । यदस्मानयमाहूय भरतं योधयिष्यति ॥२०३।। १. वायव्यदिशि ॥ २.०मालाऽपि ता. ।। ३. चेन्द्र० ला. ॥४. वृषभनृपस्य पुत्राय ॥५. यामिकः-प्रहरी ॥६. शृण्वन्तु ला. ॥७. लज्जयाऽवनतमुखी॥ ८. हत तान् मु.॥९.पुरः स्थित्वा मु.; पुरःस्थायं हे.; पुरःस्थायेत्यत्र “पुरोऽस्तमव्ययम्” (सि.३/१/७), ततो गतिसमासः॥१०. सौमित्रिं मु.॥११. मागत: मु.॥१२. उत्तारिता ज्या येन सः, तस्मिन् ॥१३. सद्भाग्येन कां.॥१४. भरतेन सह विग्रहे-युद्धे जाते॥१५.स्वीकरोति ॥१६. अन्यत्व. ता.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org