________________
१७८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व वर्षत्यब्दे च काकुत्स्थस्तस्थौ वटतरोरध: । वर्षाकालं वटेऽत्रैव नयाम इति चाऽवदत् ॥१३३॥ आकर्ण्य तद्वचो भीतस्तन्न्यग्रोधाधिदैवतम् । इभकर्णाभिधो यक्षो गोकर्णं स्वप्रभुं ययौ ॥१३४।। तं प्रणम्येत्यभाषिष्ट स्वामिन्नुद्वासितस्ततः । कैश्चिद् दु:सहतेजोभिर्निजावासाद् वटादहम् ।।१३५।। तत् कुरुष्व परित्राणमत्राणस्य मम प्रभो! ते हि स्थास्यन्ति सकलां प्रावृषं मद्वटद्रमे ॥१३६।। गोकर्णोऽप्यवधेत्विाऽचख्याविति विचक्षणः । अर्ध्यावेतौ गृहायातावष्टमौराम-शाङ्गिणौ ॥१३७।। इत्युक्त्वा निशि तत्रैत्य नवयोजनविस्तृताम् । द्वादशयोजनायामां धन-धान्यादिपूरिताम् ॥१३८।। उत्तुङ्गवप्र-प्रासादां भाण्डपूर्णापणावलिम् । पुरी रामपुरीं नामाऽकृत रामाय सोऽमरः ॥१३९।।युग्मम्।। प्रातर्मङ्गलशब्देन प्रबुद्धो राम ऐक्षत। तं वीणाधारिणं यक्षं महर्द्धि नगरी च ताम् ॥१४०॥ सोऽवोचद् विस्मितं रामं स्वामी त्वमतिथिश्च मे । गोकर्णो नाम यक्षोऽहमकार्षं त्वत्कृते पुरीम् ॥१४१।। मया सपरिवारेण सेव्यमानो दिवानिशम् । इह तिष्ठ सुखं स्वामिन! यथाकालं यथारुचि॥१४२।। इति तेनाऽर्थितो रामो यक्षपुम्भिर्निषेवित: । अवतस्थे सुखं तत्र सीता-सौमित्रिसंयुतः ॥१४३।। इतश्च विप्रः कपिल: समिदादिकृतेऽन्यदा। भ्रमंस्तस्मिन् महारण्ये पशुपाणि: समाययौ ॥१४४॥ स ददर्श पुरी तां च दध्यौ चेति सविस्मयः । मायेयमिन्द्रजालं वा गान्धर्वमथवा पुरम् ? ॥१४५।। तत्रैकां मानुषीरूपां चारुनेपथ्यवाससम् । सोऽपृच्छद् यक्षिणीं दृष्ट्वा कस्येयं नूतना पुरी ? ॥१४६।। सोचे गोकर्णयक्षेण कृतेयं नूतना पुरी । नाम्ना रामपुरी राम-सीता-सौमित्रिहेतवे॥१४७।। दीनादिभ्यो ददात्यर्थमत्र रामो दयानिधिः । सर्वः कृतार्थीभूतोऽत्र यो यो दुःस्थ: समाययौ॥१४८॥ त्यक्त्वा सोऽपि समिद्भारं पतित्वा तत्पदाब्जयोः। ऊचे मया कथं रामो द्रष्टव्य: ? शंस मेऽनघे! ॥१४९।। साऽप्याचख्यावत्र पुर्यामस्ति द्वारचतुष्टयम् । नित्यं च रक्ष्यते यक्षैः प्रवेशोऽमुत्र दुर्लभः ॥१५०॥ पर्वद्वारेऽत्र यच्चैत्यं तद वन्दित्वा यथाविधि। श्रावकीभूय चेद यासि प्रवेशं लभसे तदा ॥१५॥ तद्राि कपिलोऽर्थार्थी साधूनामन्तिके ययौ। अभ्यर्वन्दत तान् साधून धर्मं तेभ्योऽशृणोच्च सः ॥१५२॥ तत: स लघुकर्मत्वाद् विशुद्धः श्रावकोऽभवत् । गत्वौको धर्ममाख्याय भार्यां च श्राविकां व्यधात् ।।१५३।। आजन्म दौस्थ्यदग्धौ तौ रामादर्थयितुं धनम् । उपेयतू रामपुरीं तच्च चैत्यं प्रणेमतुः ॥१५४॥ रोजवेश्म प्रविश्याऽथ मैथिली-राम-लक्ष्मणान् । उपलक्ष्य बिभायोच्चैर्दत्ताक्रोशान् द्विजः स्मरन् ।।१५५।। तं नष्टमनसं सानुक्रोश: सौमित्रिरब्रवीत् । मा भैषीर्भो द्विजाऽर्थी चेदेह्यार्यं प्रार्थयस्व तत् ॥१५६।। ततोऽप॑शङ्क: कपिलो गत्वा रामाय चाऽऽशिषम् । दत्त्वोपाविशदग्रे च गुह्यकैरर्पितासने ॥१५७॥ कुतस्त्वमागतोऽसीति पृष्टो रामेण सोऽवदत् । किं मां न वेत्सि तं विप्रमरुणग्रामवासिनम् ? ॥१५८।। यूयं येनाऽतिथीभूता अपि दुर्वचसा मया। आक्रुष्टा मोचितोऽस्म्यस्माद् युष्माभिश्च कृपापरैः ॥१५९।। सुशर्मा ब्राह्मणी साऽपि प्राग्वृत्ताख्यानपूर्वकम् । गत्वोपसीतं दीनास्या प्रदत्ताशीरुपाविशत् ॥१६०॥ ततः स विप्रो द्रविणैः कृतार्थीकृत्य भूरिभिः । राघवेण विसृष्टः सन् स्वग्राममगमत् पुनः ॥१६१|| प्रबुद्धो ब्राह्मण: सोऽपि दत्त्वा दानं यथारुचि । नन्दावतंससूरीणामन्तिके व्रतमग्रहीत् ॥१६२॥ पाअथ प्रावृष्यतीतायां यियासुं प्रेक्ष्य राघवम् । गोकर्णयक्षो विनयादेवमूचे कृताञ्जलिः ॥१६३॥ यद्यतो यास्यसि स्वामिंस्तत् प्रसीद क्षमस्व मे। यद् भक्तिस्खलितं किञ्चिन्मनागप्यभवत् त्वयि ॥१६४॥ तवाऽनुरूपांक: पूजां कर्तुमीशो महाभुज! । इत्युक्त्वाऽदत्त रामाय हारं नाम्ना स्वयम्प्रभम् ॥१६५॥ सौमित्रये च ताडके दिव्यरत्नविनिर्मिते । चूडामणिं च सीतायै वीणां चेप्सितनादिनीम् ॥१६६।। रामोऽनुमान्य तं यक्षं प्रतस्थे स्वेच्छया ततः । तां पुरीमुपैसञ्जहे सोऽपि यक्ष: स्वयंकृताम् ॥१६७॥ १. तद्वटाधिष्ठातृदेवः॥२. स्वपुरु खं.१; "स्वस्वामिनं” इति टि. च ॥३. निष्कासितः ॥ ४.०प्यवधिं ज्ञा० मु.॥५. महर्द्धिन० खं.२, ला. विना ।। ६. पशु:(फरसी)पाणौ यस्य सः ।।७. चेतसि विस्मयात् मु.।। ८. दु:खी ।। ९. काष्ठभारम् ॥ १०. साऽप्यवादीदत्र मु.॥११. ०रे च ता. ।। १२. धनार्थी ।।
१३. अभ्यधावत खं.१॥१४. ओक:-गृहम् ।। १५. रामवेश्म छा. पा. ॥१६. सानुकम्पः ।। १७. ० ह्यर्थं ता.विना ।। १८. निःशङ्कः ।। १९. यक्षैः ।। २०. Jain Educatio सीतासमीपम् ॥ २१. यातुमिच्छुकम् ।। २२. कुण्डले ॥ २३. विसर्जनं कृतवान् (पुर्या:)se Only
www.jainelibrary.org