________________
पञ्चमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। प्रतिपद्येति काकुत्स्थस्तस्थौ तत्र दिनत्रयम् । निशाशेषे सुप्तजने ससीता-लक्ष्मण: ययौ ॥९९।। साऽपि प्रातरपश्यन्ता जानकी-राम-लक्ष्मणान् । विमनाः स्वं पुरमगाच्चक्रे राज्यं तथैव तु ॥१००। पाप्राप क्रमेण रामोऽपि नर्मदामुत्ततार च। पथिकैर्वार्यमाणोऽपि विन्ध्याटव्यां विवेश च ॥१०१।। तत्राऽऽदौ दक्षिणदिशि कण्टकिट्ठस्थितो द्विकः । ररास विरसं क्षीरंद्रुस्थोऽन्यो मधुरं पुनः॥१०२॥ न विषादो न वा हर्षोऽभूद् रामस्य तथाऽपि हि। शकुनं चाऽशकुनं च गणयन्ति हि दुर्बला: ॥१०३॥ गच्छन् ददर्श चाऽगच्छन्म्लेच्छसैन्यमुदायुधम् । असङ्ख्येभरथाश्वीयं देशघाताय निर्गतम् ॥१०४॥ युवा सेनापतिस्तत्र दृष्ट्वा सीतां स्मरातुरः । स्वच्छन्दवृत्ति: स्वान् म्लेच्छानुच्चकैरेवमादिशत् ॥१०५।। अरे रे! पथिकावेतौ नाशयित्वा विनाश्य वा । एतां वरस्त्रियं हृत्वा समानयत मत्कुते॥१०६।। इत्युक्ता: सह तेनैवाऽधावन्त प्रति राघवम् । प्रहरन्त: शर-प्रासप्रायैः प्रहरणैः शितैः ॥१०७॥ उवाच लक्ष्मणो रामं तिष्ठाऽऽर्येह सहाऽऽर्यया । अमूम् शुन इव म्लेच्छान् यावद् विद्रावयाम्यहम् ॥१०८॥ इत्युक्त्वा लक्ष्मणोऽधिज्यं कृत्वा धनुरनादयत् । तन्नादाच्चाऽत्रसन् म्लेच्छा: सिंहनादादिव द्विपाः ॥१०९॥ असह्यश्चापनादोऽपि शरमोक्षोऽस्तु दूरतः । इत्थं विमृश्य सम्लेच्छराजो राममुपाययौ ॥११०॥ विमुक्तशस्त्रो दीनास्य: स्यन्दनादवतीर्य स: । रामभद्रं नमश्चक्रे क्रुधा सौमित्रिणेक्षितः ॥१११॥ पासोऽवोचद् देव! कौशाम्ब्यां पुर्यां वैश्वानरो द्विजः । सावित्री नाम तत्पत्नी रुद्रदेवोऽस्मि तत्सुतः ॥११२॥ आजन्म क्रूरकर्माऽहं तस्कर: पारदारिकः । न तत् किमपि कर्माऽस्ति यत् पापो नाऽऽचराम्यहम् ॥११३।। अथैकदा खात्रमुख प्राप्तोऽहं राजपूरुषैः। शूलां समारोपयितुं नीतश्च राजशासनात् ॥११४॥ उपशूलं च दीनोऽहमुपशूनमिव च्छग: । दृष्टः श्रावकवणिजा दत्त्वा दण्डं च मोचितः ॥११५॥ मा कार्षीचौरिकां भूय इत्युदीर्य महात्मना। विसृष्टो वणिजा तेन तं देशं त्यक्तवानहम् ॥११६॥ भ्रमन्नागामिमां पल्लीं काक इत्याख्ययाऽन्यया। इह ख्यात: क्रमात् पल्लीपतित्वमिदमासदम् ॥११७।। इह स्थितश्च लुण्टाकैर्खण्टयामि पुरादिकम् । आनयामि स्वयं गत्वा बन्दे धृत्वा नृपानपि ॥११८॥ वश्योऽस्मि व्यन्तर इव तव स्वामिन्! समादिश। किङ्कर: किं करोम्येष सहस्वाऽविनयं मम ॥११९॥ वालिखिल्यं विमुञ्चेति रामेणोक्त: किरातराट् । तं मुमोच नमश्चक्रे वालिखिल्योऽपि राघवम् ॥१२०॥ रामाज्ञया च काकेन स निन्ये कूबरं पुनः । कल्याणमालां पुंवेषामपश्यच्च सुतां निजाम् ॥१२१॥ राम-लक्ष्मणवृत्तान्तं मिथोऽकथयतां च तौ। कल्याणमालिका-वालिखिल्यावखिलमप्यथ ॥१२२॥ बाकाकोऽपि स्वां ययौ पल्ली ततो रामोऽपि निर्गतः। विन्ध्याटवीमतिक्रम्य प्राप तापी महानदीम् ॥१२३॥ तापीमुत्तीर्य चक्रामस्तद्देशप्रान्तवर्तिनम् । अरुणग्रामनामानं रामो ग्राममथाऽऽसदत् ॥१२४॥ पिपासितायां सीतायां तत्र राम: सलक्ष्मण: । गृहे ययौ कोपनस्य कपिलस्याऽग्निहोत्रिणः ॥१२५।। ब्राह्मणी च सुशर्माख्या तेभ्योऽदात् पृथगासनम् । स्वयं च पाययामास सलिलं स्वादु शीतलम् ॥१२६।। आगात् तदा च कपिल: पिशाच इव दारुणः । निरीक्ष्य चोपविष्टांस्तान् रुष्टोऽभाषिष्ट गहिनीम् ॥१२७॥ मलिनानां किमेतेषां प्रवेशो मम वेश्मनि। पापीयसि! त्वया दत्तोऽग्निहोत्रमशुचीकृतम् ? ॥१२८॥ एवमाक्रोशिनं विप्र क्रूरंरामानुज: क्रुधा। करीवाऽऽभतोद्धृत्य परिभ्रमयितुं दिवि॥१२९॥ रामोऽप्युवाच को नाम कोपोऽस्मिन् कीटमात्रके ? । द्विजेब्रुवं विब्रुवन्तमप्यमुं मुञ्च मानद!॥१३०॥ रामाज्ञया च सौमित्रिस्तं मुमोच शनैर्द्विजम् । ससीता-लक्ष्मणो रामो निर्जगाम च तद्गृहात्॥१३१।। पाते गच्छन्त: क्रमात् प्रापुररण्यमपरं महत्। कज्जलश्यामजैलदकालश्च समुपाययौ॥१३२॥ १.च ता.॥२.स: पाता.॥३. बब्बूल(बावळ)वृक्ष ।।४. काकः।।५.कठोरशब्दं कृतवान् ॥ ६. पिप्पलवृक्ष ॥७. असङ्ख्य-इभ-रथ-अश्व-समूहयुक्तम् ।। ८. पलायनं कारयित्वा हत्वा वा ॥९. इत्युक्त्वा खं.१-२, पाता. ला. ता.॥१०.प्रास:-भल्लः ॥११. तीक्ष्णैः ।।१२. ०ऽस्ति दूरत: मु.॥१३. विधानरो० पाता. ॥१४. क्रूरकर्मत्वात् त० मु.,खं.२, पाता. ला.प्रभृतिषु ॥१५. शूलं ला. मो. कां.हे. ता. ॥१६.प्राणिवधस्थानसमीपं अज इव ॥१७. ०ख्ययाऽनया ला. ॥ १८. इहाख्यात: ता. ॥१९. कूबरे ला., ता.प्रभृतिषु च ॥ २०. क्रोधशीलस्य ।। २१. करीवारमतो. मु. ॥ २२. आत्मानं द्विजं ब्रूते-मन्यते स द्विजब्रुवस्तम् ।। २३. वर्षाकालः; जलदः काल पाता. विना सर्वत्र॥ ...
Jain Education Interfona
For Private & Personal Use Only
www.jainelibrary.org