________________
कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं
अथाऽऽविवाहादापुत्रजन्माऽऽचख्यावशेषतः । अञ्जनाया दु:खहेतुं बाष्पायितमुखी सखी ॥१९९॥ सद्यो रुदन् सोऽप्यवादीदहं हनुपुरेश्वरः । एषोऽस्मि सुन्दरीमालाकुक्षिभूश्चित्रभानुजः ॥ २००॥ भ्राता मानसवेगाख्यस्त्वज्जनन्याश्च बालिके ! । दिष्ट्या त्वां दृष्टवानस्मि जीवन्तीमाश्वसिह्यतः ॥ २०९ ॥ युग्मम् ॥ तं मातुलं विदित्वा साऽप्यरोदीदधिकाधिकम् । पुनर्नवीभवेत् प्रायो दुःखमिष्टावलोकनात् ॥ २०२॥ रुदन्तीं वारयित्वा तां प्रतिसूर्य: सहागतम् । सूनोर्जन्मादि पप्रच्छ दैवज्ञमथ सोऽवदत् ॥ २०३॥ भाव्यवश्यं महाराजो भवे चाऽत्रैव सेत्स्यति । शुभग्रहबले लग्ने जातोऽयं पुण्यभाक् शिशुः ॥ २०४॥ तथाहि तिथिर्रद्येयं चैत्रस्य बहुलाष्टमी । नक्षत्रं श्रवणं स्वामी वासरस्य विभावसुः॥२०५॥ आदित्यो वर्तते मेषे भुवनं तुङ्गमाश्रितः । चन्द्रमा मकरे मध्ये भवने समवस्थितः ॥ २०६॥ लोहिताङ्गो वृषे'मध्ये मध्ये मीने विधोः सुतः । कुलीरे धिषेणोऽत्युच्चैरध्यास्य भवनं स्थितः ॥२०७॥ मीने दैत्यैगुरुस्तुङ्गस्तस्मिन्नेव शनैश्चरः । मीनलग्नोदये ब्रह्मयोगे सर्वमिदं शुभम् ॥ २०८॥ चतुर्भिः कलापकम्॥ || प्रतिसूर्योऽथ जौमेयीं ससखीं सात्मजां च ताम् । विमानवरमारोप्य प्रतस्थे स्वपुरं प्रति ॥ २०९॥ विमाने लम्बमानोच्चरत्नप्रालम्बकिङ्किणीः । जिघृक्षुर्मातुरुत्सङ्गादुत्पपाताऽथ बालकः ॥२१०॥ पपात च गिरेर्मूर्ध्नि व्योम्नः पविरिव च्युतः । तत्पातनिर्घातवशात् स गिरिः कणशोऽभवत् ॥२११॥ आजघ्ने हृदयं सद्यः पाणिनाऽञ्जनसुन्दरी । दैरीरपि प्रतिरवै रोदयन्ती रुरोद च ॥२१२॥ प्रतिसूर्योऽनुपत्याऽऽशु भागिनेय्यास्तमर्भकम् । अक्षताङ्गमुपादायाऽर्पयन्नष्टनिधानवत् ॥ २१३॥ प्रतिसूर्यो विमानेन मनोवेगेन तद्युतः । ययौ पुरे हनुरुहे सद्यः कृतमहोत्सवे ॥ २१४॥ नीत्वा चोत्तारयामास स्ववेश्मन्यञ्जनां मुदा । कुलदेवीमिवाऽऽयातां तच्छुद्धान्तोऽप्यपूजयत् ॥ २१५॥ पुरे हनुरुहे यस्माज्जातमात्रोऽयमाययौ । तत् सूनोर्मातुलश्चक्रेऽभिधानं हनुमानिति ॥ २१६ ॥ यच्छैलश्चूर्णितोऽनेन पतितेन विमानतः । ततः श्रीशैल इत्याख्यां तस्याऽन्यामपि सोऽकरोत् ॥ २१७॥ हनुमानप्यवर्धिष्ट तत्र क्रीडन् यथासुखम् । राजहंसार्भक इव मानसाम्भोजिनीवने ॥ २९८ ॥ दोषोऽध्यारोपितः श्वश्र्वा कथं नामोत्तरिष्यति ? । सदैवं चिन्तयाऽताम्यदन्त: शल्येव चाऽञ्जना ॥ २१९ ॥ इतश्च पवनः सन्धिं विधाय खर-दूषणौ । वरुणान्मोचयामास तोषयामास रावणम् ॥ २२०॥ ततश्च रावणो लङ्कां जगाम सपरिच्छदः । पवनोऽपि तमापृच्छ्य स्वमेव पुरमाययौ ॥ २२१ ॥ प्रणम्य पितरौ तत्राऽञ्जनावासगृहं ययौ । तच्चाऽनैञ्जनमद्राक्षीद् गतज्योत्स्नमिवोडुपम् ॥२२२॥ क्वाऽञ्जना सा नयनयोरमृताञ्जनदर्शना । मत्प्रेयसीति तत्रस्थामेकां पप्रच्छ चै स्त्रियम् ॥ २२३॥ साऽप्याख्यत् त्वयि यात्रायां गतेऽहस्सु कियत्स्वपि । निर्वासिता केतुमत्या गर्भसम्भवदोषतः ॥ २२४ ॥ महेन्द्रनगरासन्ने सा नीत्वाऽऽरक्षपूरुषैः । अरण्ये मुमुचे पापैर्हरिणीव भयाकुला ॥ २२५॥ इति श्रुत्वा च पवनो ययौ पवनरंहसा । पारापत इव प्रेर्यैस्युत्कः श्वशुरपत्तनम् ॥२२६॥
१५४
प्रियामपश्यंस्तत्राऽपि पप्रच्छैकां स योषितम् । इहाऽञ्जना प्रेयसी मे किमायाताऽथवा न हि ? ॥ २२७॥ साऽऽचख्याविह साऽऽयासीद् वसन्ततिलकान्विता । परं निर्वासिता पित्रोत्पन्नदौःशील्यदोषतः ॥२२८॥ पविनेवाऽऽहतस्तेन वचसा पवनञ्जयः । प्रियामन्वेष्टुमभ्राम्यद् भृशं शैल-वनादिषु ॥ २२९ ॥ तत्प्रवृत्तिं च न प्राप शापभ्रष्ट इवाऽमरः । विषण्णः स जगादैवं मित्रं प्रहसितं निजम् ॥ २३० ॥
(सप्तमं पर्व
सखे! गत्वा शंस पित्रोर्भ्राम्यताऽपि महीमिमाम् । मयाऽद्य यावदालोकि न क्वाऽप्यञ्जनसुन्दरी ॥२३१॥ पुनर्गवेषयिष्यामि तामरण्ये तपस्विनीम् । द्रक्ष्यामि चेत् साधु तर्हि नो चेद् वेक्ष्यामि पावकम् ॥२३२॥
१. सुतिथिरयं ला.; सुतिथिरियं मु. ॥ २. सूर्यः ॥ ३. “सर्वेऽपि ग्रहा अर्ध-भुक्ता वर्तन्ते ” ला. टि. ॥ ४. मङ्गलः ॥ ५. ० वृषे कन्यामध्यासीनो विधो० ता. ॥ ६. मध्यो मध्य इति रसंपा. ॥ ७. बुधः ॥ ८. कर्कराशौ । ९. गुरुः । १०. ०ऽभ्युच्चै० ता. ॥ ११. मीने स्थितो दैत्य० ला ॥। १२. शुक्रः ॥ १३. भगिनीपुत्रीम् ॥ १४. ग्रहीतुमिच्छुः ॥ १५. गुहाः ॥ १६. प्रतिघोषैः ॥ १७. धावित्वा ॥ १८. ०न्निष्ट० मो. ॥। १९. “अन्तःपुरं" ला. टि. ॥ २०. सदैवं ता. ॥ २१. अञ्जनारहितम् ।। २२. वेत्रिणीम् मो. ॥ २३. श्रुत्वाऽथ मु. खंता. पाता. प्रभृतिषु ॥ २४. प्रियायामुत्सुकः ।। २५. प्रवेशं करिष्यामि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org