________________
१७६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व सन्धेहि वज्रकर्णेनेत्यादिशत् तं रघूद्वहः । सिंहोदरोऽपि तां वाचं तथेति प्रत्यपद्यत ॥६४॥ पातत्राऽऽगाद् वज्रकर्णोऽपि रामभद्रस्य शासनात् । विनयेन पुरोभूय कृताञ्जलिरुवाच च ॥६५॥ स्वामिनौ वृषभस्वामिवंशजौ राम-लक्ष्मणौ । युवां दृष्टौ मया दिष्ट्या किन्तु ज्ञातौ चिरादिह ॥६६।। भरतार्धस्य सर्वस्य युवां नाथौ महाभुजौ। अहमन्ये च राजानो युवयोरेव किङ्कराः ॥६७।। मञ्चैनं मत्प्रभं नाथ! शाधि चैनमत: परम । यथाऽसौ सहते मेऽन्याऽप्रणामाभिग्रहं सदा॥१८॥ विनाऽर्हन्तं विना साधुं नमस्यो नाऽपरो मया। इति ह्यभिग्रहोऽग्राहि महर्षेः प्रीतिवर्धनात् ।।६९।। रामभ्रसञ्जया सिंहोदरस्तत् प्रत्यपद्यत । सौमित्रिणा विमुक्तः सन् वज्रकर्णं च सस्वजे॥७०।। सिंहोदरोऽपि परया प्रीत्या राघवसाक्षिकम् । राज्यार्धं वज्रकर्णाय सोदरायेव दत्तवान् ॥७१|| श्रीधराकुण्डले ते च याचित्वाऽवन्तिपार्थिवात् । अदत्त विद्युदङ्गाय दशाङ्गपुरपार्थिवः ॥७२।। सौमित्रये वज्रकों ददावष्टौ स्वकन्यका: । सिंहोदर: ससामन्तः पुन: कन्याशतत्रयम् ॥७३॥ अथोचे लक्ष्मण: कन्या: पार्श्वे वः सन्तु सम्प्रति। भ्राता नो भरतो राज्ये यत: पित्रा निवेशितः ।।७४।। समयेऽङ्गीकृतराज्य: परिणेष्यामि वः सुताः । इदानीं तु वयं गत्वा स्थास्यामो मलयाचले ॥७५॥
ओमित्युक्त्वा स्थितौ वज्रकर्ण-सिंहोदरौ नृपौ। विसृष्टौ रामभद्रेणेयतुर्निजनिजं पुरम् ।।७६।। परामस्तत्र निशां नीत्वा ससीता-लक्ष्मण: प्रगे। गच्छन् क्रमेण सम्प्राप देशं कमपि निर्जलम् ॥७७।। पिपासितायां सीतायां विश्रान्तायां तरोस्तले । रामाज्ञयाऽथ सौमित्रिर्जलमानेतुमभ्यगात् ॥७८।। गच्छन् सरो ददर्शकमनेकाम्भोजमण्डितम् । दूरादानन्दजननं वयस्यमिव वल्लभम् ।।७९।। तदा च क्रीडितुं तत्राऽऽगात् कूबरपुराधिभूः । नृप: कल्याणमालाख्यः प्रेक्षाञ्चक्रे च लक्ष्मणम् ।।८०॥ स कामबाणैः सद्योऽपि बिभिदे भिदुरात्मकैः । नत्वा लक्ष्मणमूचे च भव मे भोजनातिथिः ॥८१॥ विकारं मान्मथं देहलक्षणानि च लक्ष्मणः । निरीक्ष्य दध्यौ नार्येषा पुंवेषा कारणेन तु ॥८२॥ ध्यात्वेत्युवाच सौमित्रि: सभार्योऽस्ति मम प्रभुः । इतश्चाऽदूरदेशेऽस्मिन् भुले तेन विना न हि॥८३॥ तेन प्रधानपुरुषैर्भद्राकारैः प्रियंवदैः । तत्राऽऽनिन्ये समभ्यर्थ्य ससीतोऽपि रघूद्वहः ॥८४॥ सोऽनमस्यद् रामभद्रं भद्रधीमैथिलीमपि। तयोः कृते पटकुटी तत्कालं च न्यवेशयत् ॥८५।। तत्र रामं कृतस्नानभोजनं स उपाययौ। सहैकमन्त्रिणा व्यक्तस्त्रीवेषो निष्परिच्छदः ॥८६॥ लज्जानतमुखीं तां च निजगादेति राघवः । भद्रे! पुरुषवेषेण स्त्रीभावं निहुँषे कुत: ? ॥८७॥ पऊचेऽथ कूबरपति: कूबरेऽस्मिन् महापुरे । वालिखिल्यो नाम राजा पृथ्वीनामाऽस्य तु प्रिया॥८८॥
आपन्नसत्त्वा सा जज्ञेऽन्येद्युम्र्लेच्छैर्महाभटैः । अवस्कन्दागतैर्निन्ये वालिखिल्यो नियम्य सः ॥८९।। पश्चाच्च पृथिवी देवी तनयां मामसूत सा। पुत्रोऽजनीति चाऽघोषि सचिवेन सुबुद्धिना ॥१०॥ तज्ज्ञापित: पुत्रजन्म प्रभुः सिंहोदरोऽवदत् । तत्र राजाऽस्तु बालोऽयं वालिखिल्यागमावधि ॥९१॥ क्रमेण वर्धमानाऽहं मूलात् पुंवेषधारिणी। मातृ-मन्त्रिजनं मुक्त्वाऽपरैरनुपलक्षिता ॥१२॥ राज्यं करोमि कल्याणमालाख्या प्रथिता सती । मन्त्रिणां मन्त्रसामर्थ्यात् स्यादलीकेऽपि सत्यता ।।९३।। म्लेच्छानां भूरि यच्छामि द्रविणं पितृमुक्तये। द्रव्यमेते तु गृह्णन्ति मुञ्चन्ति पितरं न तु ॥९४॥ तत् प्रसीदत मे तोतं तेभ्यो मोचयताऽधुना। सिंहोदरान्मोचितः प्राग् वज्रकर्णनृपो यथा ॥१५॥ रामोऽप्युवाच पुंवेषैवाऽस्था राज्यं प्रशासती । यावद् गत्वा मोचयामो म्लेच्छेभ्यः पितरं तव ॥९६।। महाप्रसाद इत्यूचे सा स्त्री पुंवेषधारिणी। ऊचे सुबुद्धिमन्त्री तु लक्ष्मणोऽस्या वरोऽस्त्विति ।।९७/ राघवोऽप्यब्रवीत् तातादेशाद् देशान्तरं वयम् । यास्यामोऽथ निवृत्तेषु लक्ष्मण: परिणेष्यति ॥९८॥ १. शामिणौ खं.२, पाता. मु.प्रभृतिषु ॥ २. शासनं कुरु ।। ३. मेऽन्यप्र० खं.१ विना सर्वत्र ।। ४. स्थित्वा रसंपा. ।। ५. पुराधिपः पाता.; अधिभूर्नायकः ।। ६. भेदिभिः ।। ७. वस्त्रगृहम् ।। ८. युक्तः स्त्रीवेशो नि:परि० मु.,खं. पा.प्रभृतिप्रतिषु च ॥९. भद्र! मु.॥१०. गोपायसि ॥ ११. गर्भवती॥ १२. आक्रमणं कुर्वद्भिः ।। १३. बद्ध्वा ।। १४. निश्यसूत मो. ॥१५. तज्ज्ञापितपुत्रजन्मा पाता., रसंपा. ॥ १६. मत्तातं पाता. ॥१७. ०कर्णो नृपो० मु.॥१८. पुंवेषैव स्वराज्यं ता. विना सर्वत्र ।। १९. निवृत्तानां खं.१-२, ला..........
Jain Education Mternational
www.jainelibrary.org