________________
प्रथमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
I
॥ अन्यदा प्रावृषि निशि 'प्रेक्षणीयेक्षणाय सः । बहिर्जगाम सदनाच्चिरं तत्र त्ववास्थित े ॥५२॥ निवृत्तस्याऽर्धमार्गेऽपि वेश्मने तस्य गच्छतः । सूचिभेद्यं तमः कुर्वन् ववर्षाऽत्यन्तमम्बुदः ॥५३॥ विजनत्वात् तदानीं स नग्नीभूय स्ववाससी । प्रक्षिप्य कक्षान्तरगाद् वेश्मद्वारे च पर्यधात् ॥५४॥ वृष्ट्या वस्त्राणि मद्भर्तुस्तीमितानीति मानिनी । सत्यभामाऽन्यवस्त्राणि गृहीत्वा समुपस्थिता ॥५५॥ मुग्धे विद्याप्रभावेण स्तीतेि मे न वाससी । कृतं तदन्यैर्वासोभिरित्यूचे कपिलः प्रियाम् ॥५६॥ तस्य वासांस्यनार्द्राणि वपुरार्द्रं च सर्वतः । सत्यभामा निर्दध्यौ च दध्यौ चेदं स्वचेतंसि ॥५७॥ विद्याशक्त्या स्ववासांसि यद्यरक्षदसौ जलात् । नाऽरक्षत् तत् कथं स्वाङ्गं? नूनं नग्नोऽयमाययौ ॥ ५८ ॥ अकुलीनस्ततो मन्ये वृत्तेनाऽनेन मत्पतिः । मेधाबलादध्यगीष्ट कर्णश्रुत्या श्रुतीरपि ॥५९॥ एवं च मन्यमाना सा तदाप्रभृति तत्र च । मन्दानुरागा समभूद् वृन्दानीतेव खेदिनी ॥ ६०॥ ||तदा च धरणिजटो दैवात् क्षीणधनोऽभवत् । आढ्यं च कपिलं श्रुत्वा स्वं समुद्धर्तुमाययौ ॥ ६१॥ पाद्यस्नानादिना तं च सच्चक्रे कपिलः स्वयम् । आराध्योऽतिथिमात्रोऽपि किं पुनः स पिताऽतिथिः ? ॥६२॥ अथ पित्रा कृते स्नाने निर्मिते नित्यकर्मणि । भोजनावसरे प्राप्ते प्रोवाच कपिलः प्रियाम् ॥६३॥ शरीरकारणं मेऽस्ति तत् प्रिये ! पितृहेतवे । विभिन्नं भोजनस्थानमुत्तमं प्रगुणीकुरु ॥ ६४॥ पितुः पुत्रस्य च तयोर्दृष्ट्वाऽऽचरणमन्यथा । आशशङ्केऽधिकं सत्या कुलीना सा यतः स्वयम् ॥ ६५ ॥ कुलीनं श्वशुरं ज्ञात्वा चरितैरतिनिर्मलैः । आराधयज्जनकवद् गुरुवद्देववच्च सा ॥ ६६ ॥ दत्वाऽन्यदा ब्रह्महत्याशपथं रहसि स्वयम् । श्वशुरं परिपप्रच्छ महता विनयेन सा ॥ ६७॥ युष्माकं किमसौ सूनुः शुद्धपक्षद्वयोद्भवः ? । अवैरुद्धोद्भवः किं वा ? सत्यं ब्रूते प्रसीदत ॥६८॥ ततश्च धरणिजट: समाचख्यौ यथातथम् । महात्मानः प्रकृत्याऽपि शपथच्छेदकातराः ॥ ६९ ॥ विसृष्टः कपिलेनाऽथ ब्राह्मणो धरणिजटः । पुनरेव निजं ग्राममचलग्राममभ्यगात् ॥७०॥ "सत्यभामाऽपि गत्वैवं श्री श्रीषेणं व्यजिज्ञपत् । अकुलीनोऽभवद् भर्ता मम दैववशादयम् ॥ ७१ ॥ शार्दूलादिव सुरभिं राहो : शशिकलामिव । चटकामिव च श्येनान्मोचयाऽस्मात् तदद्य मामम् ॥७२॥ आचरिष्यामि सुकृतं मुक्ताऽनेन सती सती। दुष्कर्मणा प्राक्तनेन वञ्चितास्मि कियच्चिरम् ॥७३॥ श्रीषेणोऽप्यभ्यधत्तैवमाहूय कपिलं स्वयम् । मुच्यतां सत्यभामेयं धर्माचरणहेतवे ॥७४॥ विरक्तायां तवैतस्यां कीदृग् वैषयिकं सुखम् । भविष्यति बलात्कारापहृतान्यस्त्रियामिव ? ॥७५॥ कपिलोऽपि जगादैवं क्षणमप्यनया विना । प्राणान् धर्तुं नालमास्मे जीवतुरियमेव मे ॥७६॥ इमां पौणिगृहीतीं स्वां न त्यजामि कथञ्चन। त्यजनं त्याजनं वापि गणिकास्वेव युज्यते ॥७७॥ उद्धामा सत्यभामोचे त्यजत्येष न मां यदि । जले वा ज्वलने वाऽपि प्रवेक्ष्यामि तदा " न्वहम् ॥७८॥ राजाऽपि व्याजहारैवं मा स्म त्याक्षीदसूनसौ । दिनानि कतिचित् तिष्ठत्वस्मद्वेश्मनि ते प्रिया ॥७९॥ एवमस्त्विति तेनोक्ते राज्ञा राज्ञ्यो: समर्पिता । समाचरन्ती विविधं तपः सा समवास्थिता ॥८०॥ " तदा च राजा कौशाम्ब्य बलो नाम महाबलः । श्रीकान्तां श्रीमतीदेवीप्रसूतां निजकन्यकाम् ॥८१॥ उद्यौवनां रूपवतीं प्रैषीदृद्ध्या प्रभूतया । श्रीषेणनृपपुत्रस्येन्दुषेणस्य स्वयंवराम् ॥८२॥
तया सहाऽऽगतां वेश्यामनन्तमतिकाभिधाम् । इन्दुषेण- बिन्दुषेणौ रूपोत्कृष्टामपश्यताम् ॥८३॥
१. नाट्यविलोकनाय ॥। २. त्ववास्थितः वा. १ - २ | तथा स्थित: मु. ॥। ३. गाढम् ॥४. मद्भर्तु स्तिमितानीति मुप्र । आर्द्राणि ॥। ५. तीमिते सं. ला. पा., स्तिमिते मु. ॥ ६. ददर्श ।। ७. वेदान् ।। ८. कपिले । ९. वन्दानीतेव० खंता. पाता ।० वन्दानन्तेव० वा. १ - २, समुदायात् पृथक्कृतेव ।। १०. समृद्धम् ॥ ११. स्नान० मुप्र ।। १२. विपरीतोद्भवः ॥ १३. ब्रूहि ॥ १४. व्याघ्रात् ॥ १५. धेनुम् ।। १६ ०तेन० पाता ।। १७. बलात्कारेणाऽपहतायामन्यस्त्रियामिव ।। १८. जीवनौषधम् ।। १९. पाणिगृहीताम् ता. ला. दे. मु. ॥ २०. अतिक्रुद्धा ॥ २१. ० तदा ह्यहम् पा. विना ॥ २२. प्राणान् ॥ २३. ० राज्यै दे. ला. मु., ० राज्योस्तेन समर्पिता पाता. ॥ २४. ० कौशाम्ब्याः ० खंता पाता. ॥ २५. समृद्धया ॥ २६. ० स्वयंवरे ता. दे. मु. ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org