________________
तृतीय: सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । एवमुक्त: प्रहसितो गत्वाऽऽदित्यपुरे द्रुतम् । प्रह्लाद-केतुमत्योस्तत् कथयामास 'वाचिकम् ॥२३३।। श्रुत्वा केतुमती तच्च ग्राव्णेव हृदये हता। मूर्छिता न्यपतद् भूमौ सञ्ज्ञां लब्ध्वेत्युवाच च ।।२३४॥ स किं त्वया प्रहसित! व्यापत्तौ कृतनिश्चयः । प्रियमित्रं वने मुक्त एकाकी कठिनाशय! ॥२३५।। अथवा किं मया साऽपि निर्दोषा परमार्थतः । अविमृश्य विधायिन्या पापिन्या निरवास्यत॥२३६|| लब्धं मयाऽत्रैव साध्व्या दोषारोपणजं फलम् । अत्युग्रपुण्य-पापानामिहैव ह्याप्यते फलम् ॥२३७।। एवं रुदन्तीं प्रह्लादस्तां निवार्य कथञ्चन । चचाल सबल: सूनुमन्वेष्टुं स इवाऽञ्जनाम् ॥२३८॥ सर्वविद्याधरेन्द्राणामाप्तानां चाऽन्तिके नरान् । अञ्जना-पवनान्वेषहेतवे प्रजिघाय सः ॥२३९॥ सह विद्याधरैः सूनुं स्नुषां चाऽऽलोकयन् स्वयम् । प्रादुर्भूतत्वरो भ्राम्यन् सोऽगाद् भूतवनं वनम् ॥२४०।। पवनोऽत्राऽन्तरे तत्र विरचय्य चितां वने । ज्वलनं ज्वालयामास प्रहादस्तं ददर्श च॥२४॥ स्थित्वोपचितं पवन: प्रोचे हे वनदेवता:! । विद्याधरेन्द्रप्रह्लाद-केतुमत्योः सुतोऽस्म्यहम् ।।२४२।। महासत्यञ्जना नाम पत्नी मे सा च दुर्धिया। निर्दोषाऽपि मयोद्वाहात् प्रभृत्यपि हि खेदिता ॥२४३।। तां परित्यज्य यात्रायां चलित: स्वामिकार्यतः । दैवाज्ज्ञात्वा तामदोषामुत्पत्य पुनरागमम् ॥२४४|| रमयित्वा च तां स्वैरमभिज्ञानं समर्प्य च। पितृभ्यामपरिज्ञात: पुन: कटकमापतम् ॥२४५॥ जातगर्भा च सा कान्ता मद्दोषाद् दोषशङ्किभिः । निर्वासिता मे गुरुभि: क्वाऽप्यस्तीति न बुध्यते ॥२४६।। साऽग्रेऽधुना च निर्दोषा सम्प्राप्ता दारुणां दशाम् । ममैवाऽज्ञानदोषेण धिग्धिक् पतिमपण्डितम् ॥२४७।। मया भ्रान्त्वाऽखिलां पृथ्वी सम्यङ् मार्गयताऽपि हि । ने साऽऽप्ता मन्दभाग्येन रत्नं रत्नाकरे यथा ॥२४८॥ तदद्य स्वां तनुमिमां जुहोम्यत्र हुताशने । जीवतो मे यावज्जीवं दु:सहो विरहानलः ॥२४९॥ यदि पश्यथ मे कान्तां ज्ञापयध्वं तदा ह्यदः । त्वद्वियोगात् तव पति: प्रविवेश हुताशने ॥२५०॥ इत्युक्त्वा तत्र चित्यायां दीप्यमाने हविर्भुजि। झम्पां प्रदातुं पवन: प्रोत्पपात नभस्तले ।।