________________
१५६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व साञ्जनं तं समायान्तमारात् प्रहसित: स तु । आख्यत् प्रह्लाद-पवनञ्जययोर्जयपूर्वकम् ॥२६८।। ततो विमानादुत्तीर्य प्रतिसूर्योऽञ्जनाऽपि च । प्रह्लादं नेमतुर्दूराद् भक्त्या भून्यस्तमस्तकौ ॥२६९।। प्रतिसूर्यं परिष्वज्य पौत्रमङ्के निवेश्य च । प्रह्लादो जातसंह्लादो जगादैवं ससम्भ्रमः ॥२७०॥ मज्जन्तं व्यसनाम्भोधौ मामद्य सकुटुम्बकम् । समुद्धरंस्त्वमेवाऽसि बन्धुः सम्बन्धिनां धुरि ॥२७१।। मद्वंशपर्वभूतेयं शाखासन्तानकारणम् । स्नुषा त्यक्ता विना दोषं साध्वियं रक्षिता त्वया ॥२७२॥ सद्यो व्यसनवेलाया न्यवर्तत पयोधिवत् । प्रशान्तशोकज्वलनो मुदित: पवनोऽपि हि॥२७३।। विद्यासामर्थ्यतस्तत्र सर्वे विद्याधरेश्वराः। महान्तमुत्सवं चक्रुरानन्दाब्धिनिशाकरम् ।।२७४।। पुरं हेनुरुहं जग्मुस्तत: सर्वेऽपि ते मुदा। विमानैर्विदधाना: स्वैर्दिवं ज्योतिष्मतीमिव ॥२७५।। महेन्द्रोऽप्याययौ तत्र समं मानसवेगया। सा च केतुमती देवी सर्वेऽप्यन्ये च बान्धवाः॥२७६।। विद्याधरेन्द्रैर्विदधे मिथ: सम्बन्धिबन्धुभिः । पूर्वोत्सवादप्यधिकस्तत्राऽपि हि महोत्सवः ॥२७७।। ततश्चाऽन्योऽन्यमापृच्छ्य सर्वे स्वं स्वं पुरं ययुः । तत्रैव पवनस्तस्थावञ्जना-हनुमद्युतः ॥२७८।। हनुमान् ववृधे तत्र पितुः सह मनोरथैः । कलाश्च जगृहे सर्वा विद्याश्च समसाधयत् ॥२७९।। नागराजायतभुजः शस्त्र-शास्त्रविचक्षणः । क्रमाच्च यौवनं प्रापहनुमान् भानुमांस्त्विषा॥२८०॥ पाइतश्चाऽमर्षणप्रष्ठो रावण: सन्धिदूषणम् । उत्पाद्य वरुणं जेतुं प्रतस्थे स्थेमपर्वतः ॥२८१।। दूताहुतास्ततश्चेयु: सर्वे विद्याधरेश्वराः। कटकं तस्य कुर्वन्तो वैताढ्यकटकोपमम् ॥२८२॥ पवन-प्रतिसूर्यौ तौ तत्र यावत् प्रचेलतुः । इत्यूचे हनुमांस्तावदवष्टम्भैकसानुमान् ।।२८३॥ इहैव तिष्ठतं तातौ जेष्याम्यहमपि द्विषः । प्रहरेद् बाहुना को हि तीक्ष्णे प्रहरणे सति ? ॥२८४।। बालत्वान्नाऽनुकम्प्योऽस्मि यद्युष्मत्कुलजन्मनाम् । पौरुषावसरे प्राप्ते न प्रमाणं वय: खलु ॥२८५।। एवं तावतिनिर्बन्धात् प्रतीक्ष्याऽऽपृच्छ्य चोच्चकैः । ताभ्यां च चुम्बितो मूर्ध्नि कृतप्रस्थानमङ्गलः ।।२८६।। महासामन्तसेनानीसेनाशतसमावृतः । प्रययौ रावणस्कन्धावारे दुर्वारविक्रमः ।।२८७॥युग्मम्।। हनूमन्तं समायातं दृष्ट्वा जयमिव स्वयम् । प्रणमन्तं मुदा स्वाङ्के निदधे दशकन्धरः ॥२८८।। अभ्यर्णे वरुणपुर्यास्तस्थौ युद्धाय रावणः । वरुणो वारुणयश्च दोष्मन्तो निर्ययु: शतम् ।।२८९।। अभ्येत्य योधयामासू रावणं वरुणात्मजा: । सुग्रीवाद्यैः समं वीरैर्युयुधे वरुणोऽपि हि॥२९०॥ महौजसो वारुणयोऽरुणाक्षा दशकन्धरम् । जात्यश्वान इव क्रोडं खेदयामासुराहवे ॥२९१॥
अत्राऽन्तरे च हनुमान् दारुणो वरुणात्मजान् । कुञ्जरान् केशरीवैत्याऽयोधयत् क्रोधदुर्धरः ॥२९२।। विद्यासामर्थ्यतोऽस्तभ्नाद्वारुणींस्तान् बबन्ध च। पशूनिव क्रुधा रक्तहनुको हनुमानथ ॥२९३।। तान् दृष्ट्वा वरुणः क्रुद्धोऽभ्यधाविष्ट हनूमते । सुग्रीवप्रभृतीन् धुन्वन् दन्ती मार्गतरूनिव॥२९४॥ रावणोऽप्यापतन्तं तं नदीरयमिवाऽचल: । अन्तरा स्खलयामास वर्षन् विशिखधोरणीम् ॥२९५।। वृषभो वृषभेणेव कुञ्जरेणेव कुञ्जरः । वरुणो रावणेनोच्चैः क्रोधान्धो युयुधे चिरम् ॥२९६।। सर्वौजसाऽऽकुलीकृत्य वरुणं रावणश्छली। उत्पत्येन्द्रमिवाऽबध्नात् सर्वत्र बलवच्छलम् ॥२९७।। ततो जयजयारावैर्मुखरीकृतदिङ्मुखः । स्कन्धावारं पृथुस्कन्धो जगाम दशकन्धरः ॥२९८।। रावणो वरुणं तत्र सह
मोच प्रणिपातान्त: प्रकोपो हि महात्मनाम् ॥२९९।। पुत्री सत्यवतीं नाम वरुणोऽदाद्धनूमते । दृष्टसार: स्वयं हीदृग् जामाता खलु: दुर्लभः ॥३००।। लङ्कायां रावणोऽथागादादत्त च हनूमते । हृष्टश्चन्द्रणखापुत्रीमनङ्गकुसुमाभिधाम् ॥३०१॥ सग्रीवेण पद्मरागा नलेन हरिमालिनी। अन्यैः सहस्रसङ्ख्याश्च तस्मै दत्ता: स्वका: सुताः ॥३०२॥ १. मदंशपूर्व० ता. ॥२. सर्वविद्या० मु., खंता.१प्रभृतिषु ॥३. हनुपुरं पाता. ॥ ४. क्रोधकारिषु धुर्यः ।। ५. स्थैर्यपर्वतः ॥ ६. गिरिमध्यभागः ।।७. मानपर्वतः ।। ८. तिष्ठतां तातो हे. कां. मो. ॥ ९. पूजयित्वा ॥१०. समायान्तं ता. ॥११. वरुणपुत्राः; वारुणेयाश्च मु.॥१२. जात्या: श्वान:-सारमेयाः इव शूकरम् ।।१३. सामर्थ्यतो यत्नाद् कां. मो. ॥१४. नदीपूरमिवा. कां. ॥१५. विशिखघोरणी: छा. मो. पा. ता.; बाणश्रेणिम् ।। १६. वशीभूतम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org