२५१|| श्रुततद्वचनो वेगात् प्रह्लादोऽप्यतिसम्भ्रमी। वक्षःस्थलोपपीडं तं स्वबाहुभ्यामधारयत् ।।२५२।। मृत्योः प्रियवियोगार्तिप्रतिकारस्य सम्प्रति । को विघ्नोऽयं ममेत्युच्चैरुवाच पवनञ्जयः ॥२५३|| प्रह्लादोऽप्यब्रवीत् साश्रुरेष पापोऽस्मि ते पिता। निर्दोष या य: स्नुषाया निर्वासनमुपैक्षत ।।२५४॥ अविमृश्य कृतं तावत् त्वन्मात्रैवैकमादित: । द्वितीयं मा कृथास्त्वं तु स्थिरीभव सुधीरसि ॥२५५॥ स्नुषान्वेषणहेतोश्चाऽऽदिष्टाः सन्ति सहस्रशः । विद्याधरा मया वत्साऽऽगेमयस्व तदागमम् ।।२५६।।
अत्राऽन्तरे तत्प्रहिता: केऽपि विद्याधरोत्तमाः । गवेषयन्त: पवनाञ्जने हनुपुरं ययुः ॥२५७।। प्रतिसूर्याञ्जनयोस्तेऽञ्जनाविरहदुःखतः । पवनस्याऽग्निप्रवेशप्रतिज्ञामाचचक्षिरे ॥२५८॥ दुःश्रवं तद्वचः श्रुत्वा पीत्वा विषमिवाऽञ्जना । हा हताऽस्मीति जल्पन्ती पपात भुवि मूर्च्छिता ॥२५९।। आसिक्ता चन्दनाम्भोभिस्तालवृन्तैश्च वीजिता । लब्धसञ्ज्ञा समुत्थाय सा रुरोदेति दीनगीः ॥२६०।। पतिव्रता: पतिशोकात् प्रविशन्ति हुताशने। तासां विना हि भर्तारं दु:खाय खलु जीवितम् ॥२६॥ नारीसहस्रभोक्तृणां भर्तृणां श्रीमतां पुनः । क्षणिक: प्रेयसीशोकस्तत्कुतोऽग्निप्रवेशनम्॥२६२॥ विपरीतमिदं जज्ञे त्वयि वह्निप्रवेशिनि । विरहेऽपि मयि पुनरे जीवन्त्यामियच्चिरम् ॥२६३॥ महासत्त्वस्य तस्याऽल्पसत्त्वायाश्च ममाऽन्तरम्। उपलब्धमिदं नील-काचयोरिव सम्प्रति ॥२६४॥ न मे श्वशुरयोर्दोषो दोष: पित्रोर्न चाऽप्ययम् । ममैव मन्दभाग्याया: कर्मदोषोऽयमीदृशः॥२६५॥ रुदन्ती बोधयित्वा तां प्रतिसूर्यः सनन्दनाम् । विमानवरमारोप्य पवनान्वेषणे ययौ ॥२६६॥ स भ्राम्यन् प्राप तत्रैव वने भूतवनाभिधे। दूरादपि प्रहसितेनेक्षाञ्चक्रे च साश्रुणा॥२६७।। १. सन्देशवाचम् ।। २. पाषाणखण्डेन ।। ३. मरणाय ।। ४. पवनञ्जय इव ॥ ५. चितासमीपम् ; स्थित्वोपचित्यं रसंपा. ॥ ६. चिह्नम् ।। ७. सम्यम् मार्गयिताऽपि हे.ला.मो.॥८.न पाता.॥९. साप्रामा पाता.न प्राप्ता मो.॥१०. चितायाम् ॥११. श्रुत्वा तद्वचनो मो. ॥१२. वक्षःस्थले उपपीड्य ।। १३. प्रतीकारस्य मु. ।।१४. विघ्नो ह्ययं ला. ॥ १५. निर्दोषायां य: स्नुषायां ला. ॥१६. "प्रतीक्षस्व तदागमनं" ला.टि. ॥१७. नीलमणे: काचस्य
For Private & Personal Use Only
Jain Education in
Iktional
www.jainelibrary.org